श्रीगर्गसंहिता

अश्वमेधखण्डः - त्रिपंचाशत्तमोऽध्यायः

यादवगणानां द्वारकाप्रत्यागमनं तथा उग्रसेनसभायां उद्धवप्रेरणा -


गर्ग उवाच -
पश्यन्नृपान्महावीरानुग्रसेनतुरंगमः ॥
विचरन्भारते वर्षे देशानन्याञ्जगाम ह ॥१॥
एवं विचरतस्तस्य हयस्य च विशां पते ॥
आगतः फाल्गुनो मासः सर्वेषां गृहदर्शिकः ॥२॥
आगतं फाल्गुनं दृष्ट्वा चानिरुद्धस्तु शंकितः ॥
उवाच मंत्रिप्रवरमुद्धवं बुद्धिसत्तमम् ॥३॥
अनिरुद्ध उवाच -
चैत्रे श्रीयादवेंद्रस्तु मंत्रिन् यज्ञं करिष्यति ॥
वयं तु किं करिष्यामो दिवसा बहवो न हि ॥४॥
भूमौ तुरंगहर्त्तारो नृपाः के केऽवशेषिताः ॥
तेषां च वद नामानि मह्यं शुश्रूषवे त्वरम् ॥५॥
उद्धव उवाच -
न संति भूतले शूरा गगने संति वा हरे ॥
तस्माद्यदुपुरीं गच्छ स्वर्णद्वारां च द्वारकाम् ॥६॥
इति तस्य वचः श्रुत्वा ह्यनिरुद्धः प्रहर्षितः ॥
तस्यापि वचनं राजन्नश्वाग्रे पुनरब्रवीत् ॥७॥
एवं तद्वाक्यमाकर्ण्य सर्वज्ञाता तुरंगमः ॥
प्रययौ द्वारकां शीघ्रं किष्किंधां हनुमानिव ॥८॥
तस्यापि पृष्ठतः शूरा दुद्रुवुस्ते तुरंगमैः ॥
वायुवेगैर्मनोवेगैर्भानुसांबादयो नृप ॥९॥
गृहीत्वा तुरगं सर्वे बद्ध्वा तं स्वर्णदामभिः ॥
सेनायामन्तरे कृत्वा शंकिताः स्वपुरीं ययुः ॥१०॥
गीतवादित्रघोषैश्च नादयंतश्च दुंदुभीन् ॥
चालयंतश्च पृथिवीं त्रासयन्तः खलान् रिपून् ॥११॥
व्रजंतं यादवैः सार्द्धं तुरगं वीक्ष्य नारदः ॥
दूतवत्कलहार्थाय प्रययौ शक्रसन्निधिम् ॥१२॥
तस्याग्रे कथयामास वाजिवार्तां स विस्तरात् ॥
श्रुत्वा शक्रस्तु राजेंद्र हयं हर्तुं मनो दधे ॥१३॥
आययौ भूतले शीघ्रं द्र्ष्टुं भूत्वा तिरोहितः ॥
अहो विष्णोर्मायया च सर्वे मुह्यंति देवताः ॥१४॥
कुबेरब्रह्मशक्राद्या भूजनानां तु का कथा ॥
स गत्वा तत्र वृष्णीनां सेनां सर्वां ददर्श ह ॥१५॥
प्रलयाब्धिसमां रौद्रां वृतां शूरैश्च कोटिभिः ॥
यादवानां महासेनामुद्‌भटां वीक्ष्य शंकितः ॥१६॥
ययौ कृष्णभयाद्‌राजञ्छीघ्रं शक्रोऽमरावतीम् ॥
कृष्णदेवस्य कृपया युद्धस्याशां विसृज्य च ॥१७॥
अथ व्रजंती चतुरंगिणीभिः
     सेनानिरुद्धस्य महात्मनश्च ॥
गजै रथैर्वै तुरगैर्नरैश्च
     रेजे मघोनः पृतनेव स्वर्गे ॥१८॥
गजाः सर्वे पृथग्भूताः पृथग्भूता रथास्तथा ॥
पृथग्भूतास्तुरंगाश्च पृथग्भूता पदातयः ॥१९॥
अनुजग्मुर्द्वारकां ते हर्षिताः कृष्णपोतकाः ॥
जंबूद्वीपस्य जेतारो लोकद्वयजिगिषवः ॥२०॥
