श्रीगर्गसंहिता

अश्वमेधखण्डः - चतुश्चत्वारिंशोऽध्यायः

रासक्रीडा -


वज्रनाभिरुवाच -
अद्‌भुतं कृष्णचरितं मया त्वन्मुखतः श्रुतम् ॥
किं चक्रुर्गोपिकास्तासां स कथं दर्शनं ददौ ॥१॥
तत्सर्वं मुनिशार्दूल मह्यं श्रद्धालवे वद ॥
धन्यास्ते ये हि शृण्वंति कर्णे कृष्णकथां सदा ॥२॥
मुखेन कृष्णचन्द्रस्य नामानि प्रजपंति हि ॥
हस्तैः श्रीकृष्णसेवां वै ये प्रकुर्वंति नित्यशः ॥३॥
नित्यं कुर्वंति कृष्णस्य ध्यानं दर्शनमेव च ॥
पादोदकं प्रसादं च ये प्रभुञ्जंति नित्यशः ॥४॥
इतीदृशेन भावेन श्रमेण जगदीश्वरम् ॥
ये भजंति मुनिश्रेष्ठ ते प्रयांति हरेः पदम् ॥५॥
संसारे ये प्रभुञ्जंति भोगान्नानाविधान्मुने ॥
श्रवणादीन्न कुर्वंति देहसौख्येन दुर्मदाः ॥६॥
ते चांते यमदूतैश्च गृहीताश्च भयानकैः ॥
पतिताः कालसूत्रे वै यावद्‌रविनिशाकरौ ॥७॥
सूत उवाच -
इत्युक्तवंतं राजानं प्रत्युवाच मुनिश्वरः ॥
गद्‌गदस्वरया वाण्या प्रशंस्य चरितं हरेः ॥८॥
गर्ग उवाच -
कृष्णे चांतर्हिते राजंस्त्वरं सर्वाश्च गोपिकाः ॥
आचक्षाणाश्च तं तप्ताः हरिण्यो हरिणं यथा ॥९॥
अन्तर्हितं हरिं ज्ञात्वा गोप्यः सर्वाश्च पूर्ववत् ॥
यूथीभूता विचिक्युर्वै सर्वतस्तं वने वने ॥१०॥
पप्रच्छुर्भूरुहान्सर्वान्मिलित्वा तु परस्परम् ॥
हत्वा ह्यस्मान्कटाक्षेण क्व गतो नंदनदनः ॥११॥
तदस्माकं च वदत यूयं सर्वे वनेश्वराः ॥
मार्तंडकन्ये त्वजिरे गोपालो गाश्च चारयन् ॥१२॥
नित्यं चकार लीलां तु स गतः कुत्र नो वद ॥
शतशृङ्गगिरींद्रस्त्वं श्रीनाथेन धृतः पुरा ॥१३॥
वामहस्ते रक्षणार्थं वासवाद्‌व्रजवासिनाम् ॥
न जहाति हरिस्त्वां तु स्वपुत्रं हृदयोद्‌भवम् ॥१४॥
स गतो वद कुत्रास्ते विहाय विपिने च नः ॥
हे मयूराश्च हरिणा हे गावो हे मृगाः खगाः ॥१५॥
किरीटी ह्यलकी कृष्णो युष्माभिः किं विलोकितः ॥
वदन्त सोऽपि कुत्रास्ते वने कस्मिन्मनोहरः ॥१६॥
एतैस्तु वाक्यैः संतुष्टाः कठिनास्तीर्थवासिनः ॥
उत्तरं नैव दास्यंति सर्वे ते मोहिताः किल ॥१७॥
गर्ग उवाच -
एवं सर्वा हि पृच्छन्त्यः कृष्णचन्द्रं वने वने ॥
वदंत्यः कृष्ण कृष्णेति बभूवुस्तन्मयास्ततः ॥१८॥
चक्रुः कृष्णचरित्राणि तत्र कृष्णमयाः स्त्रियः ॥
यमुनावालुकायां च पदानि ददृशुर्हरेः ॥१९॥
वज्रध्वजांकुशाद्यैश्च चिह्नितानि महात्मनः ॥
तत्पदान्यनुसारेण पश्यन्त्यः प्रययुः स्वरम् ॥२०॥
कृष्णांघ्रिरेणवो नीत्वा मूर्ध्नि धृत्वा व्रजस्त्रियः ॥
पदान्यन्यानि ददृशुश्चान्यचिह्नयुतानि हि ॥२१॥
निरीक्ष्याहुः प्रियासार्द्धं गतः प्रियतमो ह्यसौ ॥
एवं वदंत्यः पश्यन्त्यो गोप्यस्तालवनं गताः ॥२२॥
व्रजन्नग्रे व्रजेंद्रस्तु व्रजेश्वर्या व्रजे नृप ॥
कोलाहलं च गोपीनां श्रुत्वा प्रत्याह स्वमिनीम् ॥ २३॥
शीघ्रं गच्छ प्रिये त्वं तु कोटिचन्द्रसमप्रभे ॥
आगता व्रजनार्यो हि नेतुं त्वां मां च सर्वतः ॥२४॥
ततः प्रिया हरेः पूर्वं शृङ्गारं कुसुमैर्नृप ॥
चकार सुंदरं दिव्यं वृन्दारण्ये च पूर्ववत् ॥२५॥
नंदसूनुः प्रियायाश्च दिव्यं श्रृंगारमेव च ॥
चकार बहुभिः पुष्पैर्भांडीरे च यथा पुरा ॥२६॥
केशप्रसाधनाद्यैश्च स्रक्तांबूलानुलेपनैः ॥
सुंदरी सुंदरेणापि बभूवात्यंतसुन्दरी ॥२७॥
ततः कृष्णस्तु मुदितः पुष्पवृक्षतले नृप ॥
शय्यां पुष्पमयीं कृत्वा तया रेमे रमेश्वरः ॥२८॥
वृन्दावने गोवर्धने कृष्णायाः पुलिने तथा ॥
नंदीश्वरे बृहत्सानौ तथा रोहितपर्वते ॥२९॥
अरण्येषु द्वादशसु सर्वत्र व्रजमंडले ॥
कांतया विचरन्कांतो वंशीवटतले स्थितः ॥३०॥
तत्र शुश्राव गोपीनां वदन्तीनां रवं परम् ॥
स्वामिन्या सह राजेंद्र श्रीगोपीजनवल्लभः ॥३१॥
पुनः प्राह प्रियां प्रेम्णा गच्छ गच्छ प्रिये त्वरम् ॥
कृष्णवाक्यं ततः श्रुत्वा प्राह भूत्वा च मानिनी ॥३२॥
राधोवाच -
न समर्था प्रचलितुं क्वचिद्‌गेहान्न निर्गता ॥
नय मां ते मनो यत्र दुर्बलां दीनवत्सल ॥३३॥
इति तद्वाक्यमाकर्ण्य रामां रामानुजस्ततः ॥
स्वेन पीतांबरेणापि वीजयामास स्वेदतः ॥३४॥
प्रगृह्य पाणिना प्राह सर्प राज्ञि यथासुखम् ॥
इति सा हरिणा प्रोक्ता मत्वात्मानं वरं परम् ॥३५॥
हित्वासौ स्त्रीजनान् रात्रौ भजते मां रहःस्थले ॥
इति मत्वा तु हरये भूत्वा तूष्णीं व्रजेश्वरी ॥३६॥
वस्त्रेणाननमाच्छाद्य पृष्ठं दत्वा स्थिताभवत् ॥
पुनराह हरिस्तां तु प्रिये गच्छ मया सह ॥३७॥
भजामि त्वामहं भद्रे वियोगार्तां तु शापतः ॥
विहाय गोपीः सर्वाश्च लग्नास्त्वां तु भजाम्यहम् ॥३८॥
त्वं तु मे स्कंधमारुह्य सुखं व्रज रहःस्थले ॥
इत्युक्त्वा मानिनीं मानी स्कंधयानमभीप्सतीम् ॥३९॥
त्यक्त्वा ह्यन्तदर्धे राजन्स्वात्मारामः स्वलीलया ॥
अन्तर्हिते भगवति सहसा सा वधूर्नृप ॥४०॥
अन्वतप्यत दुःखार्त्ता गतमाना रुरोद ह ॥
ततस्तद्‌रोदनं श्रुत्वा वंशीवटतटे त्वरम् ॥४१॥
आजग्मुर्गोपिकाः सर्वा ददृशुस्तां च दुःखिताम् ॥
चक्रुः स्त्रियस्तदंगेषु वायुं व्यजनचामरैः ॥४२॥
स्नापयित्वा तु तां प्रेम्णा काश्मीरसलिलेन च ॥
सिषिचुर्मकरंदैस्तां चन्दनद्रवशीकरैः ॥४३॥
पुनर्वाक्यैः समाश्वास्य गोप्यः कर्मसु कोविदाः ॥
निशम्य तन्मुखाद्यानं गोविंदस्य च मानतः ॥४४॥
मानिन्यो गोपिकाः सर्वा विस्मयं परमं ययुः ॥
विहाय मानं ताः सर्वा आगत्य पुलिनं नृप ॥
स्वरैर्जगुः कृष्णगुणाँस्तदागमनहेतवे ॥४५॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
रासक्रीडायां चतुश्चत्वारिंशोऽध्यायः ॥४४॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP