श्रीहरिवंशपुराण
हरिवंश पर्व
एकचत्वारिंशोऽध्यायः


विष्ण्ववतारवर्णनम्

प्रश्नभारो महांस्तात त्वयोक्तः शार्ङ्गधन्वनि ।
यथाशक्ति तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥ १ ॥
विष्णोः प्रभावश्रवणे दिष्ट्या ते मतिरुत्थिता ।
हन्त विष्णोः प्रवृत्तिं च शृणु दिव्यां मयेरिताम् ॥ २ ॥
सहस्राक्षं सहस्रास्यं सहस्रभुजमव्ययम् ।
सहरशिरसं देवं सह्स्रकरमव्ययम् ॥ ३ ॥
सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् ।
सहस्रदं सहस्रादिं सहस्रभुजमव्ययम् ॥ ४ ॥
सवनं हवनं चैव हव्यं होतारमेव च ।
पात्राणि च पवित्राणि वेदिं दीक्षां चरुं स्रुवम् ॥ ५ ॥
स्रुक्सोमं शूर्पमुसलं प्रोक्षणं दक्षिणायनम् ।
अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ॥ ६ ॥
यूपं समित्कुशं दर्वीं चमसोलूखलानि च ।
प्राग्वंशं यज्ञभूमिं च होतारं चयनं च यत् ॥ ७ ॥
ह्रस्वान्यतिप्रमाणानि चराणि स्थावराणि च ।
प्रायश्चित्तानि चार्थं च स्थण्डिलानि कुशांस्तथा ॥ ८ ॥
मन्त्रं यज्ञवहं वह्निं भागं भागवहं च यत् ।
अग्रेभुजं सोमभुजं घृतार्चिषमुदायुधम् ॥ ९ ॥
आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं विभुम् ।
तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धिमतः ॥ १० ॥
प्रादुर्भावसहस्राणि अतीतानि न संशयः ।
भूयश्चैव भविष्यन्तीत्येवमाह प्रजापतिः ॥ ११ ॥
यत् पृच्छसि महाराज पुण्यां दिव्यां कथां शुभाम् ।
यदर्थं भगवान् विष्णुः सुरेशो रिपुसूदनः ।
देवलोकं समुत्सृज्य वसुदेवकुलेऽभवत् ॥ १२ ॥
तत्तेहं संप्रवक्ष्यामि शृणु सर्वमशेषतः ।
वासुदेवस्य माहात्म्यं चरितं च महाद्युतेः ॥ १३ ॥
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ।
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः ॥ १४ ॥
प्रादुर्भावांश्च वक्ष्यामि पुण्यान् दिव्यगुणैर्युतान् ।
छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतान् ॥ १५ ॥
शुचिः प्रयतवाग् भूत्वा निबोध जनमेजय ।
इदं पुराणं परमं पुण्यं वेदैश्च सम्मितम् ॥ १६ ॥
हन्त ते कथयिष्यामि विष्णोर्दिव्यां कथां शृणु ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
धर्मसंस्थापनार्थाय तदा सम्भवति प्रभुः ॥ १७ ॥
तस्य ह्येका महाराज मूर्तिर्भवति सत्तमा ।
नित्यं दिविष्ठा या राजंस्तपश्चरति दुश्चरम् ॥ १८ ॥
द्वितीया चास्य शयने निद्रायोगमुपाययौ ।
प्रजासंहारसर्गार्थं किमध्यात्मविचिन्तकम् ॥ १९ ॥
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान् ।
पूर्णे युगसहस्रे तु देवदेवो जगत्पतिः ॥ २० ॥
पितामहो लोकपालाश्चन्द्रादित्यौ हुताशनः ।
ब्रह्मा च कपिलश्चैव परमेष्ठी तथैव च ॥ २१ ॥
देवाः सप्तर्षयश्चैव त्र्यंबकश्च महायशाः ।
वायुः समुद्राः शैलाश्च तस्य देहं समाश्रिताः ॥ २२ ॥
सनत्कुमारश्च महानुभावो
    मनुर्महात्मा भगवान् प्रजाकरः ।
पुराणदेवोऽथ पुराणि चक्रे
    प्रदीप्तवैश्वानरतुल्यतेजाः ॥ २३ ॥
येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे प्रणष्टोरगराक्षसे ॥ २४ ॥
योद्धुकामौ सुदुर्धर्षौ दानवौ मधुकैटभौ ।
हतौ प्रभवता तेन तयोर्दत्त्वामितं वरम् ॥ २५ ॥
पुरा कमलनाभस्य स्वपतः सागराम्भसि ।
पुष्करे यत्र सम्भूता देवाः सर्षिगणाः पुरा ॥ २६ ॥
एष पौष्करको नाम प्रादुर्भावो महात्मनः ।
पुराणे कथ्यते यत्र वेदः श्रुतिसमाहितः ॥ २७ ॥
वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः ।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ।
महीं सागरपर्यन्तां सशैलवनकाननाम् ॥ २८ ॥
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ २९ ॥
अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः ।
आज्यनासः स्रुवातुण्डः सामघोषस्वनो महान् ॥ ३० ॥
धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्कृतः ।
प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजाः ॥ ३१ ॥
उद्गात्रन्तो होमलिन्ङ्गः फलबीजमहौषधिः ।
वाय्वन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ॥ ३२ ॥
वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिराचितः ॥ ३३ ॥
दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणाः ॥ ३४ ॥
नानाछन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मेरुशृङ्‍ग इवोच्छ्रितः ॥ ३५ ॥
महीं सागरपर्यन्तां सशैलवनकाननाम् ।
एकार्णवजले भ्रष्टामेकार्णवगतां प्रभुः ॥ ३६ ॥
दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया ।
सहस्रशीर्षो देवादिश्चकार पृथिवीं पुनः ॥ ३७ ॥
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृथिवी सर्वा सागरांबुधरा पुरा ॥ ३८ ॥
वाराह एष कथितो नारसिंहमतः शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ ३९ ॥
पुरा कृतयुगे राजन्सुरारिर्बलदर्पितः ।
दैत्यानामादिपुर्षश्चचार तप उत्तमम् ॥ ४० ॥
दश वर्षसहस्राणि शतानि दश पञ्च च ।
जपोपवासनिरतः स्थानमौनदृढव्रतः ॥ ४१ ॥
ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ ।
ब्रह्मा प्रीतोऽभवत् तस्य तपसा नियमेन च ॥ ४२ ॥
तं वै स्वयंभूर्भगवान् स्वयमागत्य भूपते ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ ४३ ॥
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह ।
रुद्राइर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥ ४४ ॥
दिशाभिर्विदिशाभिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥ ४५ ॥
देवर्षिभिस्तपोवृद्धैः सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैश्चाप्सरोगणैः ॥ ४६
चराचरगुरुः श्रीमान् वृतः सर्वैः सुरैस्तथा ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ ४७ ॥
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ ४८ ॥
हिरण्यकशिपुरुवाच
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाशाश्च निहन्युर्मां कथंचन ॥ ४९ ॥
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह ।
शपेयुस्तपसा युक्ता वरमेतं वृणोम्यहम् ॥ ५० ॥
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा ।
न शुष्केण न चार्द्रेण स्यान्न चान्येन मे वधः ॥ ५१ ॥
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ।
यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति ॥ ५२ ॥
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥ ५३ ॥
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥ ५४ ॥
एवमुक्तस्तु दैत्येन स्वयंभूर्भगवांस्तदा ।
उवाच दैत्यराजं तं प्रहसन् नृपसत्तम ॥ ५५ ॥
ब्रह्मोवाच
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
सर्वान्कामानिमांस्तात प्राप्स्यसि त्वं न संशयः ॥ ५६ ॥
एवमुक्त्वा तु भगवाञ्जगामाकाशमेव हि ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ ५७ ॥
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।
वरप्रदानं श्रुत्वा ते पितामहमुपस्थिताः ॥ ५८ ॥
विभुं विज्ञापयामासुर्देवा इन्द्रपुरोगमाः ॥ ५९ ॥
देवा ऊचुः
वरेणानेन भगवन् बाधयिष्यति नोऽसुरः ।
ततः प्रसीद भगवन्वधोऽप्यस्य विचिन्त्यताम् ॥ ६० ॥
भगवान् सर्वभूतानां स्वयंभूरादिकृद् विभुः ।
स्रष्टा च हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः ॥ ६१ ॥
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
