श्रीगर्गसंहिता
अश्वमेधखण्डः - एकपंचाशत्तमोऽध्यायः
यादवगणानां कौन्तलपुरगमनम् -
गर्ग उवाच -
अथ कृष्णस्तु भगवान्यादवानां च पालनम् ॥
कृत्वा मिलित्वा प्रययौ रथेनापि कुशस्थलीम् ॥१॥
कृष्णे गतेऽनिरुद्धस्तु हयं संपूज्य यत्नतः ॥
बंधनान्मोचयामास विजयार्थे नृपेश्वर ॥२॥
मुक्तस्तुरंगः प्रययौ देशान्देशान्विलोकयन् ॥
पृष्ठतस्तस्य राजेंद्र त्वरं जग्मुश्च वृष्णयः ॥३॥
दुर्योधनं जितं श्रुत्वा भूपास्तु तं तुरंगमम् ॥
प्राप्तं न जगृहू राष्ट्रे कृष्णस्य बलिनो भयात् ॥४॥
अथाव्रजत्तुरंगोऽयं शृण्वन्पश्यन्नितस्ततः ॥
संप्राप्तोऽभूद्द्वैतवने यत्र राजा युधिष्ठिरः ॥५॥
भ्रातृभिर्भार्यया सार्द्धं वनवासं करोति हि ॥
तस्मिन्वने भीमसेनो वनद्वीपगणैः सह ॥६॥
नित्यं करोति क्रीडां वै बालः क्रीडनकैरिव ॥
ददर्श तुरगं तत्र तं वनं गह्वरं महत् ॥७॥
न्यग्रोधाश्वत्थबिल्वैश्च खर्जूरपनसैस्तथा ॥
बकुलैः सप्तपर्णैश्च तिंदुकैस्तिलकैरपि ॥८॥
शालैस्तालैस्तमालैश्च बदरीलोध्रपाटलैः ॥
बब्बूरशाल्मलीवेणूपलाशादिभीरन्वितम् ॥९॥
आगतं घोटकं दृष्ट्वा दुर्जरे निर्जने वने ॥
वराहमृगशार्दूलवृकसर्पगणैर्युते ॥१०॥
झिल्लीझंकारसंयुक्ते गृध्रचिल्लादिभिर्युते ॥
वृते तथा भुजंगैश्च वल्मीकादर्द्धनिःसृतैः ॥११॥
शृगालमर्कमहिषगवयादिभिरन्विते ॥
नीलगोगजभल्लूकमार्जारैर्वनमानुषैः ॥ १२॥
युक्ते भयंकरे राजन्भीमो भीमपराक्रमः ॥
अश्वं जग्राह केशेषु सपत्रं नृप लीलया ॥१३॥
केनोत्सृष्टं वदन्वाक्यं स्वाश्रमं प्रययौ शनैः ॥
तदैव चानिरुद्धाद्या आजग्मुः सर्वयादवाः ॥१४॥
पश्यंतो यज्ञगन्धर्वमरण्ये नृप कृच्छ्रतः ॥
दृष्ट्वा गृहीतं तुरगमूचुस्ते तु परस्परम् ॥१५॥
अहो वनचरो ह्येष दृश्यते भीमसेनवत् ॥
बृहद्बाहुर्महापुष्टो महोच्चो रक्तलोचनः ॥१६॥
महागौरः कृच्छ्रधरो धूलिलिप्तो गदाधरः ॥
इत्थं ब्रुवंतस्ते सर्वे पुनरूचुश्च तं जनम् ॥१७॥
कस्त्वं श्रीराजराजन्यहयं नीत्वा क्व यास्यसि ॥
तस्मान्मोचय शीघ्रं त्वां न चेद्धन्मो शिलीमुखैः ॥१८॥
इति तद्वाक्यमाकर्ण्य हयं बद्ध्वा च गह्वरे ॥
जगाम स्वगदां गुर्वीं भारायुतसमन्विताम् ॥१९॥
तया जघान संग्रामे यादवान्भीमविक्रमः ॥
निपेतुर्वृष्णयस्तत्र भीमेन निहताश्च ये ॥२०॥
अनिरुद्धस्ततः क्रुद्धो दृष्ट्वा तस्य पराक्रमम् ॥
सहस्रवारणान्मत्तान्नोदयामास शत्रवे ॥२१॥
ततः सदिग्गजैः सोऽपि भूभृच्छिखरसन्निभैः ॥
पातितो धरणीपृष्ठे विषाणैरवपीड्यते ॥२२॥
ततो भीमः समुत्थाय क्रोधत्प्रस्फुरिताधरः ॥
मत्तान्गजाञ्जघानाथ गदया वज्रकल्पया ॥२३॥
कांश्चिच्चिक्षेप गगने काँश्चिद्भूमौ व्यपोथयत् ॥
काँश्चिन्ममर्द पादाभ्यां गजान्काँश्चिद्गजेषु च ॥२४॥
ततश्च दुद्रुवुः सर्वे वारणा भयविह्वला: ॥
तदाऽऽजगाम संक्रुद्धो गदस्तत्र गदाधरः ॥२५॥
गत्वा तत्सन्निधौ सोऽपि ज्ञात्वा भीमं तु शंकितः ॥
