श्रीगर्गसंहिता

अश्वमेधखण्डः - अष्टपंचाशत्तमोऽध्यायः

कृष्णाह्वाने मृतानां कंसादि भ्रातृगणानां वैकुण्ठात्
उग्रसेनसभागमनं तथा कंसाय तेषां उपदेशः -


श्रीगर्ग उवाच -
ततः सर्वे समाहूताः श्रीकृष्णेन महात्मना ॥
वैकुण्ठादाययुः शीघ्रं कंसाद्या नव भ्रातरः ॥१॥
दृष्ट्वा तानागतान्सर्वे विस्मयं परमं ययुः ॥
ते समागत्य श्रीकृष्णं बलं प्रद्युम्नमेव च ॥२॥
अनिरुद्धं च कंसाद्या नेमुः सर्वे पृथक्पृथक् ॥
ददर्श चोग्रसेनस्तु सुधर्मायां सुतान्नृप ॥३॥
शक्रसिंहासनस्थो वै रुचिमत्या समन्वितः ॥
कंसादीन्स्वसुतान्प्रीतः कृष्णाकारांश्चतुर्भुजान् ॥४॥
शंखचक्रगदापद्मैर्भूषितान्पीतवाससः ॥
कृष्णपार्श्वे स्थितान्पुत्रानाह्वयामास भूपतिः ॥५॥
ततः कृष्णस्तु भगवान्कंसादीन्प्राह सस्मितः ॥
पश्य स्वमातापितरौ युष्माकं दर्शनोत्सुकौ ॥६॥
गत्वा समीपे हे वीरा यूयं नमत भक्तितः ॥
इति कृष्णस्य वचनं कृष्णभृत्या निशम्य च ॥७॥
ऊचुः प्रहर्षिताः सर्वे कंकन्यग्रोधकादयः ॥
कंसाद्या ऊचुः -
ईदृशाः पितरोऽस्माकमीदृश्यो मातरश्च वै ॥८॥
बहवश्चाभवन्नाथ भ्रमतां तव मायया ॥
हरिः पिता तु जीवस्य श्रुतिरेषा सनातनी ॥९॥
तस्माच्चान्यं न पश्यामो वयं त्वन्निकटे स्थिताः ॥
पुरा विलोकितस्त्वं वै संग्रामे बलसंयुतः ॥१०॥
पश्चाञ्जातौ द्वारकायां न दृष्टौ कार्ष्णिकार्ष्णिजौ ॥
तस्माद्‌द्रष्टुं चतुर्व्यूहं वयमत्र समागताः ॥११॥
श्रीकृष्णो बलभद्रश्च श्रीप्रद्युम्न उषापतिः ॥
परिपूर्णतमा एते ह्यहोऽस्माभिर्विलोकिताः ॥१२॥
केन पूर्वेण पुण्येन दृष्टो यो दुर्लभः सताम् ॥
परिपूर्णश्चचतुर्व्यूहो न जानीमो वयं किल ॥१३॥
हे संकर्षण हे कृष्ण हे प्रद्युम्न उषापते ॥
मूढानां नः कुबुद्धीनामपराधं क्षमस्व च ॥१४॥
गच्छ गोविंद वैकुण्ठं शून्यं ते धाम सुन्दरम् ॥
धन्या त्वया द्वारका तु वैकुण्ठाच्च कृताधिका ॥१५॥
यदर्चितं ब्रह्मशचीशवह्निभि-
     रादित्यगौरीशमरुद्यमादिभिः ॥
पौलस्त्यतारेशजलेशपूजितं
     पादारविंदं सततं भजामहे ॥१६॥
मुनींद्रलक्ष्मीसुरभक्तसात्वतैः
     सुपूजितं चंदनगंधधूपकैः ॥
लाजाक्षतैश्चांकुरपूगचर्चितं
     पादारविंदं सततं भजामहे ॥१७॥
गर्ग उवाच -
इत्युक्त्वा ते च कंसाद्या वैकुण्ठं प्रययुर्नृप ॥
सर्वेषां पश्यतां राजा विस्मितोऽभूत्सभार्यया ॥१८॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
कंसादिदर्शनं नामाष्टपंचाशत्तमोऽध्यायः ॥५८॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP