श्रीहरिवंशपुराण
हरिवंश पर्व
द्विचत्वारिंशोऽध्यायः


विष्णोरीश्वरत्वकथनम्

वैशंपायन उवाच
विश्वत्वं शृणु मे विष्णोर्हरित्वं च कृते युगे ।
वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ॥ १ ॥
ईश्वरत्वं च तस्येदं गहनां कर्मणां गतिम् ।
संप्रत्यतीतां भाव्यां च शृणु राजन्यथातथम् ॥ २ ॥
अव्यक्तो व्यक्तलिङ्‌गस्थो यत्रैव भगवान्प्रभुः ।
नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च ॥ ३ ॥
एष नारायणो भूत्वा हरिरासीत्कृते युगे ।
ब्रह्मा शक्रश्च सोमश्च धर्मः शुक्रो बृहस्पतिः ॥ ४ ॥
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ।
एष विष्णुरिति ख्यात इन्द्रादवरजोऽभवत् ॥ ५ ॥
प्रसादजं ह्यस्य विभोरदित्याः पुत्रजन्म तत् ।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥ ६ ॥
प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः ।
सोऽसॄजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन् ॥ ७ ॥
ते तन्वानास्तनूस्तत्र ब्रह्मवंशाननुत्तमान् ।
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥ ८ ॥
एतदाश्चर्यभूतस्य विष्णोर्नामानुकीर्तनम् ।
कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥ ९ ॥
वृत्ते वृत्रवधे तात वर्तमाने कृते युगे ।
आसीत् त्रैलोक्यविख्यातः संग्रामस्तारकामयः ॥ १० ॥
तत्रासन् दानवा घोराः सर्वे संग्रामदर्पिताः ।
घ्नन्ति देवगणान् सर्वान् सयक्षोरगराक्षसान् ॥ ११ ॥
ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे ।
त्रातारं मनसा जग्मुर्देवं नारायणं हरिम् ॥ १२ ॥
एतस्मिन्नन्तरे मेघा निर्वाणाङ्‌गारवर्षिणः ।
सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ॥ १३ ॥
चञ्चद्विद्युद् गणाविद्धा घोरा निह्रादकारिणः । ॥
अन्योन्यवेगाभिहताः प्रववुः सप्त माRउताः ॥ १४ ॥
दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः ।
ररास घोरैरुत्पातैर्दह्यमानमिवांबरम् ॥ १५ ॥
पेतुरुल्कासहस्राणि मुहुराकाशगान्यपि ।
न्युब्जानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥ १६ ॥
चतुर्युगान्तपर्याये लोकानां यद् भयं भवेत् ।
तादृशान्येव रूपाणि तस्मिन्नुत्पातलक्षणे ॥ १७ ॥
तमसा निष्प्रभं सर्वं न प्राज्ञायत किञ्चन । ॥
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥ १८ ॥
निशेव रूपिणी काली कालमेघावगुण्ठिता ।
द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता ॥ १९ ॥
तान् घनौघान् सतिमिरान् दोर्भ्यामुत्क्षिप्य स प्रभुः ।
वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः ॥ २० ॥
बलाहकाञ्जननिभं बलाहकतनूरुहम् ।
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥ २१ ॥
दीप्तपीतांबरधरं तप्तकाञ्चनभूषणम् ।
धूमान्धकारवपुषा युगान्ताग्निमिवोत्थितम् ॥ २२ ॥
चतुर्द्विगुणपीनांसं बलाकापङ्‌क्तिभूषणम् ।
चामीकरकराकारैरायुधैरुपशोभितम् ॥ २३ ॥
चन्द्रार्ककिरणोद्‌द्योतं गिरिकूटं शिलोच्चयम् ।
नन्दकानन्दितकरं शराशीविषधारिणम् ॥ २४ ॥
शक्तिचित्रं हलोदग्रं शङ्धृखचक्रगदाधरम् ।
विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्‌गधन्विनम् ॥ २५ ॥
हर्यश्वरथसंयुक्ते सुपर्णध्वजशोभिते ।
चन्द्रार्कचक्ररुचिरे मन्दराक्षतान्तरे ॥ २६ ॥
अनन्तरश्मिसंयुक्ते ददृशे मेरुकूबरे ।
तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे ॥ २७ ॥
भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ।
ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे ॥ २८ ॥
ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ।
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः ॥ २९ ॥
स तेषां ता गिरः श्रुत्वा विष्णुर्दयितदेवतः ।
मनश्चक्रे विनाश्य दानवानां महामृधे ॥ ३० ॥
आकाशे तु स्थितो विष्णुः सोत्तमे पुरुषोत्तमः ।
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः ॥ ३१ ॥
शान्तिं भजत भद्रं वो मा भैष्टा मरुतां गणाः ।
जिता मे दानवाः सर्वे त्राइलोक्यां प्रतिगृह्यताम् ॥ ३२ ॥
ते तस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः ।
देवाः प्रीतिं परां जग्मुः प्राप्येवामृतमुत्थितम् ॥ ३३ ॥
ततस्तमः संह्रियते विनेशुश्च बलाहकाः ।
प्रववुश्च शिवा वाताः प्रासन्नाश्च दिशो दश ॥ ३४ ॥
सुप्रभाणि च ज्योतींषि चन्द्रं चक्रुः प्रदक्षिणम् ।
दीप्तिमन्ति च तेजांसि चक्रुरर्कं प्रदक्षिणम् ॥ ३५ ॥
न विग्रहं ग्रहाश्चक्रुः प्रसन्नास्चापि सिन्धवः ।
नीरजस्का बभुर्मार्गा नाकमार्गादयस्त्रयः ॥ ३६ ॥
यथार्थामूहुः सरितो नापि चुक्षुभिरेऽर्णवाः ।
आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥ ३७ ॥
महर्षयो वीतशोका वेदानुच्चैरधीयते ।
यज्ञेषु च हविः स्वादु शिवमश्नाति पावकः ॥ ३८ ॥
प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः ।
प्रीत्या परमया युक्ता देवदेवस्य भूपतेः ।
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ॥ ३९ ॥
इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
विष्णोरीश्वरत्वकथनं नामैद्वित्वारिंशोऽध्यायः ॥


विष्णोरीश्वरत्वकथनम् -



इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि
विष्णोरीश्वरत्वकथनं नामैद्वित्वारिंशोऽध्यायः ॥ ४२ ॥
अध्याय बेचाळिसावा समाप्त

GO TOP