श्रीहरिवंशपुराण हरिवंश पर्व पञ्चचत्वारिंशोऽध्यायः
देवासुरसङ्ग्रामवर्णनम्
वैशंपायन उवाच
ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा ।
सुराणामसुराणां च परस्परजयैषिणाम् ॥ १ ॥
दानवा दैवतैः सार्धं नानाप्रहरणोद्यताः ।
समीयुर्युध्यमाना वै पर्वताः पर्वतैरिव ॥ २ ॥
तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ ।
धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥ ३ ॥
ततो रथैः प्रजविभिर्वाहनैश्च प्रचोदितैः ।
उत्पतद्भिश्च गगनं सासिहस्तैः समन्ततः ॥ ४ ॥
विक्षिप्यमाणैर्मुसलैः सं प्रेष्यद्भिश्च सायकैः ।
चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ॥ ५ ॥
तद्युद्धमभवद्घोरं देवदानवसंकुलम् ।
जगतस्त्रासजननं युगसंवर्तकोपमम् ॥ ६ ॥
स्वहस्तमुक्तैः परिघैः क्षिप्यमाणैश्च पर्वतैः ।
दानवा समरे जघ्नुर्देवानिन्द्रपुरोगमान् ॥ ७ ॥
ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः ।
विषण्णमनसो देवा जग्मुरार्तिं पराम् मृधे ॥ ८ ॥
तेऽस्त्रजालैः प्रमथिताः परिघैर्भिन्नमस्तकाः ।
भिन्नोरस्का दितिसुतैर्वेमू रक्तं व्रणैर्बहु ॥ ९ ॥
स्पन्दिताः पाशजालैश्च नियत्नाश्च शरैः कृताः ।
प्रविष्ट दानवीं मायां न शेकुस्ते विचेष्टितुम् ॥ १० ॥
संस्तम्भितमिवाभाति निष्प्राणसदृशाकृति ।
बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम् ॥ ११ ॥
मायापाशान् विकर्षंश्च भिन्दन् वज्रेण ताञ्शरान् ।
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥ १२ ॥
स दैत्यान् प्रमुखे हत्वा तद् दानवबलं महत् ।
तामसेनास्त्रजालेन तमोभूतमथाकरोत् ॥ १३ ॥
तेऽन्योन्यं नावबुध्यन्त देवान् वा दानवानपि ।
घोरेण तमसाऽऽविष्टाः पुरुहूतस्य तेजसा ॥ १४ ॥
मायापाशैर्विमुक्ताश्च यत्नवन्तः सुरोत्तमाः ।
वपूंषि दैत्यसङ्घानां तमोभूतान्यपातयन् ॥ १५ ॥
अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसः ।
पेतुस्ते दानवगणाश्छिन्नपक्षा इवाचलाः ॥ १६ ॥
दैत्यानां तद्घनीभूतमन्धकारमहार्णवम् ।
प्रविष्टं बलमुत्त्रस्तं तमोभूतमिवाबभौ ॥ १७ ॥
तदासृजन्महामायां मयस्तां तामसीं दहन् ।
युगान्ताग्निमिवात्युग्रां सृष्टामौर्वेण वह्निना ॥ १८ ॥
सा ददाह तमः सर्वं माया मयविकल्पिता ।
दैत्याश्च दीप्तवपुषः सद्य उत्तस्थुराहवे ॥ १९ ॥
मायामौर्वीं समासाद्य दह्यमाना दिवौकसः ।
भेजिरे चन्द्रविषयं शीतांशुसलिलेशयात् ॥ २० ॥
ते दह्यमाना ह्यौर्वेण तेजसा भ्रष्टतेजसः ।
शशंसुर्वज्रिणे देवाः संतप्ताः शरणैषिणः ॥ २१ ॥
संतप्ते मायया सैन्ये दह्यमाने च दानवैः ।
चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ॥ २२ ॥
वरुण उवाच
पुरा ब्रह्मर्षिजः शक्र तपस्तेपेऽतिदारुणम् ।
ऊर्वो मुनिः स तेजस्वी सदृशो ब्रह्मणो गुणैः ॥ २३ ॥
तं तपन्तमिवादित्यं तपसा जगदव्ययम् ।
उपतस्थुर्मुनिगणा देवा ब्रह्मर्षिभिः सह ॥ २४ ॥
हिरण्यकशिपुश्चैव दानवो दानवेश्वरः ।
ऋषिं विज्ञापयामास पुरा परमतेजसम् ॥ २५ ॥
तमूचुर्ब्रह्मऋषयो वचनं ब्रह्मसंमितम् ।
ऋषिवंशेषु भगवञ्छिन्नमूलमिदं कुलम् ॥ २६ ॥
एकस्त्वमनपत्यश्च गोत्रं यन्नानुवर्तसे ।
कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे ॥ २७ ॥
बहूनि विप्रगोत्राणि मुनीनां भावितात्मनाम् ।
एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः ॥ २८ ॥
कुलेषु छिन्नमूलेषु तेषु नो नास्ति कारणम् ।
भवांस्तु तपसा श्रेष्ठः प्रजापतिसमद्युतिः ॥ २९ ॥
तत्प्रवर्तस्व वंशाय वर्धयात्मानमात्मना ।
त्वमाधत्स्वोर्जितं तेजो द्वितीयां वै तनुं कुरु ॥ ३० ॥
स एवमुक्तो मुनिभिर्मुनिर्मनसि ताडितः ।
जगर्हे ताणृषिगणान् वचनं चेदमब्रवीत् ॥ ३१ ॥
यथायं शाश्वतो धर्मो मुनीनां विहितः पुरा ।
सदाऽऽर्षं सेवतां कर्म वन्यमूलफलाशिनाम् ॥ ३२ ॥
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यानुवर्तिनः ।
ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ॥ ३३ ॥
द्विजानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः ।
अस्माकं तु वनं वृत्तिर्वनाश्रमनिवासिनाम् ॥ ३४ ॥
अम्बुभक्षा वायुभक्षा दन्तोलूखलिकास्तथा ।
अश्मकुट्टा दशनपाः पञ्चातपतपाश्च ये ॥ ३५ ॥
एते तपसि तिष्ठन्तो व्रतैरपि सुदुष्करैः ।
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ते परां गतिम् ॥ ३६ ॥
ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते ।
एवमाहुः परे लोके ब्रह्ह्म ब्रह्मविदो जनाः ॥ ३७ ॥
ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः ।
ये स्थिता ब्रह्मचर्येषु ब्राह्मणास्ते दिवि स्थिताः ॥ ३८ ॥
नास्ति योगं विना सिद्धिः नास्ति सिद्धिं विना यशः ।
नास्ति लोके यशोमूलं ब्रह्मचर्यात् परं तपः ॥ ३९ ॥
तन्निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चमम् ।
ब्रह्मचर्येण वर्तेत किमतः परमं तपः ॥ ४० ॥
अयोगे केशहरणमसङ्कल्पे व्रतक्रिया ।
अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसंज्ञितम् ॥ ४१ ॥
क्व दाराः क्व च संयोगः क्व च भावविपर्ययः ।
यदेयं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥ ४२ ॥
यद्यस्ति तपसो वीर्यं युष्माकममितात्मनाम् ।
सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥ ४३ ॥
मनसा निर्मिता योनिराधातव्या तपस्विना ।
न दारयोगं बीजं वा व्रतमुक्तं तपस्विनाम् ॥ ४४ ॥
यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः ।
व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतिः ॥ ४५ ॥
वपुर्दीप्तान्तरात्मानमेष कृत्वा मनोमयम् ।
दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहम् ॥ ४६ ॥
एवमात्मानमात्मा मे द्वितीयं जनयिष्यति ।
वन्येनानेन विधिना दिधक्षन्तमिव प्रजाः ॥ ४७ ॥
ऊर्वस्तु तपसाऽऽविष्टो निवेश्योरुं हुताशने ।
ममन्थैकेन दर्पेण पुत्रस्य प्रभवारणिम् ॥ ४८ ॥
तस्योरुं सहसा भित्त्वा ज्वालामाली निरिन्धनः ।
जगतो निधनाकाङ्क्षी पुत्रोऽग्निः समपद्यत ॥ ४९ ॥
ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तकोऽनलः । ॥
दिधक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः ॥ ५० ॥
उत्पन्नमात्रश्चोवाच पितरं दीप्तया गिरा ।
क्षुधा मे बाधते तात जगद् भक्षे त्यजस्व माम् ॥ ५१ ॥
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश ।
निर्दहन्निव भूतानि ववृधे सोऽन्तकोऽनलः ॥ ५२ ॥
एतस्मिन्नन्तरे ब्रह्मा सर्वलोकपतिः प्रभुः ।
आजगाम मुनिर्यत्र व्यसृजत् पुत्रमुत्तमम् ॥ ५३ ॥
स ददर्शोरुपूर्वस्य दीप्यमानं सुताग्निना ।