उवाच नत्वा हे वीर कस्त्वं वद ममाग्रतः ॥२६॥
सोऽब्रवीद्भीमसेनोऽहं जित्वा द्यूतेन हे गद ॥
दुर्योधनेन रिपुणा पुरान्निष्कासिता वयम् ॥२७॥
अत्रस्थानाद्योजने तु भ्रातृभिश्च युधिष्ठिरः ॥
करोति वनवासं वै ह्यहो दैवस्य मायया ॥२८॥
वने वर्षा गताश्चाष्टौ चत्वारस्त्ववशेषिताः ॥
वर्षमात्रं करिष्यामोऽज्ञातवासं वयं पुनः ॥२९॥
अर्जुनस्तु गतः स्वर्गमाहूतो वासवेन च ॥
अहं न जाने तु कदाऽऽगमिष्यति महीतले ॥३०॥
गद त्वं तु यदूनां च कुशलं कथयस्व नः ॥
तुरगः कस्य भूपस्य किमर्थं यूयमागताः ॥३१॥
इत्युक्त्वा मीमसेनस्तु रुरोदाश्रुपरिप्लुतः ॥
दुर्योधनकृतान्क्लेशान्संस्मरन्दुःखपूरितः ॥३२॥
इति श्रुत्वा स तद्वाक्यं तं समाश्वास्य दुःखितः ॥
भीमाय कथयामास वार्तां सर्वां च विस्तरात् ॥३३॥
श्रुत्वा भीमस्तु मुदितोऽनिरुद्धाद्यैर्यदूत्तमैः ॥
समन्वितस्तु प्रययौ धर्मपुत्रस्य सन्निधौ ॥३४॥
आगतान्यादवाञ्छ्रुत्वाजातशत्रुः प्रहर्षितः ॥
आनेतुं निर्ययौ राजन्नकुलाद्यैः समन्वितः ॥३५॥
नेमुस्तं यादवाः सर्वे सोऽपि दत्वा वराशिषम् ॥
निवासयामास मुदा सर्वान्द्वैतवने नृप ॥३६॥
आगतेभ्यश्च सर्वेभ्यो यथायोग्यं यथारुचि ॥
प्रददौ भोजनं राजा स्थाल्या भास्करदत्तया ॥३७॥
उषित्वा रजनीमेकां प्रभाते कार्ष्णिनंदनः ॥
क्रतोर्निमंत्रणं दत्त्वा पाडवेभ्यः परंतप ॥३८॥
यादवैः सहितः शीघ्रं मोचयित्वा तुरंगमम् ॥
ययौ सारस्वतान्देशान् तुरगस्य च पृष्ठतः ॥३९॥
अशूराँश्च बहून्देशांस्त्यक्त्वा तुरगराट् ततः ॥
स्वेच्छया विचरन् राजन् ययौ कौंतलकं पुरम् ॥४०॥
तस्मिन्पुरे महाराज चन्द्रहासश्च वैष्णवः ॥
पालितो यः कुलिन्देन केरलाधिपतेः सुतः ॥४१॥
कृष्णदेवप्रसादेन राज्यं तत्र करोति हि ॥
कथास्तस्यापि भक्तस्य राजञ्जैमिनिभारते ॥४२॥
अर्जुनाग्रे विस्तराद्वै नारदेन तु वर्णिताः ॥
तस्मिन्पुरे नराः सर्वे कृष्णभक्ता वसंति हि ॥४३॥
ब्रह्मण्याः पुण्यकर्त्तारः परदारपराङ्मुखाः ॥
स्वदारनिरताः सर्वे कृष्णपूजनतत्पराः ॥४४॥
गोविंदगाथां शृण्वंति पुराणानि तथैव च ॥
जपंति तत्र नामानि राधामाधवयोर्मुदा ॥४५॥
तुलसीमालिकाभिश्च ह्यूर्ध्वपुंड्रधरा द्विजाः ॥
गोपीचन्दनकाश्मीरैर्हरिमंदिरचर्चिताः ॥ ४६॥
श्यामबिंदुधराः सर्वे श्रीधराः केचिदेव हि ॥
तिलकैर्द्वादशैर्युक्ताश्चाष्टमुद्राधराः पराः ॥४७॥
गृहस्थाः शीतलां मुद्रां गोपीचन्दसंयुताम् ॥
नित्यं विप्रादयो वर्णाः प्रभाते धारयन्ति हि ॥४८॥
अग्निसंस्कारणार्थं तु विरक्ताः केचिदेव हि ॥
तप्तमुद्रां धारयंति केचित्संन्यासिनस्तथा ॥४९॥
तस्मिन्पुरे हयः पश्यन्प्राप्तोऽभूद्राजमंदिरे ॥
यत्र राजति राजा तु चन्द्रहासश्च चन्द्रवत् ॥५०॥
इति श्रीगर्गसंहितायां हयमेधखण्डे कौंतलपुरगमनं नामैकपंचाशत्तमोऽध्यायः ॥५१॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|