प्रोवाच भगवान् वाक्यं सर्वान् देवगणांस्तदा ॥ ६२ ॥
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति ॥ ६३ ॥
एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजसंभवात् ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ ६४ ॥
लब्धमात्रे वरे चापि सर्वाः सोऽबाधत प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ ६५ ॥
आश्रमेषु महाभागान् मुनीन् वै शंसितव्रतान् ।
सत्यधर्मरतान् दान्तान् पुरा धर्षितवांस्तु सः ॥ ६६ ॥
देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ।६७ ॥
यदा वरमदोन्मत्तो न्यवसद्दानवो भुवि ।
यज्ञियान् कृतवान् दैत्यान् देवांश्चैवाप्ययज्ञियान् ॥ ६८ ॥
आदित्याश्च ततो रुद्रा विश्वे च मरुतस्तथा ।
शरण्यं शरणं विष्णुमुपाजग्मुर्महाबलम् ॥ ६९ ॥
वेदयज्ञमयं ब्रह्म ब्रह्मदेवं सनातनम् ।
भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् ।
नारायणं विभुं देवाः शरणं शरणागताः ॥ ७० ॥
देवा ऊचुः
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्भयात् ।
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ॥ ७१ ॥
त्वम् हि नः परमो देवस्त्वं हि नः परमो गुरुः ।
उत्फुल्लाम्बुजपत्राक्षः शत्रुपक्षभयङ्करः ।
क्षयाय दितिवंशस्य शरण्यस्त्वं भवस्व नः ॥ ७२ ॥
विष्णुरुवाच
भयं त्यजध्वममरा ह्यभयं वो ददाम्यहम् ।
तथैवं त्रिदिवं देवाः प्रतिपत्स्यथ माचिरम् ॥ ७३ ॥
एष तं सगणं दैत्यं वरदानेन दर्पितम् ।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ ७४ ॥
वैशंपायन उवाच
एवमुक्त्वा स भगवान् विसृज्य त्रिदशेश्वरान् ।
हिरण्यकशिपो राजन्नाजगाम हरिः सभाम् ॥ ७५ ॥
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं प्रभुः ।
नारसिंहेण वपुषा पाणिं संस्पृश्य पाणिना ॥ ७६ ॥
जीमूतघनसंकाशो जीमूतघननिःस्वनः ।
जीमूतघनदीप्तौजा जीमूत इव वेगवान् ॥ ७७ ॥
दैत्यं सोऽतिबलं दीप्तं दृप्तशार्दूलविक्रमम् ।
दृप्तैर्दैत्यगणैर्गुप्तं हतवानेकपाणिना ॥ ७८ ॥
नृसिंह एष कथितो भूयोऽयं वामनोऽपरः ।
यत्र वामनमाश्रित्य रूपं दैत्यविनाशकृत् ॥ ७९ ॥
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ॥ ८० ॥
विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।
अयःशिरा शंकुशिरा हयग्रीवश्च वीर्यवान् ॥ ८१ ॥
वेगवान् केतुमानुग्रः सोमव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव वेपनश्च महारथः ॥ ८२ ॥
बृहत्कीर्तिर्महाजिह्वः साश्वोऽश्वपतिरेव च ।
प्रह्लादोऽश्वशिराः कुंभः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वराहः शङ्‌करो रुजः ॥ ८३ ॥
शरभः शलभश्चैव कुपनः कोपनः क्रथः ।
बृहत्कीर्तिर्महाजिह्वः शङ्‌कुकर्णो महास्वनः ॥ ८४ ॥
दीर्घजिह्वोऽर्कनयनो मृदुचापो मृदुप्रियः ।
वायुर्यविष्ठो नमुचिः शंबरो विज्वरो महान् ८५ ॥
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ।
कालकः कालकेयश्च वृत्रः क्रोधो विरोचनः ॥ ८६ ॥
गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ ।
इन्द्रतापनवातापी केतुमान्बलदर्पितः ॥ ८७ ॥
असिलोमा पुलोमा च वाक्कलः प्रमदो मदः ।
स्वसृमः कालवदनः करालः कैशिकः शरः ॥ ८८ ॥
एकाक्षश्चन्द्रहा राहुः संह्रादः सृमरः स्वनः ।
शतघ्नीचक्रहस्ताश्च तथा परिघपाणयः ॥ ८९ ॥
महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः ।
अश्वयन्त्रायुधोपेता भिन्दिपालायुधास्तथा ॥ ९० ॥
शूलोलूखलहस्ताश्च परश्वधधरास्तथा ।
पाशमुद्गरहस्ता वै तथा मुद्गलपाणयः ॥ ९१ ॥
नानाप्रहरणा घोरा नानावेषा महाजवाः ।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥ ९२ ॥
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ।
भीमा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ।
आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा ॥ ९३ ॥
मार्जारगजवक्त्राश्च महावक्त्रास्तथापरे ।
नक्रमेषानना शूरा गोऽजाविमहिषाननाः ॥ ९४ ॥
गोधाशल्यकवक्त्राश्च क्रौञ्चवक्त्राश्च दानवाः ।
गरुडाननाः खड्गमुखा मयूरवदनास्तथा ॥ ९५ ॥
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनांबराः ।
चीरसंवृतदेहाश्च तथा वल्कलवाससः ।
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ॥ ९६ ॥
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ।
नानावेषधरा दैत्या नानामाल्यानुलेपनाः ॥ ९७ ॥
स्वान्यायुधानि संगृह्य प्रदीप्तान्यतितेजसा ।
क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ॥ ९८ ॥
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैः प्रभुः ।
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ॥ ९९ ॥
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य नाभ्यां किल समास्थितौ ॥ १०० ॥
परं प्रक्रममाणस्य जानुदेशे स्थितावुभौ ।
विष्णोरतुलवीर्यस्य वदन्त्येवं द्विजातयः ॥ १०१ ॥
हृत्वा स पृथिवीं कृत्स्नां जित्वा चासुरपुङ्‌गवान् ।
ददौ शक्राय त्रिदिवं विष्णुर्बलवतां वरः ॥ १०२ ॥
एष ते वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्‌भिर्द्विजैरेवं कथ्यते वैष्णवं यशः ॥ १०३ ॥
भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः ।
दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥ १०४ ॥
तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च ।
चातुर्वर्ण्ये तु संकीर्णे धर्मे शिथिलतां गते ॥ १०५ ॥
अभिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते ।
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥ १०६ ॥
सहयज्ञक्रिया वेदाः प्रत्यानीता हि तेन वै ।
चातुर्वर्ण्यमसंकीर्णं कृतं तेन महात्मना ॥ १०७ ॥
तेन हैहयराजस्य कार्तवीर्यस्य धीमतः ।
वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥ १०८ ॥
एतद् बाहूद्वयं यत्ते मृधे मम कृतेऽनघ ।
शतानि दश बाहूनां भविष्यन्ति न संशयः ॥ १०९ ॥
पालयिष्यसि कृत्स्नां च वसुधां वसुधाधिप ।
दुर्निरीक्ष्योऽरिवृन्दानां धर्मज्ञश्च भविष्यसि ॥ ११० ॥
एष ते वैष्णवः श्रीमान्प्रादुर्भावोऽद्भुतः शुभः ।
कथितो वै महाराज यथाश्रुतमरिंदम ।
भूयश्च जामदग्न्योऽयं प्रादुर्भावो महात्मनः ॥ १११ ॥
यत्र बाहुसहस्रेण विस्मितं दुर्जयं रणे ।
रामोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः ॥ ११२ ॥
रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि ।
धर्षयित्वा यथाकामं क्रोशमानं च मेघवत् ॥ ११३ ॥
कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः ।
परश्वघेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥ ११४ ॥
कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा ।
त्रिःसप्तकृत्वः पॄथिवी तेन निःक्षत्रिया कृता ॥ ११५ ॥
कृत्वा निःक्षत्रियां चैव भार्गवः सुमहातपाः ।
सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥ ११६ ॥
तस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः ।
मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम् ॥ ११७ ॥
वारुणांस्तुरगाञ्छीघ्रान् रथं च रथिनां वरः ।
हिरण्यमक्षयं धेनूर्गजेन्द्रांश्च महामनाः ।
ददौ तस्मिन् महायज्ञे वाजिमेधे महायशाः ॥ ११८ ॥
अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ।
चरमाणस्तपो दीप्तं जामदग्न्यः पुनः पुनः ।
तिष्ठते देववद् धीमान् महेन्द्रे पर्वतोत्तमे ॥ ११९ ॥
एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च ।
जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥ १२० ॥
चतुर्विंशे युगे चापि विश्वामित्रपुरःसरः ।
राज्ञो दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥ १२१ ॥
कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः ।
लोके राम इति ख्यातस्तेजसा भास्करोपमः ॥ १२२ ॥
प्रसादनार्थं लोकस्य रक्षसां निधनाय च ।
धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः ॥ १२३ ॥
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ।
यस्मै दत्तानि चास्त्राणि विश्वामित्रेण धीमता ॥ १२४ ॥
वधार्थं देवशत्रूणां दुर्धराणि सुरैरपि ।
यज्ञविघ्नकरो येन मुनीनां भावितात्मनाम् ॥ १२५ ॥
मारीचश्च सुबाहुश्च बलेन बलिनां वरौ ।
निहतौ च निराशौ च कृतौ तेन महात्मना ॥ १२६ ॥
वर्तमाने मखे येन जनकस्य महात्मनः ।
भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥ १२७ ॥
यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत् । ॥
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ॥ १२८ ॥
रूपिणी यस्य पार्श्वस्था सीतेति प्रथिता जनैः ।
पूर्वोचिता तस्य लक्ष्मीर्भर्तारमनुगच्छति ॥ १२९ ॥
चतुर्दश तपस्तप्त्वा वने वर्षाणि राघवः ।
जनस्थाने वसन् कार्यं त्रिदशानां चकार ह ॥ १३० ॥
सीतायाः पदमन्विच्छँल्लक्ष्मणानुचरो विभुः ।
विराधं च कबन्धं च राक्षसौ भीमविक्रमौ ।
जघान पुरुषव्याघ्रौ गन्धर्वौ शापवीक्षितौ ॥ १३१ ॥
हुताशनार्केन्दुतडिद्घनाभैः ॥
    प्रतप्तजाम्बूनदचित्रपुङ्खैः ।
महेन्द्रवज्राशनितुल्यसारैः ॥
    शरैः शरीरेण वियोजितौ बलात् ॥ १३२ ॥
सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः ।
वाली विनिहतो युद्धे सुग्रीवश्चाभिषेचितः ॥ १३३ ॥
देवासुरगणानां हि यक्षगन्धर्वभोगिनाम् ।
अवध्यं राक्षसेन्द्रं तं रावणं युधि दुर्जयम् ॥ १३४ ॥
युक्तं राक्षसकोटीभिर्नीलाञ्जनचयोपमम् ।
त्रैलोक्यरावणं घोरं रावणं राक्षसेश्वरम् ॥ १३५ ॥
दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ।
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ॥ १३६ ॥
जघान सचिवैः सार्धं ससैन्यं रावणं युधि ।
महाभ्रघनसंकाशं महाकायं महाबलम् ॥ १३७ ॥
तमागस्कारिणं घोरं पौलस्त्यं युधि दुर्जयम् ।
सभ्रातृपुत्रसचिवं ससैन्यं क्रूरनिश्चयम् ॥ १३८ ॥
रावणं निजघानाशु रामो भूतपतिः पुरा । ॥
मधोश्च तनयो दृप्तो लवणो नाम दानवः ॥ १३९ ॥
हतो मधुवने वीरो वरदृप्तो महासुरः ।
समरे युद्धशौण्डेन तथ चआन्ये.पि राक्षसाः ॥ १४० ॥
एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः ।
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥ १४१ ॥
नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ ।
न वित्तहरणं त्वासीद् रामे राज्यं प्रशासति ॥ १४२ ॥
पर्यदेवन्न विधवा नानर्थाश्चाभवंस्तदा ।
सर्वमासीज्जगद् दान्तम् रामे राज्यं प्रशासति ॥ १४३ ॥
न प्राणिनां भयं चापि जलानिलनिघातजम् ।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ १४४ ॥
ब्रह्म पर्यचरत् क्षत्रं विशः क्षत्रमनुव्रताः ।
शूद्राश्चैव हि वर्णांस्त्रीञ्छुष्रूषन्त्यनहंकृताः ।
नार्यो नात्यचरन् भर्तॄन् भार्यां नात्यचरत् पतिः ॥ १४५ ॥
सर्वमासीज्जगद् दान्तं निर्दस्युरभवन्मही ।
राम एकोऽभवद् भर्ता रामः पालयिताभवत् ॥ १४६ ॥
आयुर्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
अरोगाः प्राणिनश्चासन् रामे राज्यं प्रशासति ॥ १४७ ॥
देवतानामृषीणां च मनुष्याणां च सर्वशः ।
पृथिव्यां समवायोऽभूद् रामे राज्यं प्रशासति ॥ १४८ ॥
गाथा अप्यत्र गायन्ति ये पुराणविदो जनाः ।
रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः ॥ १४९ ॥
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषिता ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ १५० ॥
दश वर्षसहस्राणि दश वर्षशतानि च ।
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् ॥ १५१ ॥
ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः ।
अव्युच्छिन्नोऽभवद् राज्ये दीयतां भुज्यतामिति ॥ १५२ ॥
सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा ।
अतिचन्द्रं च सूर्यं च रामो दाशरथिर्बभौ ॥ १५३ ॥
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः ।
हित्वायोध्यां दिवं यातो राघवः स महाबलः ॥ १५४ ॥
एवमेषा महाबाहुरिक्ष्वाकुकुलनन्दनः ।
रावणं सगणं हत्वा दिवमाचक्रमे प्रभुः ॥ १५५ ॥
वैशंपायन उवाच
अपरः केशवस्यायं प्रादुर्भावो महात्मनः ।
विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥ १५६ ॥
यत्र शाल्वं च मैन्दं च द्विविदं कंसमेवच ।
अरिष्टमृषभं केशिं पूतनां दैत्यदारिकाम् ॥ १५७ ॥
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
दैत्यान्मानुषदेहस्थान् सूदयामास वीर्यवान् ॥ १५८ ॥
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः ।
नरकस्य हतः संख्ये यवनश्च महाबलः ॥ १५९ ॥
हृतानि च महीपानां सर्वरत्नानि तेजसा ।
दुराचाराश्च निहताः पार्थिवाश्च महीतले ॥ १६० ॥
नवमे द्वापरे विष्णुरष्टाविंशे पुराभवत् ।
वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरःसरः ॥ १६१ ॥
एको वेदश्चतुर्धा तु कृतस्तेन महात्मना ।
जनितो भारतो वंशः सत्यवत्याः सुतेन च ॥ १६२ ॥
एते लोकहितार्थाय प्रादुर्भावा महात्मनः ।
अतीताः कथिता राजन्कथ्यन्ते चाप्यनागताः ॥ १६३ ॥
कल्किर्विष्णूयशा नाम शंभलं ग्रामके द्विजः ।
सर्वलोकहितार्थाय भूयश्चोत्पत्स्यते प्रभुः ॥ १६४ ॥
दशमो भाव्यसंपन्नो याज्ञवल्क्यपुरःसरः ।
क्षपयित्वा च तान् सर्वान् भाविनार्थेन चोदितान् ॥ १६५ ॥
गङ्‌गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ।
ततः कुले व्यतीते तु सामात्ये सहसैनिके ॥ १६६ ॥
नृपेष्वथ प्रनष्टेषु तदा त्वप्रग्रहाः प्रजाः ।
रक्षणे विनिवृत्ते च हत्वा चान्योन्यमाहवे ॥ १६७ ॥
परस्परहृतस्वाश्च निराक्रन्दाः सुदुःखिताः ।
एवं कष्टमनुप्राप्ताः कलिसन्ध्यांशकं तदा ॥ १६८ ॥
प्रजाः क्षयं प्रयास्यन्ति सार्धं कलियुगेन ह ।
क्षीणे कलियुगे तस्मिंस्ततः कृतयुगं पुनः ।
प्रपत्स्यते यथान्यायं स्वभावादेव नान्यथा ॥ १६९ ॥
एते चान्ये च बहवो दिव्या देवगुणैर्युताः ।
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ॥ १७० ॥
यत्र देवापि मुह्यन्ति प्रादुर्भावानुकीर्तने ।
पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् ॥ १७१ ॥
एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ।
कीर्तितं कीर्तनीयस्य सर्वलोकगुरोः प्रभोः ॥ १७२ ॥
प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् ।
विष्णोरतुलवीर्यस्य यः शृणोति कृताञ्जलिः ॥ १७३ ॥
एतास्तु योगेश्वरयोगमायाः
    श्रुत्वा नरो मुच्यति सर्वपापैः ।
ऋद्धिं समृद्धिं विपुलांश्च भोगान्
    प्राप्नोति सर्वं भगवत्प्रसादात् ॥ १७४ ॥
इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
प्रादुर्भावानुसङ्‌ग्रहो नामैकचत्वारिंशोऽध्यायः


विष्ण्ववतारवर्णनम् -



इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि
विष्ण्ववतारवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥
अध्याय एकेचाळिसावा समाप्त

GO TOP