और्वकोपाग्निसंतप्ताँल्लोकांश्च ऋषिभिः सह ।
तमुवाच ततो ब्रह्मा मुनिमूर्वं सभाजयन् ॥ ५४ ॥
धार्यतां पुत्रजं तेजो लोकानां हितकाम्यया ।
अस्यापत्यस्य ते विप्र करिष्ये साह्यमुत्तमम् ॥ ५५ ॥
वासं चास्य प्रदास्यामि प्राशनं चामृतोपमम् ।
तथ्यमेतन्मम वचः शृणु त्वं वदतां वर ॥ ५६ ॥
ऊर्व उवाच
धन्योऽस्म्यनुगृहीतोऽस्मि यन्ममाद्य भवाञ्छिशोः ।
मतिमेतां ददातीह परमानुग्रहाय वै ॥ ५७ ॥
प्रभावकाले संप्राप्ते काङ्क्षितव्ये समागमे ।
भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखं ॥ ५८ ॥
कुत्र चास्य निवासो वै भोजनं च किमात्मकम् ।
विधास्यति भवानस्य वीर्यतुल्यं महौजसः ॥ ५९ ॥
ब्रह्मोवाच
वडवामुखेऽस्य वसतिः समुद्रास्ये भविष्यति।
मम योनिर्जलं विप्र तच्च तोयमयं वपुः ॥ ६० ॥
तद्धविस्तव पुत्रस्य विसृजाम्यालयं तु तत् ।
तत्रायमास्तां नियतः पिबन्वारिमयं हविः ॥ ६१ ॥
ततो युगान्ते भूतानामेष चाहं च सुव्रत ।
सहितौ विचरिष्यावो लोकानिति पुनः पुनः ॥ ६२ ॥
एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः ।
दहनः सर्वभूतानां सदेवासुररक्षसाम् ॥ ६३ ॥
एवमस्त्विति सोऽप्यग्निः संवृतज्वालमण्डलः ।
प्रविवेशार्णवमुखं निक्षिप्य पितरि प्रभाम् ॥ ६४ ॥
प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः ।
और्वस्याग्नेः प्रभावज्ञाः स्वां स्वां गतिमुपाश्रिताः ॥ ६५ ॥
हिरण्यकशिपुर्दृष्ट्वा तदद्भुतमपूजयत् ।
ऊर्वं प्रणतसर्वाङ्गो वाक्यं चेदमुवाच ह ॥ ६६ ॥
भगवन्नद्भुतमिदं निवृत्तं लोकसाक्षिकम् ।
तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः ॥ ६७ ॥
अहं तु तव पुत्रस्य तव चैव महाव्रत ।
भृत्य इत्यवगन्तव्यः श्लाघ्योऽस्मि यदि कर्मणा ॥ ६८ ॥
तन्मां पश्य समापन्नं तवैआराधने रतम् ।
यदि सीदे मुनिश्रेष्ठ तवैव स्यात् पराजयः ॥ ६९ ॥
ऊर्व उवाच
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य तेऽहं गुरुर्मतः ।
नास्ति ते तपसानेन भयमद्येह सुव्रत ॥ ७० ॥
इमां च मायां गृह्णीष्व मम पुत्रेण निर्मिताम् ।
निरिन्धनामग्निमयीं दुःस्पर्शां पावकैरपि ॥ ७१ ॥
एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे ।
रक्षिष्यत्यात्मपक्षं सा परांश्च प्रहरिष्यति ॥ ७२ ॥
एवमस्त्विति तां गृह्य प्रणम्य मुनिपुङ्गवम् ।
जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥ ७३ ॥
वरुण उवाच
सैषा दुर्विषहा माया देवैरपि दुरासदा ।
और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना ॥ ७४ ॥
तस्मिंस्तु व्युत्थिते दैत्ये निर्वीर्यैषा न संशयः ।
शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा ॥ ७५ ॥
यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान् सुखी ।
दीयतां मे सखा शक्र तोययोनिर्निशाकरः ॥ ७६ ॥
तेनाहं सह संगम्य यादोभिश्च समावृतः ।
मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः ॥ ७७ ॥
इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
और्वाग्निसंभवोनाम पञ्चचत्वारिंशोऽध्यायः
देवासुरसङ्ग्रामवर्णनम् -
इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि देवासुरसङ्ग्रामवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥
अध्याय पंचेचाळिसावा समाप्त
GO TOP
|