श्रीगर्गसंहिता
अश्वमेधखण्डः - द्विपंचाशत्तमोऽध्यायः
चन्द्रहास-अनिरुद्ध मिलनम् -
गर्ग उवाच -
समागतं यज्ञहयं विलोक्य
श्रीचन्द्रहासो व्रजचन्द्रदासः ॥
सद्यो गृहीत्वा किल तस्य पत्रं
स वाचयामास तदैव हृष्टः ॥१॥
तत्पत्रं वाचयित्वाऽऽह महाभागवतो नृप ॥
अहो पश्यामि नेत्राभ्यां पौत्रं श्रीपरमात्मनः ॥२॥
केन पुण्येन पूर्वेण कृष्णतुल्यं यदूत्तमम् ॥
मया न दृष्टः श्रीकृष्णो मायामानुषविग्रहः ॥३॥
सहितः कार्ष्णिजेनाहं तस्माद्गच्छामि द्वारकाम् ॥
तत्र पश्यामि श्रीकृष्णं बलं प्रद्युम्नमेव च ॥४॥
उग्रसेनं महाराजं श्रीकृष्णेनापि पूजितम् ॥
इत्युक्त्वा निर्ययौ राजा ह्यनिरुद्धं विलोकितुम् ॥५॥
गृहीत्वा चोपचाराँश्च गंधपुष्पाक्षतादिकान् ॥
दिव्यवस्त्राणि रत्नानि गृहीत्वा तुरगं च सः ॥६॥
सवः पुरजनैः सार्द्धं मालातिलकशोभितैः ॥
गीतवादित्रघोषैश्च पद्भ्यां राजा जगाम ह ॥७॥
आगतं तं नृपं दृष्ट्वा नागरैः सहितं नृप ॥
अनिरुद्धो मुदायुक्तो मंत्रिणं चेदमब्रवीत् ॥८॥
अनिरुद्ध उवाच -
कोऽयं राजा महामंत्रिन्सर्वैः पुरजनैः सह ॥
आगतो मिलनार्थं वा तस्य वार्तां वदस्व नः ॥९॥
उद्धव उवाच -
नृपोऽयं चंद्रहासाख्यो केरलाधिपतेः सुतः ॥
मृतयोर्मातृपित्रोश्च कुलिंदेनानुपालितः ॥१०॥
आबाल्यात्कृष्णचन्द्रस्य भक्तस्तेनापि रक्षितः ॥
दुष्टबुद्धेः प्रधानस्य सुतां यः परिणीतवान् ॥११॥
यस्मै कुन्तलको राजा राज्यं दत्वा वनं ययौ ॥
तस्याख्यानं द्वारकायां मया कृष्णमुखाच्छ्रुतम् ॥१२॥
यस्मै स्वदर्शनं दातुं श्रीकृष्णोऽत्रागमिष्यति ॥
उद्धवस्य वचः श्रुत्वा विस्मितोऽभूद्यदूत्तमः ॥१३॥
गत्वानिरुद्धनिकटे चन्द्रहासो जनैर्वृतः ॥
श्यामकर्णं ददौ प्रीतो धनानि बहुशस्तथा ॥१४॥
गजानामर्द्धलक्षं च रथानां लक्षमेव च ॥
तुरगाणामेककोटिं मुद्राणां हि सहस्रकम् ॥१५॥
गवयानां सहस्रं च शिबिकानां सहस्रकम् ॥
धेनूनां दशलक्षं च शिञ्जानामयुतं तथा ॥१६॥
एककोटिं सुवर्णानां रौप्याणां च चतुर्गुणम् ॥
लक्षमाभरणानां च माधवाय ददौ नृपः ॥१७॥
चन्द्रहास उवाच -
नमोऽनिरुद्धाय सुरोत्तमाय श्रीकृष्णपौत्राय जनेश्वराय ॥
प्रद्युम्नपुत्राय यदूत्तमाय देवाय पूर्णाय नमः पराय ॥१८॥
इति भक्तवचः श्रुत्वा प्रसन्नो मदनात्मजः ॥
संश्लाघ्य प्रददौ तस्मै प्रदीप्तां रत्नमालिकाम् ॥ १९॥
चन्द्रहासस्तु राजेन्द्र राज्ये कृत्वा तु मंत्रिणम् ॥
स्वपुराद्यादवैः सार्द्धं गंतुं चालं मनोऽकरोत् ॥२०॥
उषित्वा तत्पुरे सर्वे ह्येकरात्रं यदूत्तमाः ॥
प्रातःकाले ययू राजंश्चन्द्रहासेन संयुताः ॥२१॥
जगाम ह्यग्रतस्तेभ्यो तुरगः पत्रशोभितः ॥
ततः सप्तवतीं दृष्ट्वा ह्यावर्त्तशतसंकुलाम् ॥२२॥
तटं तरंगैर्निघ्नंतीं दीर्घवेगां दुरत्ययाम् ॥
नौकाभिः संयुतां दृष्ट्वा वीरः प्रद्युम्ननन्दनः ॥२३॥
अक्षौहिणीशतयुतः पारं गंतुं मनो दधे ॥
स पूर्वं गजमारुह्य सांबाद्यैः परिवेष्टितः ॥२४॥
नावं त्यक्त्वा नृपश्रेष्ठ प्रविवेश नदीजले ॥
प्रथमं सलिलं तस्यां समलं च बभूव ह ॥२५॥
ततः पंकद्रवा भूमिश्चित्रमेतद्बभूव ह ॥
हसंतो यादवाः सर्वे विस्मयं परमं ययुः ॥२६॥
अथ व्रजंस्तुरंगस्तु स जगाम शनैः शनैः ॥
नारायणसरो यत्र मध्ये सिंधुसमुद्रयोः ॥२७॥
पपौ तिर्थजलं तत्र तुरगश्च तृषातुरः ॥
ततस्तत्राययुः सर्वेऽनिरुद्धाद्या यदूत्तमाः ॥२८॥
धर्मद्वेषकरान्नीचान्म्लेच्छाञ्जित्वा मृधांगणे ॥
दृष्ट्वा तुरंगमं तत्र स्नानं चक्रुः सरोवरे ॥२९॥
इति श्रीगर्गसंहितायां हयमेधखण्डे नारायणसरोगमनं नाम द्विपंचाशत्तमोऽध्यायः ॥५२॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|