श्रीगर्गसंहिता
अश्वमेधखण्डः - पंचपंचाशत्तमोऽध्यायः
यज्ञार्थं गोमतीजलानयनं नारदद्वारा गोपीगणमध्ये कलहप्रवर्तनस्य चेष्टाः, भगवतः स्वरूपदर्शनम् -
गर्ग उवाच -
अथ वै मण्डपे रम्ये द्वारैरष्टभिरन्विते ॥
पतत्पताके कुण्डाढ्ये याज्ञिकैरष्टकैर्युते ॥१॥
पलाशजैर्बिल्वजैश्च तथा श्लेष्मातकैर्नृप ॥
वेदिकाभिस्तथा यूपैश्चषालैरपि भूषिते ॥२॥
स्रुक्चर्मकुशमुसलोलूखलाद्यैर्विशांपते ॥
अन्यैः संभृतसंभारैर्नानावस्तुभिरन्विते ॥३॥
उग्रसेनस्तु राजर्षिर्ऋषिर्भिर्वेदपारगैः ॥
यादवैश्चामरावत्यां रेजे शक्र इवामरैः ॥४॥
आहूताः कृष्णचन्द्रेण गोपा नन्दादयस्ततः ॥
वृषभानुवराद्यांश्च श्रीदामाद्याः समाययुः ॥५॥
यशोमती राधिका च ह्यन्याः सर्वा व्रजस्त्रियः ॥
द्वारकामाययुः प्रीताः शिबिकाभी रथैरपि ॥६॥
आहूतो धृतराष्ट्रस्तु कौरवैश्च सुतैर्युतः ॥
आजगाम कुशस्थल्यां नृपाश्चान्ये समागताः ॥७॥
युधिष्ठिरो भीमसेनश्चार्जुनो नकुलस्तथा ॥
सहदेवो वनादेते ह्याजग्मुर्भार्यया सह ॥८॥
श्रीकृष्णेन समाहूताः प्रेषयित्वा च नारदम् ॥
शक्रादयोऽष्टौ दिक्पाला वसवो रवयस्तथा ॥९॥
यज्ञे सनत्कुमाराद्या रुद्राश्चैकादशापि हि ॥
मरुद्गणाश्च वेताला गंधर्वाः किन्नरास्तथा ॥१०॥
विश्वेदेवाश्च साध्याश्च सर्वे विद्याधरास्तथा ॥
देवाश्च देवपत्न्यश्च गन्धर्व्योऽप्सरसस्तथा ॥११॥
आजग्मुर्द्वारकां राजन्कृष्णदर्शनकांक्षया ॥
कैलासश्च समाहूतः सर्वमंगलया शिवः ॥१२॥
सुतलाद्दैत्यवृन्दैश्च प्रह्लादो बलिरेव च ॥
विभीषणो भीषणश्च मयो बल्वल एव च ॥१३॥
जांबवान्दंष्ट्रिभिः सार्द्धं हनूमान्वानरैर्युतः ॥
पक्षिभिः पक्षिराट् तत्र तथा सर्पैश्च वासुकिः ॥१४॥
धेनुभिः सहिता राजन्धेनुरूपधरा धरा ॥
मेरुः शैलैर्हिमगिरिर्वटः साक्षाद्द्रुमैर्वृतः ॥१५॥
रत्नाकरा रत्नयुता नदीभिः स्वर्धुनी तथा ॥
तीर्थैः सर्वैश्च राजेंद्र तीर्थराजश्च पुष्करः ॥१६॥
एते सर्वे समाहूता आजग्मुर्मुदिताः क्रतौ ॥
ततः कृष्णेन चाहूता व्रजभूमिः समागता ॥१७॥
कृष्णयज्ञोत्सवं द्र्ष्टुं यमुना शमनस्वसा ॥
सर्वान्दृष्ट्वाऽऽगतान्प्रीतो वासयामास चाहुकः ॥१८॥
शिबिरेषु मंदिरेषु विमानेषु वनेषु च ॥
अथाचार्यः कृतो व्यासो बकदाल्भ्यो विधिर्मया ॥१९॥
ऋत्विजश्च कृता दिव्या ये वै पूर्वं निमंत्रिताः ॥
अथ यज्ञेऽनिरुद्धस्तु श्रीकृष्णस्येच्छया नृप ॥२०॥
विधेर्विधोश्च स्वस्यापि कृत्वा रूपत्रयं बभौ ॥
दृष्ट्वा लीलां कार्ष्णिजस्य देवाश्च यदवो नृपाः ॥२१॥
विस्मिताः कथयामासुः कर्णे कर्णे परस्परम् ॥