अग्ने वाहं पुरस्कृत्य वादित्रैर्विविधैरपि ॥
गीतनृत्यादिभी राजन्संयुक्तास्ते यदूत्तमाः ॥२१॥
अनिरुद्धस्तु सांबाद्यैरिंद्रनीलादिभिर्नृप ॥
चन्द्रहासादिभिर्भूपैः सहस्रैरभिभूषितः ॥२२॥
सांबस्यानुमतेनापि चानर्ते संप्रविश्य च ॥
उद्धवं प्रेषयामास द्वारकां योजनद्वयात् ॥२३॥
एवं प्रणोदितः सोऽपि नत्वा रुक्मवतीसुतम् ॥
शिबिकां शीघ्रमारुह्य हर्षितः प्रययौ पुरीम् ॥२४॥
यत्रास्ते ह्युग्रसेनस्तु मुनिभिः परिवारितः ॥
श्रेष्ठे पिंडारकक्षेत्रे सभामंडपभूषिते ॥२५॥
वसुदेवादयो यत्र रामकृष्णादयो नृप ॥
प्रद्युम्नाद्याश्च बलिनो यज्ञं रक्षन्ति नित्यशः ॥२६॥
गत्वा नृपसभां तत्र यादवेंद्रं प्रणम्य च ॥
वसुदेवं बलं कृष्णं प्रद्युम्नादीन् यदूत्तमान् ॥२७॥
सर्वान्नत्वा यथायोग्यं तेषामग्रे स संस्थितः ॥
कथयामास वृत्तांतं पृष्टस्तैर्हृष्टमानसैः ॥२८॥
उद्धव उवाच -
आगतस्तव राजेंद्र निर्विघ्नेन तुरंगमः ॥
आगताश्चानिरुद्धाद्याः कुशलेन यदूत्तमाः ॥२९॥
गोविंदस्यापि कृपया चेद्रनीलः समागतः ॥
हेमांगदः सुरूपा च ह्यागता मण्डलेश्वरी ॥३०॥
निर्जितस्तु बको युद्धे भीषणेन समन्वितः ॥
बिन्दुश्चैवानुशाल्वश्च स्वपुराद्‌द्वौ समागतौ ॥३१॥
उपद्वीपे पांचजन्ये बल्वलो निर्जितोऽसुरैः ॥
तस्मिन्युद्धे महेशेन ह्यनिरुद्धसुनन्दनौ ॥३२॥
निहतौ च रुषाढ्येन यादवाश्चैव मारिताः ॥
तत्र गत्वा त्वसौ कृष्णो जीवयामास यादवान् ॥३३॥
तस्मात्कृष्णस्य कृपया वयं सर्वे समागताः ॥
निर्जिताः कौरवाः सर्वे भीष्मो ह्यत्र समागतः ॥३४॥
दृष्ट्वा द्वैतवनेऽस्माभिः पांडवा दुःखकर्शिताः ॥
व्रजे गोपगणाश्चैव कृष्णविक्षेपविह्वलाः ॥३५॥
आबाल्यात्कृष्णभक्तस्तु चंद्रहासः समागतः ॥
भीताश्च बहवो भूपा आगतास्ते भयात्तव ॥३६॥
गर्ग उवाच -
इति कृष्णगुणाञ्छ्रुत्वा ह्युद्धवाद्यादवेश्वरः ॥
न किंचिदूचे प्रेम्णा तु मग्नश्चानन्दसागरे ॥३७॥
मणिहारं ददौ तस्मै रत्‍नानि चांबराणी च ॥
शिबिकावारणरथहयादीनुद्धवाय सः ॥ ३८॥
ततः कृष्णस्तु भगवाञ्छीघ्रमुत्थाय हर्षितः ॥
सख्या सार्द्धं सभायां च चकार परिरंभणम् ॥३९॥
उग्रसेन उवाचाथ गोविन्दं हर्षपूरितः ॥
आनेतं चानिरुद्धं वै गच्छ श्रीकृष्ण यादवैः ॥४०॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
उद्धवागमनं नाम त्रिपंचाशत्तमोऽध्यायः ॥५३॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP