श्रीहरिवंशपुराण - हरिवंश पर्व - त्रिचत्वारिंशोऽध्यायः


श्रीहरिवंशपुराण
हरिवंश पर्व
त्रिचत्वारिंशोऽध्यायः


दैत्यसेनावर्णनम्

वैशंपायन उवाच
ततो भयं विष्णुमयं श्रुत्वा दैतेयदानवाः ।
उद्योगं विपुलं चक्रुर्युद्धाय युधि दुर्जयाः ॥ १ ॥
मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययम् ।
चतुश्चक्रं विक्रमन्तं सुकल्पितमहायुधम् ॥ २ ॥
किंकिणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् ।
खचितं रत्नजालैश्च हेमजालैश्च भूषितम् ॥ ३ ॥
स्वक्षं रथवरोदग्रं सूपस्थानमगोपमम् ।
ईहामृगगणाकीर्णं पक्षिभिश्च विराजितम् ।
दिव्यास्त्रतूणीरधरं पयोधरनिनादितम् ॥ ४ ॥
गदापरिघसंपूर्णं मूर्तिमन्तमिवार्णवम् ।
हेमकेयूरवलयं स्वर्णमण्डलकूबरम् ॥ ५ ॥
सपताकध्वजोदग्रं सादित्यमिव मन्दरम् ।
गजेन्द्राम्भोदसदृशं लम्बकेसरवर्चसम् ॥ ६ ॥
युक्तमृक्षसहस्रेण सहस्राम्बुदनादितम् ।
दीप्तमाकाशगं दिव्यं रथं पररथारुजम् ॥ ७ ॥
अध्यतिष्ठद् रणाकाङ्‌क्षी मेरुं दीप्तमिवांशुमान् ।
तारस्तु क्रोशविस्तारमायसं वायसध्वजम् ॥ ८ ॥
शैलोत्करसमाकीर्णं नीलाञ्जनचयोपमम् ।
काललोहाष्टचरणं लोहेषायुगकूबरम् ।
तिमिराङ्‌गारकिरणं गर्जन्तमिव तोयदम् ॥ ९ ॥
लोहजालेन महता सगवाक्षेण दंशितम् ।
आयसैः परिघैः कीर्णं क्षेपणीयैस्तथाश्मभिः ॥ १० ॥
प्रासैः पाशैश्च विततैरवसक्तैश्च मुद्गरैः ।
शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः ॥ ११ ॥
उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् । ॥
युक्तं खरसहस्रेण सोऽध्यारोहद्‌रथोत्तमम् ॥ १२ ॥
विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः ।
प्रमुखे तस्य सैन्यस्य दीप्तशृङ्‌ग इवाचलः ॥ १३ ॥
युक्तं हयसहस्रेण हयग्रीवस्तु दानवः ।
स्यन्दनं वाहयामास सपत्नानीकमर्दनः ॥ १४ ॥
व्यायतं बहुसाहस्रं धनुर्विस्फारयन् महत् ।
वराहः प्रमुखे तस्थौ सावरोह इवाचलः ॥ १५ ॥
खरस्तु विक्षरन् दर्पान्नेत्राभ्यां रोषजं जलम् ।
स्फुरद्दन्तौष्ठवदनः संग्राअमं सोऽभ्यकाङ्‌क्षत ॥ १६ ॥
त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः ।
व्यूहितो दानवैर्व्यूहैः परिचक्राम वीर्यवान् ॥ १७ ॥
विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः ।
श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः ॥ १८ ॥
अरिष्टो बलिपुत्रस्तु वरिष्ठोऽद्रिशिलायुधैः ।
युद्धायातिष्ठदायस्तो धराधर इवापरः ॥ १९ ॥
किशोरस्त्वतिसंहर्षात् किशोर इव चोदितः ।
अभवद् दैत्यसैन्यस्य मध्ये रविरिवोदितः ॥ २० ॥
लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः ।
दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ॥ २१ ॥
स्वर्भानुर्वक्रयोधी च दशनौष्ठेक्षणायुधः ।
हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः ॥ २२ ॥
अन्ये हयगता भान्ति नागस्कन्धगताः परे ।
सिंहव्याघ्रगताश्चान्ये वराहर्क्षगताः परे ॥ २३ ॥
केचित्खरोष्ट्रयातारः केचित्तोयदवाहनाः ।
नानापक्षिगताश्चान्ये केचित् पवनवाहनाः ॥ २४ ॥
पत्तयश्चापरे दैत्या भीषणा विकृताननाः ।
एकपादा द्विपादाश्च नर्दन्तो युद्धकाङ्‌क्षिणः ॥ २५ ॥
प्रक्ष्वेडमाना बहवः स्फोटयन्तश्च ते भुजान् । ॥
दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्‌गवाः ॥ २६ ॥
ते गदापरिघैरुग्रैर्धनुर्व्यायामशालिनः ।
बाहुभिः परिघाकारैस्तर्जयन्ति स्म देवताः ॥ २७ ॥
प्रासैः पाशैश्च खड्गैश्च तोमराङ्‌कुशपट्टिशैः ।
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥ २८ ॥
गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायुधैः ।
चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलं ॥ २९ ॥
एवं तद्दानवं सैन्यं सर्वं युद्धबलोत्कटम् ।
देवताभिमुखं तस्थौ मेघानीकमिवोत्थितम् ॥ ३० ॥
तदभुतं दैत्यसहस्रगाढं
    वाय्वग्नितोयाम्बुदशैलकल्पम् ।
बलं रणौघाभ्युदयावकीर्णं
    युयुत्सयोन्मत्तमिवाबभासे ॥ ३१ ॥
इति श्रीमन्महाभारते किलेषु हरिवंशे
हरिवंशपर्वणि त्रिचत्वारिंशोऽध्यायः


दैत्यसेनावर्णनम् -



इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि
दैत्यसेनावर्णनं नाम त्रित्वारिंशोऽध्यायः ॥ ४३ ॥
अध्याय त्रेचाळिसावा समाप्त

GO TOP