श्रीगर्गसंहिता

अश्वमेधखण्डः - सप्तपंचाशत्तमोऽध्यायः

यज्ञदक्षिणा प्रदानम् -


गर्ग उवाच -
ततः कृष्णेन भीमेन प्रार्थयित्वा द्विजान्नृपान् ॥
भोजयामास यदुराड्‌भोजनैर्विविधैरपि ॥१॥
सच्छष्कुलीपायसतण्डुलाभैः संयावकापूपसुसूपकाद्यैः ॥
सत्फेणिकाद्यैस्तु निमन्त्र्य विप्रान्संभोजयामास विशेषमन्नम् ॥२॥
शिखरिणीघृतपूरसुशक्तिकाः सुपटिनीदधिपूपकलप्सिकाः ॥
सुवृतसुंदरचन्द्रसुहालिका बटकमोदकपर्पटकैरदात् ॥३॥
केचित्फलाशनास्तत्र शुष्कपर्णाशनास्तथा ॥
केचिज्जलाशना विप्राः केचिद्‌दूर्वारसाशनाः ॥४॥
केचिद्वाताशना राजञ्जन्मतश्च तपस्विनः ॥
भोजनानां च नामानि ते न जानंति विस्मिताः ॥५॥
भक्तं च मेनिरे केचिन्मालत्याः कुसुमानि च ॥
मोदकाँश्च द्विजाः केचिदुदुंबरफलानि च ॥६॥
पायसं फेणिकां दृष्ट्वा चन्द्रबिंबं च मेनिरे ॥
पर्पटान्फेणिका दृष्ट्वा पत्राणि किंशुकस्य वै ॥७॥
मेनिरेऽर्कफलानीति दृष्ट्वा च मधुशीर्षकान् ॥
प्रलेहिकां लप्सिकां च ऋषयश्चंदनद्रवम् ॥८॥
दृष्ट्वा ते मिष्टचूर्णं वै बालुकां मुनिसत्तमाः ॥
इति मत्वा द्विजाः सर्वे बुभुजुर्भोजनानि च ॥९॥
केचित्पिबंति दुग्धं तु केचिद्‌द्राक्षारसं तथा ॥
केचिदाम्ररसं विप्राः प्रहसंति लुठंति वै ॥१०॥
ततः कृष्णस्तु भगवान्भीमेन प्रहसन्मुदा ॥
चकार हास्यं विप्राणां संस्थितानां तपस्विनाम् ॥११॥
भोजनानां च नामानि मुनयो वदत त्वरम् ॥
तान्प्रयच्छामि युष्मभ्यं भीमेन सहितोऽप्यहम् ॥१२॥
श्रीकृष्णभीमयोर्वाक्यं निशम्य मुनिसत्तमाः ॥
न किंचिदूचुर्मुदिताः प्रपश्यन्तः परस्परम् ॥१३॥
तैलंगकर्णाटकगुर्ज्जराद्या-
     नन्यान्द्विजान्गौडसनाढ्यकादीन् ॥
संपूज्य हेमांबररत्‍नवृन्दै-
     र्नृपेश्वरो विप्रवरान्ननाम ह ॥१४॥
एकलक्षं हयानां च गजानां च सहस्रकम् ॥
द्विसहस्रं रथानां च गवां लक्षं विधानतः ॥१५॥
शतभारं सुवर्णानामीदृशीं दक्षिणां नृप ॥
उग्रसेनस्तु यज्ञांते पूर्वं मह्यं ददौ किल ॥१६॥
मदर्द्धं बकदाल्भ्याय ददौ व्यासाय वै तथा ॥
तुरगाणां सहस्रं च गजानां शतमेव च ॥१७॥
द्विशतं स्यंदनानां च धेनूनां च सहस्रकम् ॥
विंशद्‌भारं सुवर्णानामीदृशं दक्षिणां पुनः ॥१८॥
निमंत्रितेभ्यो विप्रेभ्य उग्रसेनो ददौ मुदा ॥
गजमेकं रथं गां च स्वर्णभारं च घोटकम् ॥१९॥
द्विभारं रजतं चैव यादवेंद्रः प्रहर्षितः ॥
ईदृशीं दक्षिणां राजन्ब्राह्मणे ब्राह्मणे ददौ ॥२०॥
महाध्वरे कृष्णपुरी तदा बभौ
     महीतले खे ह्यमरावती यथा ॥
तदाऽऽगता मागधसूतकादयो
     वन्दीजना गायकवारयोषितः ॥२१॥
तदा नृपद्वारि महोत्सवोऽभू-
     न्मृदंगवीणामुरयष्टिवेणुभिः ॥
सुतालशंखानकदुंदुभिस्वनैः
     संगीतनृत्त्यादिकवाद्यगीतकैः ॥२२॥
जगुः सुकण्ठैर्ननृतुः सुतालैः
     संगीतगीताक्षरसामगीतैः ॥
कौसुंभवस्त्राणि विचालयन्त्यः
     संगीतनृत्येन परिस्फुरंत्यः ॥२३॥
वन्दीजना मागधगायकाश्च
     ये चागतास्तेभ्य उपागतेभ्यः ॥
प्रादाद्धिरण्यं बहुरत्‍नवृन्दं
     तथाऽऽगता ह्यप्सरसश्च ताभ्यः ॥२४॥
सूतेभ्यो मागधेभ्यश्च सर्वेभ्यो बहुलं धनम् ॥
ववर्ष घनवद्राजा हयमेधप्रहर्षितः ॥२५॥
तत्पश्चाद्यादवेंद्रस्तु ह्युग्रसेनो महीश्वरः ॥
नियुतं तुरगाणां च सहस्रं हस्तिनां तथा ॥२६॥
शिबिकानां शतं चैव कुण्डले कटकानि च ॥ त
त्रिंशद्‌भारं सुवर्णानां भूपे भूपे ददौ मुदा ॥२७॥
द्विगुणेन यदून्सर्वान्नंदादींश्चैव भूपतिः ॥
यशोदाद्याश्च गोप्यश्च देवक्याद्या यदुस्त्रियः ॥२८॥
रुक्मिण्याद्या राधिकाद्याः पट्टराज्ञो हरेरपि ॥
दिव्यांबरैरलंकारै राज्ञा सर्वाश्च तोषिताः ॥२९॥
पुनर्ददौ च गर्गाय राजा ग्रामशतं मुदा ॥
स सर्गो ब्राह्मणेभ्यश्च प्रददौ हि क्रमादृषिः ॥३०॥
ततः संपूजयामास कृष्णं संकर्षणान्वितम् ॥
वस्त्रालंकारतिलकैः स्रग्भिर्नीराजनादिभिः ॥३१॥
उवाच कृष्णः प्रहसन्मह्यं राजन्महाध्वरे ॥
समर्थेन त्वया ह्यत्र न दत्तं किंचिदेव हि ॥३२॥
इति श्रुत्वा नृपः प्राह रामेण सह माधवः ॥
यथोक्तां दक्षिणां शीघ्रं गृहाण जगदीश्वर ॥३३॥
इत्युक्त्वा प्रददौ राजा हर्षितः प्रेमविह्वलः ॥
फलं सर्वं कृष्णकरे राजसूयाश्वमेधयोः ॥३४॥
तदा जयजयारावो द्वारकायां बभूव ह ॥
सद्यः सुराश्च संतुष्टाः पुष्पवर्षं प्रचक्रिरे ॥३५॥
सर्वाश्च देवतास्तुष्टाः प्राप्तभागा दिवंगताः ॥
रक्षोदैत्या दंष्ट्रिणश्च खगा मर्का बिलेशयाः ॥३६॥
शैला गावो वृक्षसंघा नद्यस्तीर्थानि सिन्धवः ॥
संतुष्टाः प्राप्तभागा ये सर्वे स्वं स्वं गृहं गताः ॥३७॥
पूजिता दानमानाभ्यां राजानो ये समागताः ॥
जग्मुः स्वं स्वं गृहं सैन्यैः कंपयन्तो महीतलम् ॥३८॥
सर्वे गोपाश्च नन्दाद्या यशोदाद्या व्रजस्त्रियः ॥
कृष्णेन पूजिता राजन्विरहार्ता व्रजं ययुः ॥३९॥
एवं राजा यादवेंद्रो मनोरथमहार्णवम् ॥
दुस्तरं च समुत्तीर्य हरीणाऽऽसीद्‌गतव्यथः ॥४०॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
विश्वभोज्यदक्षिणावर्णनं नाम सप्तपंचाशत्तमोऽध्यायः ॥५७॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP