श्रीगर्गसंहिता

अश्वमेधखण्डः - पञ्चचत्वारिंशोऽध्यायः

रासक्रीडा -


गोप्य ऊचुः
अधरबिम्बविडंबितविद्रुमं मधुरवेणुनिनादविनोदितम् ॥
कमलकोमलनीलमुखांबुजं तमपि गोपकुमारमुपास्महे ॥१॥
श्यामलं विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥
कामदं व्रजविलासिनीदृशां शीतलं मतिहरं भजामहे ॥२॥
तं विसंचलितलोचनांचलं सामिकुड्‌मलितकोमलाधरम् ॥
वंशवल्गितकरांगुलीमुखं वेणुनादरसिकं भजामहे ॥३॥
ईषदंकुरितदंतकुंडलं भूषणं भुवनमंगलश्रियम् ॥
घोषसौरभमनोहरं हरेर्वेषमेव मृगयामहे वयम् ॥४॥
अस्तुः नित्यमरविंदलोचनः श्रेयसे हि तु सुरार्चिताकृतिः ॥
यस्य पादसरसीरुहामृतं सेव्यमानमनिशं मुनीश्वरैः ॥५॥
गोपकै रचितमल्लसंगरं संगरे जितविदग्धयौवनम् ॥
चिंतयामि मनसा सदैवतं दैवतं निखिलयोगिनामपि ॥६॥
उल्लसन्नवपयोदमेव तं फूल्लतामरसलोचनांचलम् ॥
बल्लवीहृदयपश्यतोहरं पल्लवाधरमुपास्महे वयम् ॥७॥
यद्धनंजयरथस्य मण्डनं खंडनं तदपि सञ्चितैनसाम् ॥
जीवनं श्रुतिगिरां सदामलं श्यामलं मनसि मेऽस्तु तन्महः ॥८॥
गोपिकास्तनविलोललोचनप्रांतलोचनपरंपरावृतम् ॥
बालकेलिरसलालसं भ्रमं माधवं तमनिशं विभावये ॥९॥
नीलकण्ठकृतपिच्छशेखरं नीलमेघतुलितांगवैभवम् ॥
नीलपंकजपलाशलोचनं नीलकुंतलधरं भजामहे ॥१०॥
घोषयोषिदनुगीतवैभवं कोमलस्वरितवेणुनिःस्वनम् ॥
सारभूतमभिरामसंपदां धाम तामरसलोचनं भजे ॥११॥
मोहनं मनसि शार्ङ्गिणं परं निर्गतं किल विहाय मानिनीः ॥
नारदादिमुनिभिश्च सेवितं नंदगोपतनयं भजामहे ॥१२॥
श्रीहरिस्तु रमणीभिरावृतो यस्तु वै जयति रासमण्डले ॥
राधया सह वने च दुःखितास्तं प्रियं हि मृगयामहे वयम् ॥ १३॥
देवदेव व्रजराजनन्दन देहि दर्शनमलं च नो हरे ॥
सर्वदुःखहरणं च पूर्ववत्संनिरीक्ष्य तव शुल्कदासिकाः ॥१४॥
क्षितितलोद्धरणाय दधार यः सकलयज्ञवराहवपुः परम् ॥
दितिसुतं विददार च दंष्ट्रया स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥
मनुमताद्रुचिजो दिविजैः सह वसु दुदोह धरामपि यः पृथुः ॥
श्रुतिमपाद्‌धृतमत्स्यवपुः परं स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥
अवहदब्धिमहो गिरिमूर्जितं कमठरूपधरः परमस्तु यः ॥
असुहरं नृहरिः तमदंडयत्स च हरिः परमं शरणं च नः ॥१७॥
नृप बलिं छलयन्दलयन्नरीन्मुनिजनाननुगृह्य चचार यः ॥
कुरुपुरं च हलेन विकर्षयन्यदुवरः स गतिर्मम सर्वथा ॥१८॥
व्रजपशून्गिरिराजमथोद्धरन्व्रजपगोपजनं च जुगोप यः ॥
द्रुपदराजसुतां कुरुकश्मलाद्‌भवतु तच्चरणाब्जरतिश्च नः ॥१९॥
विषमहाग्निमहास्त्रविपद्‌गणात्सकलपांडुसुताः परिरक्षिताः ॥
यदुवरेण परेण च येन वै भवतु तच्चरणः शरणं च नः ॥२०॥
मालां बर्हिमनोज्ञकुन्तलभरां वन्यप्रसूनोषितां
     शैलेयागुरुक्लृप्तचित्रतिलकां शश्वन्मनोहारिणीम् ॥
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
     बालां बालतमालनीलवपुषं वंदामहे देवताम् ॥२१॥
गर्ग उवाच -
इति स्त्रीभी रुदंतीभी रेवतीरमणानुजः ॥
आविर्बभूव चाहूतस्तासां मध्ये च भक्तितः ॥२२॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
रासक्रीडायां पञ्चचत्वारिंशोऽध्यायः ॥४५॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP