श्रीहरिवंशपुराण
हरिवंश पर्व
चतुश्चत्वारिंशोऽध्यायः


देवसेनावर्णनम्

वैशंपायन उवाच -
श्रुतस्ते दैत्यसैन्यस्य विस्तरस्तात विग्रहे ।
सुराणां सर्वसैन्यस्य विस्तरं वैष्णवं शृणु ॥ १ ॥
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ । ॥
सबलाः सानुगाश्चैव संनह्यन्त यथाबलम् ॥ २ ॥
पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् ॥ ॥
ग्रामणीः सर्वदेवानमारुरोह सुरद्विषम् ॥ ३ ॥
सव्ये चास्य राथः पार्ष्वे पक्षिप्रवरवेगवाn ।
सुचारुचक्रचरणो हेमवज्रपरिष्कृतः ॥ ४ ॥
देवगन्धर्वयक्षौघैरनुयातः सहस्रशः ।
दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ॥ ५ ॥
वज्रविस्फूर्जितोद्धूतैर्विद्युदिन्द्रायुधान्वितैः ।
गुप्तो बलाहकगणैः कामगैरिव पर्वतैः ॥ ६ ॥
समारूढः स भगवान् पर्येति मघवा गजम् ।
हविर्धानेषु गायन्ति विप्राः सोममखे स्थिताः ॥ ७ ॥
स्वर्गे शक्रानुयानेषु देवतूर्यनिनादिषु ।
इन्द्रं समुपनृत्यन्ति शतशो ह्यप्सरोगणाः ॥ ८ ॥
केतुना वंशजातेन राजमानो यथा रविः ।
युक्तो हरिसहस्रेण मनोमारुतरंहसा ॥ ९ ॥
स स्यन्दनवरो भाति युक्तो मातलिना तदा ।
कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा ॥ १० ॥
यमस्तु दण्डमुद्यम्य कालयुक्तं च मुद्गरम् ।
तस्थौ सुरगणानीके दैत्यान् नादेन भीषयन् ॥ ११ ॥
चतुर्भिः सागरैर्गुप्तो लेलिहानैश्च पन्नगैः ।
शङ्खमुक्ताङ्‌गदधरो बिभ्रत्तोयमयं वपुः ॥ १२ ॥
कालपाशं समाविध्य हयैः शशिकरोपमैः ।
वाय्वीरितजलोद्गारैः कुर्वंल्लीलाः सहस्रशः ॥ १३ ॥
पाण्डुरोद्धूतवसनः प्रवालरुचिराधरः ।
मणिश्यामोत्तमवपुर्हारभारार्पितोदरः ॥ १४ ॥
वरुणः पाशभृन्मध्ये देवानीकस्य तस्थिवान् ।
युद्धवेलामभिलषन् भिन्नवेल इवार्णवः ॥ १५ ॥
यक्षराक्षससैन्येन गुह्यकानां गणैरपि ।
मणिश्यामोत्तमवपुः कुबेरो नरवाहनः ॥ १६ ॥
युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ।
राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत ॥ १७ ॥
विमानयोधी धनदो विमाने पुष्पके स्थितः ।
स राजराजः शुशुभे युद्धार्थी नरवाहनः ।
प्रेक्ष्यमाणः शिवसखः साक्षादिव शिवः स्वयं ॥ १८ ॥
पूर्वं पक्षं सहस्राक्षः पितृराजस्तु दक्षिणम् ।
वरुणः पश्चिमं पक्षमुत्तरं नरवाहनः ॥ १९ ॥
चतुर्षु युक्ताश्चत्वारो लोक्पाला बलोत्कटाः ।
स्वासु दिक्ष्वभ्यरक्षन् वै तस्य देवबलस्य ह ॥ २० ॥
सूर्यः सप्ताश्वयुक्तेन रथेनाम्बरगामिना ।
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ॥ २१ ॥
उदयास्तमयं चक्रे मेरुपर्यन्तगामिना ।
त्रिदिवद्वारचक्रेण तपता लोकमव्ययम् ॥ २२ ॥
सहस्ररश्मियुक्तेन भ्राजमानः स्वतेजसा ।
चचार मध्ये देवानां द्वादशात्मा दिनेश्वरः ॥ २३ ॥
सोमः श्वेतहयैर्भाति स्यन्दने शीतरश्मिवान् ।
हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत् ॥ २४ ॥
तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम् ।
जगच्छायाङ्‌किततनुं नैशस्य तमसः क्षयम् ॥ २५ ॥
ज्योतिषामीश्वरं व्योम्नि रसानां रसनं प्रभुम् ।
औषधीनां परित्राणं निधानममृतस्य च ॥ २६ ॥
जगतः प्रथमं भागं सौम्यं शीतमयं रसम् ।
ददॄशुर्दानवाः सोमं हिमप्रहरणस्थितम् ॥ २७ ॥
यः प्राणः सर्वभूतानां पंचधा भिद्यते नृषु ।
सप्तस्कन्धगतो लोकांस्त्रीन् दधार चराचरान् ॥ २८ ॥
यमाहुरग्नेर्यन्तारं सर्वप्रभवमीश्वरम् ।
सप्तस्वरगता यस्य योनिर्गीतिरुदीर्यते ॥ २९ ॥
यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम् ।
यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम् ॥ ३० ॥
स वायुः सर्वभूतायुरुद्धतः स्वेन तेजसा ।
ववौ प्रव्यथयन् दैत्यान् प्रतिलोमः सतोयदः ॥ ३१ ॥
मरुतो देवगन्धर्वा विद्याधरगणैः सह ।
चिक्रीडुरसिभिः शुभ्रैर्निर्मुक्तैरिव पन्नगैः ॥ ३२ ॥
सृजन्तः सर्पपतयस्तीव्रं रोशमयं विषम् ।
शरभूताः सुरेन्द्राणां चेरुर्व्यात्तमुखा दिवि ॥ ३३ ॥
पर्वतास्तु शिलाशृङ्‌गैः शतशाखैश्च पादपैः ।
उपतस्थुः सुरगणान् प्रहर्तुं दानवं बलम् ॥ ३४ ॥
यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः ।
कृष्णवर्त्मा युगान्ताभो विश्वस्य जगतः प्रभुः ॥ ३५ ॥
समुद्रयोनिर्मधुहा हव्यभुक्‌क्रतुसत्कृतः ।
भूरापोव्योमभूतात्मा समः शान्तिकरोऽरिहा ॥ ३६ ॥
जगद्योनिर्जगद्‌बीजो जगद्गुरुरुदारधीः ।
सोऽर्कमग्निमिवोद्यन्तमुद्यम्योत्तमतेजसम् ॥ ३७ ॥
अरिघ्नममरानीके चक्रं चक्रगदाधरः ।
सपरीवेषमुद्यन्तं सवितुर्मण्डलं यथा ॥ ३८ ॥
सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् ।
करेण कालीं वपुषा शत्रुकालप्रदां गदाम् ।
शेषैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः ॥ ३९ ॥
दधारायुधजालानि शार्ङ्‌गादीनि महायशाः ।
स कश्यपस्यात्मभवं द्विजं भुजगभोजनम् ॥ ४० ॥
पवनाधिकसंपातं गगनक्षोभणं खगम् ।
भुजगेन्द्रेण वदने निविष्टेन विराजितम् ॥ ४१ ॥
अमृतारंभनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् ।
देवासुरविमर्देषु शतशो दृष्टविक्रमम् ॥ ४२ ॥
महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणम् ।
शिखिनं चूडिनं चैव तप्तकुण्डलभूषणम् ।
विचित्रपक्षवसनं धातुमन्तमिवाचलम् ॥ ४३ ॥
स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा।
भोगिभोगावसक्तेन मणिरत्नेन भास्वता ॥ ४४ ॥
पक्षाभ्यां चारुपत्राभ्यामावृत्य दिवि लीलया ।
युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् ॥ ४५ ॥
नीललोहितपीताभिः पताकाभिरलंकृतम् ।
केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥ ४६ ॥
अरुणावरजं श्रीमानारुह्य समरे हरिः ।
स देवः स्वेन वपुषा सुपर्णं खेचरोत्तमम् ॥ ४७ ॥
तमन्वयुर्देवगणा मुनयश्च तपोधनाः ।
गीर्भिः परममन्त्राभिस्तुष्टुवुश्च गदाधरम् ॥ ४८ ॥
तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम् ।
वारिराजपरिक्षिप्तं देवराजविराजितम् ॥ ४९ ॥
चन्द्रप्रभाभिर्विमलं युद्धाय समुपस्थितम् ।
पवनाविद्धनिर्घोषं संप्रदीप्तहुताशनम् ॥ ५० ॥
विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसा वृतम् ।
बलं बलवदुद्भूतं युद्धाय समवर्तत ॥ ५१ ॥
स्वस्त्यस्तु देवेभ्य इति स्तुत्वा तत्राङ्‌गिराब्रवीत् ।
स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे ॥ ५२ ॥
इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
देवसेनावर्णनं नाम चतुश्चत्वारिंशोऽध्यायः


देवसेनावर्णनम् -



इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि
देवसेनावर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥
अध्याय चव्वेचाळिसावा समाप्त

GO TOP