श्रीगर्गसंहिता

अश्वमेधखण्डः - चतुष्पंचाशत्तमोऽध्यायः

द्वारकायां यज्ञाश्वस्य उपस्थितिः -


गर्ग उवाच -
अथोग्रसेनवचनाद्वसुदेवादयो नृप ॥
नेतुं विनिर्ययुः सर्वे ह्यनिरुद्धं समागतम् ॥१॥
गजै रथैस्तुरंगैश्च शिबिकाभिर्यदूत्तमाः ॥
श्रीकृष्णबलदेवाद्याः प्रद्युम्नाद्या नृपेश्वर ॥२॥
उद्धवाद्या गजस्थाश्च हयं द्रष्टुं विनिर्गताः ॥
देवकीप्रमुखा नार्यो मातरः कृष्णरामयोः ॥३॥
शिबिकाभिर्विचित्राभिर्निर्ययुर्नृपसत्तम ॥
रुक्मिणीसत्यभामाद्या नार्यः कृष्णस्य एव हि ॥४॥
शिबिकाभिर्ययुः सर्वाः सहस्राणि च षोडश ॥
लाजानां मौक्तिकानां च कुसुमानां नृपेश्वर ॥
वर्षां कर्तुं ययुः शीघ्रं गजस्थाश्च कुमारिकाः ॥५॥
कलशैर्जलहारिण्यो निर्ययुर्जलपूरितैः ॥
सौभाग्यवत्यो ब्राह्मण्यो गंधपुष्पाक्षतांकुरैः ॥६॥
वारांगनाश्च रूपिण्यो नृत्यं कर्तुं विनिर्ययुः ॥
शोभिताः सर्वशृङ्गारैर्गायंत्यश्च गुणान्हरेः ॥७॥
शंखदुंदुभिनादेन ब्रह्मघोषेण यादवाः ॥
वारणेंद्रं पुरस्कृत्य गर्गाद्यैर्मुनिभिर्युताः ॥८॥
विलोकयंतः स्वपुरीं पताकाभिश्च मंडिताम् ॥
सिक्तमार्गां गंधजलै रंभातोरणशोभिताम् ॥९॥
प्रदीप्तां मणिदीपैश्च वितानैर्विविधैरपि ॥
दिव्यनारीनरैर्युक्तां सुवर्णसवनैर्वृताम् ॥१०॥
पक्षिणां कलशब्देन धूम्रेणागुरुगंधिना ॥
शोभितां कृष्णनगरीं शक्रस्येवामरावतीम् ॥११॥
इत्थं विलोकयंतस्ते प्राप्ताः शीघ्रं च यादवाः ॥
यत्रानिरुद्धः सहयो वर्त्तते सेनयाऽऽवृतः ॥१२॥
तान्दृष्ट्वा चानिरुद्धस्तु स्वरथादवतीर्य च ॥
पुरस्कृत्य हयं चाग्रे नृपैः सार्द्धं समाययौ ॥१३॥
पूर्वं नत्वा कुलाचार्यं वसुदेवं बलं तथा ॥
श्रीकृष्णं पितरं चैव तेभ्यश्चाश्वं ददौ पुनः ॥१४॥
शुभाशिषो ददुस्ते तु प्रीताः प्रेमपरिप्लुताः ॥
त्वया साधु कृतं वत्स सर्वाञ्जित्वा रिपून्नृपान् ॥१५॥
आनयामास तुरगं मध्ये संवत्सरस्य च ॥
इति तद्वचनं श्रुत्वानिरुद्धः प्राह मां पुनः ॥१६॥
कृपया तव विप्रेंद्र मार्गे मार्गे मृधे मृधे ॥
बहुभिः शत्रुभिश्चाश्वो गृहीतोऽपि विमोचितः ॥१७॥
गुरोरनुग्रहेणैव सुखी भवति मानवः ॥
तस्माद्‌गुरुं च विधिना यथाशक्त्या प्रपूजयेत् ॥१८॥
भूपास्ततः समागत्य समीपे रामकृष्णयोः ॥
नेमुः पृथक्पृथक्सर्वे प्रीताः प्रेमपरिप्लुताः ॥१९॥
सर्वान्दृष्ट्वा नतान्भूपाञ्छ्रीकृष्णो बलसंयुतः ॥
चंद्रहासं च गांगेयं बिन्दुं चैवानुशाल्वकम् ॥२०॥
हेमांगदं चेद्रनीलं परिरेभे हरिर्मुदा ॥
कृष्णभक्तात्परः कोऽपि तस्माद्‌भूमौ न विद्यते ॥२१॥
ततोऽनिरुद्धं जयिनं समागतं
     गजे समारोप्य कुशस्थलीं ययौ ॥
शौरिः प्रसन्नः किल सर्वयादवैः
     पुत्रैश्च पौत्रैर्मुदितैर्नृपेश्वर ॥२२॥
