श्रीगर्गसंहिता

अश्वमेधखण्डः - षट्चत्वारिशोऽध्यायः

रासक्रीडा समाप्तिः -


गर्ग उवाच -
कृष्णं समागतं दृष्ट्वा ताः समुत्थाय हर्षिताः ॥
चक्रुर्जयजयारावं गोप्यो दुःखं विसृज्य च ॥१॥
दृष्ट्वा संमूर्च्छितां राधां गोपिभिः प्रार्थितो हरिः ॥
चैतन्यार्थे व्रजे तत्र चकार मुरलीरवम् ॥२॥
नोत्थितां राधिकां दृष्ट्वा श्रीराधावल्लभो हरिः ॥
तस्यै संश्रावयामास वेणुगीतं पुनः पुनः ॥३॥
ततः समुत्थिता राधा स्मृत्वा दुःखं वियोगजम् ॥
बभूव मूर्च्छिता राजन्माधवस्य प्रपश्यतः ॥४॥
ततः कृष्णस्य वचनात्सद्यश्चन्द्रानना सखी ॥
चन्द्रावलीं प्रत्युवाच प्रसन्ना कृष्णवेणुना ॥५॥
चन्द्राननोवाच -
कृष्णचन्द्रः पुरा निर्गतो मानतो ह्यागतः सोऽपि राधे युगांते पुनः ॥
नाशयन्सर्वदुःखानि ते सन्निधौ संजगौ वेणुना देवकीनंदनः ॥६॥
छुंगछुंगे निनादं मृदंगे कलं वाद्यमाने सुरस्त्रीजनैः सेवितः ॥
रासरम्याङ्गणे नृत्यकृन्माधवः संजगौ वेणुना देवकीनंदनः ॥७॥
चारुचामीकराभासिवासा विभुर्वैजयंतीभराभासितोरस्थलः ॥
नंदवृन्दावने गोपिकामध्यगः संजगौ वेणुना देवकीनंदनः ॥८॥
चारुचंद्रावलीलोचनाचुंबितो गोपगोवृन्दगोपिकावल्लभः ॥
कंसवंशाटवीदाहदावानलः संजगौ वेणुना देवकीनंदनः ॥९॥
बालिकातालिकाताललीलालयासङ्गसंदर्शितभ्रूलताविभ्रमः ॥
गोपिकागीतदत्तावधानः स्वयं संजगौ वेणुना देवकीनंदनः ॥१०॥
मौलिमालांगदैः किंकिणीकुण्डलैर्भूषितो नंदनो नंदराजस्य च ॥
प्रीतिकृत्सुन्दरो देवि प्रीत्या तव संजगौ वेणुना देवकीनंदनः ॥११॥
पारिजातं समुद्‌धृत्य राधावरो रोपयामास भामाभयादंगणे ॥
वल्लवीवृन्दवृन्दारिकाकामुकः संजगौ वेणुना देवकीनंदनः ॥१२॥
ऋक्षराजं विनिर्जित्य नीत्वा मणिं संददौ भीतवद्‌भूमिनाथाय च ॥
सोऽपि रासे समागत्य रासेश्वरो संजगौ वेणुना देवकीनंदनः ॥१३॥
गर्ग उवाच -
इति श्रुत्वा राधिका तु महिमां वेणूवादिनः ॥
प्रसन्ना हि समुत्थाय परिरेभे प्रियं प्रिया ॥१४॥
वृन्दावनेशो गोविंदो रेमे वृन्दावने वने ॥
वृन्दावननिवासिन्या पश्यन्वृन्दावनद्रुमान् ॥१५॥
ततः कृष्णं च जगृहुः सर्वतो व्रजयोषितः ॥
वर्षाकाले नृपश्रेष्ठ सौदामिन्यो यथा घनम् ॥१६॥
यावतीस्तत्र गोप्यश्च तावद्‌रूपधरो हरिः ॥
यमुनापुलिनं राजँस्ताभिः साकं समाययौ ॥१७॥
बभूवुर्मुदिता नार्यो यथा च श्रुतयः पुरा ॥
स्ववस्त्रैः कृष्णचन्द्राय ह्यासनं ता अचीक्लृपन् ॥१८॥
श्रीराधारमणस्तस्मिन्नासने सह राधया ॥
निषसाद ह्यहो राजंस्ताभिर्भक्त्या वशीकृतः ॥ १९॥
गोलोके यादृशं रूपं दर्शयामास तादृशम् ॥
गोपीनां राधया सार्द्धं कृष्णं त्रैलोक्यमोहनम् ॥२०॥
दृष्ट्वा गोकुलचन्द्रस्य सुरूपं परमाद्‌भुतम् ॥
स्वात्मानं नाविदन्गोप्यो ब्रह्मानन्देन निर्वृताः ॥२१॥
स्थले कृत्वा विहारं तु विवेश यमुनाजलम् ॥
ताभीर्भक्त्या वशीभूतो गोपीभिः सह राधया ॥२२॥
वारां विहारं भगवान्स्त्रीभिः सार्द्धं चकार ह ॥
मन्दाकिन्यां यथा शक्रो ह्यप्सरोभिर्वृतो दिवि ॥२३॥
माधवो माधवीं राजन् माधवी माधवं जले ॥
अन्योन्यं तौ सिषिचतुः सलिले सलिलैस्त्वरम् ॥२४॥
कबरीकेशपाशाभ्यां प्रच्युतैः कुसुमैर्बभौ ॥
यमुनाचित्रवर्णैश्च यथोष्णिङ्‌मुद्रिता नृप ॥२५॥ ‌रा
विद्याधर्यो देवपत्‍न्यः पुष्पवर्षं प्रचक्रिरे ॥
प्रश्लथद्वस्त्रनीव्यस्ता मोहं प्राप्ताः स्मरातुराः ॥२६॥
अथ कृष्णो वारिलीलां कृत्वा वै लीलया युतः ॥
जलान्निष्क्रम्य राजेंद्र गिरिं गोवर्धनं ययौ ॥२७॥
अनुजग्मुर्गोपिकास्तं सहचर्यो नृपेश्वर ॥
काश्चिद्व्यजनहस्ताश्च काश्चिच्चामरवाहकाः ॥२८॥
काश्चित्तांबूलहस्ताश्च काश्चिद्दर्पणवाहकाः ॥
काश्चिद्‌भूषणहस्ताश्च काश्चित्कुसुमवाहकाः ॥२९॥
काश्चिच्चंदनहस्ताश्च काश्चिद्‌भाजनवाहकाः ॥
काश्चिद्यावकहस्ताश्च काश्चिदंबरवाहकाः ॥३०॥
काश्चिन्मृदंगहस्ताश्च काश्चित्कांस्यधराश्च वै ॥
मुरयष्टिधराः काश्चित्काश्चिद्वीणाधराः पराः ॥३१॥
करतालकराः काश्चित्काश्चिद्‌गानपरायणाः ॥
षट्‌त्रिंशद्‌रागरागिण्यो व्रजस्त्रीरूपधारकाः ॥३२॥
गोलोकाद्‌भारते पूर्वमागता राधया सह ॥
जगुस्ता ननृतुस्तत्र श्रीराधेश्वरसन्निधौ ॥३३॥
ननर्त मध्ये तासां च कृष्णो मदनमोहनः ॥
प्रगायन्वेणुना गीतं त्रिलोकीं मोहयन्हरिः ॥३४॥
वादित्रैः किंकिणीभिश्च वलयनूपुरकंकणैः ॥
गीतैर्मिश्रितशब्दोऽभूत्तुमुलो रासमंडले ॥३५॥
देवाश्च देवपत्‍न्यश्च रासं दृष्ट्वा हरेरपि ॥
बभूवर्मूर्च्छिता राजन्गगने स्मरपीडिताः ॥३६॥
चंद्रिकायां तु चन्द्रस्य चतुरश्चंचलश्चलन् ॥
चंद्रावल्या बभौ चैव घनश्चंचल एव च ॥३७॥
राधायास्तत्र शृङ्गारं स्रग्भिर्यावककज्जलैः ॥
चक्रे कमलपत्राद्यैर्गिरौ गिरिधरो महान् ॥३८॥
कुंकुमागुरुकस्तूरीचन्दनाद्यैश्च राधिका ॥
चक्रे कमलपत्रं वै श्रीकृष्णस्यानने वरम् ॥३९॥
ततश्च सस्मिता राधा सस्मितं भगवन्मुखम् ॥
पश्यन्ती नागवल्ल्याश्च बीटकं प्रददौ मुदा ॥४०॥
प्रियाप्रदत्तं तांबूलं बुभुजे नंदनंदनः ॥
कृष्णदत्तं च तांबूलं चखाद रधिका मुदा ॥४१॥
कृष्णचर्विततांबूलं नीत्वा राधा बलात्पुनः ॥
जघास भक्त्या सा शीघ्रं सती पतिपरायणा ॥४२॥
प्रियाचर्विततांबूलं ययाचे भगवान्हरिः ॥
राधा ददौ न तं भीता पपात तत्पदांबुजे ॥४३॥
पद्मा पद्मावती नंदी आनन्दी सुखदायिनी ॥
चंद्रावली चंद्रकला वंद्या ह्येता हरिप्रियाः ॥४४॥
वृन्दावने हरिस्ताभिर्वसंतर्तुप्रपूरिते ॥
नानाप्रकारं शृङ्गारं स चकार मनोजवत् ॥४५॥
काश्चित्पिबंति गोप्यस्तु श्रीकृष्णस्याधरामृतम् ॥
काश्चिद्वालिंगनं चक्रुः कृष्णस्य परमात्मनः ॥४६॥
ततः कृष्णस्तु भगवान्गोपीनां कुचकुंकुमैः ॥
सुवर्णवर्णो भूत्वा वै रेजे मदनमोहनः ॥४७॥
पुनर्गोपीजनैः सार्द्धं श्रीगोपीजनवल्लभः ॥
रासं चकार राजेंद्र सुन्दरे कदलीवने ॥४८॥
एवं हेमन्तरजनी गोपीनां रासमण्डले ॥
व्यतीता क्षणवद्राजन्नित्यानंदेन तत्र वै ॥४९॥
अथ नंदस्य सदनं रासं कृत्वा ययौ हरिः ॥
वृषभानुपुरं राधा तथा गोप्यो गृहान्ययुः ॥५०॥
न जानंति व्रजे गोपा रासवार्तां हरेरपि ॥
स्वान्स्वान्दारान्स्वपार्श्वस्थान्मन्यमाना नृपेश्वर ॥५१॥
इदं शृङ्गारचरितं राधामाधवयोः परम् ॥
ये पठंति च शृण्वन्ति ते व्रजिष्यंति चाक्षरम् ॥५२॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
रासक्रीडासंपूर्तिर्नाम षट्चत्वारिशोऽध्यायः ॥४६॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP