श्रीगर्गसंहिता
अश्वमेधखण्डः - सप्तचत्वारिंशोऽध्यायः
यादवगणानां व्रजपुरात् यात्रा -
गर्ग उवाच -
इदं कृष्ण्स्य चरितं गुप्तं शास्त्रेषु वर्णितम् ॥
मया तवाग्रे राजेंद्र अथान्यच्छृणु विस्तरात् ॥१॥
एवं स्थित्वा दिनान्यष्टौ श्रीकृष्णो नंदपत्तने ॥
आनंदं प्रददन्नॄणां पुनर्गन्तुं मनो दधे ॥२॥
यशोमती कृष्णमाता प्राणेभ्योऽपि प्रियं सुतम् ॥
गन्तुमभ्युदितं दृष्ट्वा रुरोदोच्चैर्यथा पुरा ॥३॥
रुरुदुस्तत्र गोप्यश्च बाष्पपर्याकुलेक्षणाः ॥
स्मरंत्यः पूर्वदुःखानि गेहे गेहे नृपेश्वर ॥४॥
यावत्यो व्रजनार्यश्च तावद्रूपधरो हरिः ॥
पृथगाश्वासयामास तथा राधां स कोविदः ॥५॥
मातरं प्राह भगवान्मातः शोकं तु मा कुरु ॥
शीघ्रमत्रागमिष्यामि कारयित्वा क्रतूत्तमम् ॥६॥
त्वं न मन्यसे चेन्मातर्नित्यं द्रक्षसि चांतिके ॥
पुत्ररूपं च मां भक्त्या कृतांतभयभञ्जनम् ॥७॥
एवं तां तु समाश्वास्य निष्क्रम्य सदनाद्धरिः ॥
गोपैर्युक्तोऽश्रुपूर्णाक्षः पौत्रसेनां जगाम ह ॥८॥
गत्वानिरुद्धसेनायां यादवान्हयमोचने ॥
ददावाज्ञां नृपश्रेष्ठ साक्षान्नारायणो हरिः ॥९॥
नोदितः कृष्णचन्द्रेण हयं संपूज्य यत्नतः ॥
पुनुर्मुमोच तत्पौत्रो विजयार्थे हि पूर्ववत् ॥१०॥
यादवाश्चानिरुद्धाद्या नंदं नत्वाश्रुपूरिताः ॥
गंतुमारुरुहुः सर्वे वाहनानि च कृच्छ्रतः ॥११॥
कृष्णाकारान्कृष्णपुत्रान्कृष्णपौत्राँश्च सुन्दरान् ॥
गंतुमभ्युदितान्सर्वान्कृष्णेन सहितान्यदून् ॥१२॥
दृष्ट्वा ते रुरुदुर्गोपा गोविंदविरहातुराः ॥
स्मरंतः पूर्वदुःखानि शुष्ककंठौष्ठतालुकाः ॥१३॥
रुरोद नंदराजोऽपि बाष्पव्याकुललोचनः ॥
न किंचिदूचे दुःखार्तो मुखेन परिशुष्यता ॥१४॥
सर्वानाश्वासयामास कृष्णोऽप्यश्रुपरिप्लुतः ॥
आयास्य इति वाक्यैश्च मिलित्वा तु पृथक्पृथक् ॥१५॥
चैत्रमासे यदा यज्ञो द्वारकायां भविष्यति ॥
आह्वयिष्यामि गोपाला युष्मान्सर्वान्न संशयः ॥१६॥
गोपाला गोकुले नित्यं गोपालं मां हि द्रक्ष्यथ ॥
तस्मान्निवासं कुरुत अत्रैव व्रजमण्डले ॥१७॥
एवमाश्वास्य तैर्दत्तं पारिबर्हं प्रगृह्य च ॥
नंदं नत्वा रथे स्थित्वा प्रायाद्वृष्णिवरैर्हरिः ॥१८॥
नन्दाद्या दुःखिता गोपाः कृष्णस्य चरणांबुजे ॥
क्षिप्तं मनः पुनर्हर्तुमनीशा गोकुलं ययुः ॥१९॥
गोपा गोप्याश्च श्रीकृष्णं प्रेममग्नाश्च नित्यशः ॥
समीपे नृप पश्यंति योगिनामपि दुर्लभम् ॥२०॥
इति श्रीगर्गसंहितायां हयमेधखण्डे व्रजादन्यत्र गमनं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|