श्रीगर्गसंहिता
अश्वमेधखण्डः - षट्पञ्चाशत्तमोऽध्यायः
अश्वमेधसमाप्तिः तथा उग्रसेनस्य यज्ञाभिषेकम् -
गर्ग उवाच -
उग्रसेनस्य यज्ञे वै हयमेधे महात्मनः ॥
तस्यासन्परिचर्यायां बांधवाः प्रेमबंधनाः ॥१॥
ततश्चकार यदुराण्नानाकर्मसु बांधवान् ॥
भीमं महानसाध्यक्षं धर्मं धर्मस्य पालने ॥२॥
शुश्रूषणे सतां जिष्णुं नकुलं द्रव्यसाधने ॥
पूजने सहदेवं च धनाध्यक्षं सुयोधनम् ॥३॥
दाने च दानिनं कर्णं द्रौपदीं परिवेषणे ॥
रक्षायां कृष्णपुत्रान्वै ह्यष्टादश महारथान् ॥४॥
युयुधानं विकर्णं च हृदीकं विदुरं तथा ॥
अक्रूरमुद्धवं चैव नानाकर्मसु भूपतिः ॥५॥
कृत्वा प्रत्याह श्रीकृष्णं देव त्वं किं करिष्यसि ॥
श्रुत्वा कृष्ण उवाचाथ ब्राह्मणानां करोम्यहम् ॥६॥
पादप्रक्षालनं राजन्निंद्रप्रस्थे कृतं मया ॥
इति श्रुत्वा च ब्रह्माद्या जहसुर्भूजनास्तथा ॥७॥
गर्ग उवाच -
इत्युक्त्वा भगवान्साक्षादृषीणां च तपस्विनाम् ॥
पादप्रक्षालनं कृत्वा स्थापयामास तान्नृप ॥८॥
आसनेषूपविष्टास्ते वासांसि परिधाय च ॥
तिलकैर्द्वादशैर्युक्ता दिव्याभरणभूषिताः ॥९॥
नानामतानां मालाभिर्युक्ताः कर्पूरवीटकान् ॥
भुक्त्वा ते रेजिरे यज्ञे देवा इव महीसुराः ॥१०॥
ततोऽर्थिनो भिक्षवश्च विरक्ताश्च बुभुक्षिताः ॥
कुर्वन्ति याचनां सर्वे दूरदेशात्समागताः ॥११॥
ददस्वान्नं ददस्वान्नं ददस्वान्नं नरेश्वर ॥
उपानहश्च पात्राणि वस्त्राणि कंबलानि च ॥१२॥
उग्रसेनस्य यज्ञे वै मुनिवृंदैर्नृपैर्वृते ॥
तेषां तां करुणां वाचं निश्यम्य यदुसत्तमः ॥१३॥
सुवर्णं रजतं चैव वस्त्राणि भाजनानि च ॥
गजाश्वरथगोछत्र-शिबिकादीनि हर्षितः ॥१४॥
येषां येषां प्रियं यद्वै तेभ्यस्तेभ्यो ददौ नृपः ॥
उग्रसेनः कृतस्नानः क्रतुकर्मणि दीक्षितः ॥१५॥
असिपत्रव्रतध्रो रुचिमत्या बभौ ततः ॥
विप्रा विंशतिसाहस्रा वेदशास्त्रविशारदाः ॥१६॥
व्यासगर्गादयश्चैव कारयंति क्रतूत्तमम् ॥
हस्तिशुण्डासमा धारा ह्यग्निकुंडे पतात ह ॥१७॥
घृतस्य च नृपश्रेष्ठ मुनिभिर्ब्रह्मवादिभिः ॥
तद्यज्ञे कृष्णकृपया ह्यनलोऽजीर्णतां ययौ ॥१८॥
ततः प्रोवाच वह्निस्तु सर्वेषां शृण्वतां नृपम् ॥
प्रसन्नोऽहं प्रसन्नोऽहं पशुं मम प्रयच्छ वै ॥१९॥
निशम्य चाग्नेर्वचनं सभायां
श्रीयादवेन्द्रो मुनिभिः समं च ॥
बद्धं तुरंगं तपनीययूपे
हिरण्यदाम्ना च तमाह भूपः ॥२०॥
उग्रसेन उवाच -
अग्नेर्वाक्यं शृणु हय शुद्धं त्वां च पशुं क्रतोः ॥
भक्षयिष्यति वह्निस्तु घृतैस्तृप्तोऽपि चाध्वरे ॥२१॥
नृपस्य वचनं श्रुत्वा श्यामकर्णस्तुरंगमः ॥
कृष्णं विलोकयन्प्रीतः कंपयामास स्वाननम् ॥२२॥
ततो हयमतं ज्ञात्वा वेदव्यासः समं मया ॥
मण्डपे मुनिभिर्युक्ते श्रीकृष्णाद्यैर्नृपैर्वृते ॥२३॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्यज्ञदिदृक्षुभिः ॥
स्त्रीभिर्युतं प्रलंबघ्नं प्राह द्वैपायनो मुनिः ॥२४॥
व्यास उवाच -
उत्तिष्ठ बलभद्र त्वं करवालं प्रगृह्य च ॥
छिंधि कं वाजिनश्चाग्नेः प्रीतये ह्यधुना त्वरम् ॥२५॥
निहते तुरगे राम हवने च कृते सति ॥
यज्ञावतारः कृष्णस्तु प्रसन्नो भवति क्रतौ ॥२६॥
गर्ग उवाच -
एवं व्यासवचः श्रुत्वा बलः खड्गेन सत्त्वरम् ॥
शिरो हयस्य चिच्छेद तच्छिरो गगनं ययौ ॥२७॥
गत्वार्द्धं नृपशार्दूल लीनं तद्रविमंडले ॥
देवदैत्यनराः सर्वे तं दृष्ट्वा विस्मयं गताः ॥२८॥
हयस्य हृदये शूलं निजघान हसन्हरिः ॥
मकरंदसमा धारा राजँस्तत्र विनिर्गता ॥२९॥
ततश्च निर्गता ज्योतिस्तुरगस्य कलेवरात् ॥
पश्यतां चैव सर्वेषां विवेश मधुसूदने ॥३०॥
पश्चाद्भूत्वा च कर्पूरशरीरं पतितं पशोः ॥
गात्राच्च्युता यथा राजन्विभूतिः शंकरस्य च ॥३१॥
दृष्ट्वा च कर्पूरसमूहमद्भुतं
सभां सुगंधेन वृतां च द्वारकाम् ॥
व्यासादयस्ते मुनयः प्रहर्षिता
ऊचुर्नृपं वै क्रतुकर्मणि स्थितम् ॥३२॥
दिष्ट्या ते नृपशार्दूल सफलोऽभूत्क्रतूत्तमः ॥
कर्पूरेणापि हवनं करिष्यामश्च त्वं कुरु ॥३३॥
इत्युक्त्वा ऋत्विजः सर्वे यज्ञकुंडे च तत्क्षणात् ॥
घनसारं हि जुहुवुः पूर्वं यज्ञेश्वराय च ॥३४॥
यत्र यज्ञेश्वरः कृष्णश्चतुर्व्यूहधरः परः ॥
रेजे पुत्रैश्च पौत्रैश्च तत्र किं दुर्लभं नृप ॥३५॥
तस्मिन्यज्ञे महेन्द्राय वचः प्रकथितं मया ॥
गृहाण शक्र यज्ञेऽस्मिन्कर्पूरस्याहुतिं विभो ॥३६॥
एहि राज्ञार्पितां चैनां कलावग्रे हि दुर्लभाम् ॥
इति श्रुत्वा च वचनं शक्रः प्रोवाच सस्मितम् ॥३७॥
पुनर्गृह्णामि मुनयो धर्मराजक्रतूत्तमे ॥
कुलक्षये गजपुरे प्रदत्तामाहुतिं द्विजैः ॥३८॥
इति श्रुत्वा हरेर्वाक्यं सत्यं मत्वा मुनीश्वराः ॥
सर्वान्देवान्नृपश्रेष्ठ ह्यध्वरे चाहुतिं ददुः ॥३९॥
अन्ये केऽपि न जानंति वज्रिणा कथितं च किम् ॥
अग्नये स्वाहेति मन्त्रैश्च सर्वानेवाहुतीर्ददुः ॥४०॥
कर्पूरहवनेनापि प्रीतं विश्वं चराचरम् ॥
उग्रसेनस्तु राजा वै निर्ऋणोऽभून्महाध्वरे ॥४१॥
यज्ञांतेऽवभृथस्नानमुग्रसेनो द्विजोत्तमैः ॥
कृष्णाद्यैर्यादवैर्भूपैस्तीर्थे पिण्डारकेऽकरोत् ॥४२॥
भार्यया सहितः स्नात्वा वेदोक्तविधिना नृपः ॥
धृत्वा क्षौमांबरं रेजे यज्ञो दक्षिणया यथा ॥४३॥
देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा ॥
उग्रसेनोपरि सुराः पुष्पवर्षं प्रचिक्रिरे ॥४४॥
कारयित्वा स्वधापानं प्राशयित्वा यथाक्रमम् ॥
सर्वेभ्यश्च पुरोडाशं दत्वा शेषमथासृजत् ॥४५॥
उग्रसेनं च वादित्रैस्तुष्टुवुर्वंदिनो मुदा ॥
ततो नीराजनं चक्रुर्देवक्याद्याश्च योषितः ॥४६॥
अलंकारश्च रत्नानि वस्त्राणि विविधानि च ॥
नीरजनांते प्रददौ ताभ्यः प्रीतो नृपेश्वरः ॥४७॥
इति श्रीगर्गसंहितायां हयमेधखण्डे यज्ञपूर्तौ नृपस्याभिषेको नाम षट्पंचाशत्तमोऽध्यायः ॥५६॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|