व्यासः प्रत्याह राजानं शृणु यादवसत्तम ॥२२॥
उपविष्टा नृपा विप्रा यथास्थाने विभागशः ॥
चतुष्षष्टिर्दम्पतीनां यांतु वै गोमतीतटे ॥२३॥
आहर्तुं सलिलं तस्या मयाऽऽदिष्टं यथोचितम् ॥
अदित्याः कश्यपश्चैव वसिष्ठोऽरुंधतीयुतः ॥२४॥
द्रोणाचार्यस्तु कृप्या च ह्यत्रिश्चैवानसूयया ॥
रुक्मिण्या कृष्णचन्द्रस्तु रेवत्या राम एव च ॥२५॥
मायावत्या च प्रद्युम्न उषया कार्ष्णिजस्तथा ॥
सुभद्रयार्जुनश्चैव सांबो लक्ष्मणया तथा ॥२६॥
तथा हेमांगदाद्याश्च यांतु वै स्वस्वभार्यया ॥
श्रीगर्ग उवाच -
एवं ते व्यासवचनात्सपत्नीका द्विजा नृपाः ॥२७॥
आनेतुं गोमतीतोयं प्रययुर्बद्धपल्लवाः ॥
देवकीं रोहिणीं कुन्तीं गांधारीं च यशोमतीम् ॥२८॥
पुरस्कृत्य तु जग्राह कुंभो भैष्म्या युतो हरिः ॥
तथा रामस्तु रेवत्या सस्त्रीका येऽपि भूमिपाः ॥२९॥
सुवर्णरौप्यकलशैः सपुष्पैश्च सपल्लवैः ॥
रुक्मिण्या सहितं यांतं कृष्णं दृष्ट्वा समागमे ॥३०॥
नारदः कलहं कर्तुं सत्यभामागृहं ययौ ॥
दृष्ट्वा चैकां हरेर्भार्यां संपृष्टः स तयाब्रवीत् ॥३१॥
नारद उवाच -
आदरं सदने नास्ति सत्राजितसुते तव ॥
गतः कृष्णस्तु रुक्मिण्या चाहर्तुं गोमतीजलम् ॥३२॥
बहुभिर्याचिता त्वं तु पारिजातकहारिणी ॥
कृष्णसंकल्पकरणी मणियुक्ता च मानिनी ॥३३॥
ईदृशीं त्वां वरारोहां गरुडोपरि गामिनीम् ॥
विहाय भैष्म्या श्रीकृष्णः शोभां द्रष्टुं जगाम ह ॥३४॥
यस्याः पुत्रश्च प्रद्युम्नो यस्याः पौत्रोऽनिरुद्धकः ॥
सा दर्शयति भो मातर्वार्तां मानं च गौरवम् ॥३५॥
गर्ग उवाच -
इति श्रुत्वा प्राणनाथं रुक्मिण्या सहितं गतम् ॥३६॥
रुरोद दुःखिता राजन्सत्यभामा रुषान्विता ॥
तदैव कृष्णो भगवाञ्ज्ञात्वा नारदचेष्टितम् ॥३७॥
सत्यभामागृहं शीघ्रं रुपेणैकेन चागतम् ॥
गत्वा प्रत्याह वचनं सर्वज्ञाता रमेश्वरः ॥३८॥
न गतोऽहं समाजे वै रुक्मिण्या सहितः प्रिये ॥
आगतो भोजनं कर्तुं गतो रामश्च भार्यया ॥३९॥
इति तद्वाक्यमाकर्ण्य सत्यभामा मुदं गता ॥
भीतो नारद उत्थाय गेहं चान्यं जगाम ह ॥४०॥
गत्वा जांबवतीगेहं तस्याग्रे सर्वमब्रवीत् ॥
श्रुत्वा हसंती सा प्राह मृषा मा वद हे मुने ॥४१॥
करोति शयनं गेहे श्रीनाथो भोजनांतरे ॥
इति श्रुत्वा शंकितस्तु त्वरं निर्गत्य नारदः ॥४२॥
मित्रविंदागृहे गत्वा प्रत्युवाच विलोकयन् ॥
नारद उवाच -
न गतासि नृपस्थानं मातर्गेहे स्थितासि किम् ॥४३॥
आहर्तुं गोमतीतोयं प्रयाति यत्र माधवः ॥
भैष्मीं सत्यां जांबवतीं सह नेष्यति तत्र वै ॥४४॥
मित्रविंदोवाच -
केशवस्य प्रियाः सर्वा गंतासौ यां विहाय च ॥
सा न जीवति कृष्णस्तु पौत्रं लालयति गृहे ॥४५॥
ततो मुनिः समुत्थाय सर्वाणि मंदिराणि च ॥
बभ्राम कृष्णभार्याणां सकृष्णानीत्यमन्यत ॥४६॥
पुनर्विचार्य देवर्षिर्गोपीनां मंदिराणि च ॥
प्रययौ कथितुं वार्तां राधिकायै च मानद ॥४७॥
तत्र दीव्यंतमक्षैश्च राधया नंदनन्दनम् ॥
गोपीभिः सहितं वीक्ष्य ऋषिर्गंतुं मनो दधे ॥४८॥
तदैव कृष्ण उत्थाय गृहीत्वा पाणिना मुनिम् ॥
तत्रैव स्थापयामास पूजयित्वा यथाविधि ॥४९॥
श्रीकृष्ण उवाच -
किं करिष्यसि विप्रेंद्र वृथा भ्रमसि मोहितः ॥
गेहे गेहे स्वपत्नीनां मया त्वं तु विलोकितः ॥५०॥
मया धृतानि रूपाणि त्वद्भयादृषिसत्तम ॥
नाहं दास्ये दमं तुभ्यं विप्रत्वात्प्रार्थयाम्यहम् ॥५१॥
सर्वेषां चैव देवोऽहं मम देवाश्च ब्राह्मणाः ॥
ये द्रुह्यन्ति द्विजान्मूढाः संति ते मम शत्रवः ॥५२॥
ये पूजयंति विप्रांश्च मम भावेन भूजनाः ॥
ते भुञ्जंति सुखं चात्र ह्यन्ते यास्यंति तत्पदम् ॥५३॥
मायया मम पुर्यां त्वं मोहितश्चापि मा खिदः ॥
सर्वे मुह्यंति देवर्षे ब्रह्मरुद्रादयः सुराः ॥५४॥
इति तद्वाक्यमाकर्ण्य संस्तुतः स महामुनिः ॥
आययौ मण्डपे तूष्णीं भूत्वा ऋत्विग्जनैर्वृते ॥५५॥
अथ ते गोमतीतीरं जग्मुः कृष्णादयो नृपाः ॥
रुक्मिण्याद्याः स्त्रियश्चैव वादित्रैर्विविधैरपि ॥५६॥
नारीणां चैव वृन्देन गायंतीनां् हरेर्यशः ॥
वलयानां नूपुराणां शब्दोऽभून्मधुरध्वनिः ॥५७॥
पूजयित्वा जलसुरान्व्यासः सार्द्धं मया मुनिः ॥
कलशं तोयसंयुक्तमनसूयाकरे ददौ ॥५८॥
ततश्च जगृहुः कुम्भान् रेवत्याद्याश्च योषितः ॥
नोत्थिताः कलशाः सर्वे कोमलैश्च करैरपि ॥५९॥
धारयंति कथं कुम्भं पुष्पभारेण पीडिताः ॥
ततश्च जहसू राज्ञो नृपाणां च परस्परम् ॥६०॥
कथं यामो यज्ञवाटमित्यूचुः कलशैर्विना ॥
रुक्मिण्याद्याः स्त्रियः सर्वास्ता ऊचुर्मनसा हरिम् ॥६१॥
हे श्रीकृष्ण जगन्नाथ भक्तकष्टविनाशन ॥
सबलस्त्वं चक्रधारी ह्यस्मान्पालय संकटे ॥६२॥
एवं ब्रुवंत्यो जगृहुः सकलान्भारवर्जितान् ॥
स्वे स्वे शिरसि संधाय संयुक्तैर्मणिमौक्तिकैः ॥६३॥
यज्ञवाटं समाजग्मुर्नार्य्यः शीघ्रं सभर्तृकाः ॥
यत्र भेर्यश्च शंखाद्या वाद्यंते पणवादयः ॥६४॥
आनीय गोमतीतोयं प्रापितास्तत्र ते नृप ॥
श्यामकर्णेन सहिता यत्र वै यादवेश्वरः ॥६५॥
इति श्रीगर्गसंहितायां हयमेधखण्डे गोमतीजलानयनं नाम पंचपंचाशत्तमोऽध्यायः ॥५५॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|