पुष्पाणां मकरंदानां वर्षां चक्रुः सुरस्त्रियः ॥
लाजानां मौक्तिकानां च कुञ्जरस्थाः कुमारिकाः ॥२३॥
नृत्यवादित्रगीतेन ब्रह्मघोषेण शोभिताः ॥
पश्यंतः सिक्तमार्गां तां पुरीम्पिण्डारकं ययुः ॥२४॥
नृपाः सर्वे यदूनां च वैभवं देवदुर्लभम् ॥
विलोक्य वैभवं स्वं स्वं गर्हयंति च विस्मिताः ॥२५॥
यज्ञस्थलं ते ददृशुर्धूम्रेण धृतगंधिना ॥
व्याप्तं ब्राह्मणघोषेण ह्यसिपत्रव्रतेन च ॥२६॥
निरिक्ष्य तत्र भूपालमुग्रसेनं यदूत्तमम् ॥
पुरंदरसमं दांतं पुष्टं गौरं स्फुरत्प्रभम् ॥२७॥
कुशासनस्थं सुभगं नियमे न्यस्तभूषणम् ॥
संयुक्तं मृगशृङ्गेण मृगचर्मणि भार्यया ॥२८॥
कुर्वन्तं पूजनं चाग्नेर्घृतगंधाक्षतादिभिः ॥
मण्डपे मुनिभिर्युक्तं धूम्रेणारुणलोचनम् ॥२९॥
तं सर्वे चानिरुद्धाद्याः कृत्वाग्रे यज्ञघोटकम् ॥
वाहनेभ्यः समुत्तीर्य नेमुः प्रीताः पृथक्पृथक् ॥३०॥
ततः श्रीयदुराजस्तु सर्वान्दृष्ट्वा नृपान्यदून् ॥
सर्वेषामादधे मानं यथायोग्यं यथाबलम् ॥३१॥
अनिरुद्धस्ततो नत्वा शीघ्रं भूत्वा कृतांजलिः ॥
सर्वेषां शृण्वतां प्राह जंबूद्वीपपतिं नृपम् ॥३२॥
अनिरुद्ध उवाच -
एनं पश्य महाराज इन्द्रनीलं नृपोत्तमम् ॥
पादयोः पतितं प्रेम्णा समुत्थापय देववत् ॥३३॥
हेमांगदं चानुशाल्वं बिन्दुं श्रीचन्द्रहासकम् ॥
एनं देवव्रतं पश्य चागतं तव सन्निधौ ॥३४॥
मम रक्षाकरं पश्य सांबं जांबवतीसुतम् ॥
रुद्रेण निहतं मां च पश्य कृष्णेन जीवितम् ॥३५॥
तथा रुद्रहतं पश्य जीवितं च सुनन्दनम् ॥
अन्यान्पश्य यदून्सर्वान्कृष्णस्य कृपयाऽऽगतान् ॥३६॥
गृहाण यज्ञतुरगं निर्विघ्नेन समागतम् ॥
दत्तं युद्धाय निस्त्रिंशं तं गृहाण नमोऽस्तु ते ॥३७॥
इति तद्वाक्यमाकर्ण्य यदुराजः प्रहर्षितः ॥
संश्लाघ्य तं नृपांश्चैव यथायोग्याशिषं ददौ ॥३८॥
पूजयित्वा नृपान्सर्वांस्ततो भीष्ममुवाच ह ॥
एहि भीष्म मया सार्द्धं कुरु त्वं परिरंभणम् ॥३९॥
इत्युक्त्वा तं समुत्थाय परिरेभे यदूत्तमः ॥
ततस्ते दानमानाभ्यां पूजिता यदवो नृपाः ॥४०॥
निवासं चक्रिरे प्रीता द्वारकायां गृहे गृहे ॥
ततो दृष्ट्वानिरुद्धं वै प्राप्तं सांबादिभिर्नृप ॥४१॥
देवकी रोहणी चैव रुक्मिण्याद्याः स्त्रियो वराः ॥
अन्याश्च रुक्मवत्याद्याः परिष्वज्य मुदं ययुः ॥४२॥
सुरूपा रोचना ह्यूषा राजन्नेता मुदं गताः ॥
सांबश्लाघां ततः श्रुत्वा सुयोधनसुता भृशम् ॥४३॥
मुदं ययौ स्वनेत्राभ्यां मुंचंती हर्षजं जलम् ॥
बभूव मंगलं राजन्द्वारकायां गृहे गृहे ॥
ससैन्ये नृपशार्दूल ह्यनिरुद्धे समागते ॥४४॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
तुरगागमनं नाम चतुष्पंचाशत्तमोऽध्यायः ॥५४॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP