श्रीगर्गसंहिता

अश्वमेधखण्डः - चत्वारिंशोऽध्यायः

कृष्णेन सह यादवसैन्यस्य व्रजप्रवेशम् -


गर्ग उवाच -
मुक्तस्तुरंगः कृष्णेन पत्रचामरभूषितः ॥
प्रययौ स बहून्देशान्नेत्राभ्यां च विलोकयन् ॥१॥
बल्वलं निर्जितं श्रुत्वा नानादेशाधिपा नृपाः ॥
हयं न जगृहुः प्राप्तं श्रीकृष्णस्य भयान्नृप ॥२॥
इत्थं व्रजन्भारते वै यदुवीरतुरंगमः ॥
एकमासेन राजेंद्र प्राप्तोऽभूद्‌व्रजमण्डले ॥३॥
ततः कृष्णां समुत्तीर्य दृष्ट्वा वृन्दावनं वनम् ॥
तमालस्य तले राजन्स्थितोऽभूद्धयसत्तमः ॥४॥
दूर्वां चरंतं तुरगं विलोक्य
     विहाय गास्ते किल गोपबालाः ॥
समाययुस्ते नृप कौतुकेन
     हयस्य पार्श्वे करताडनैश्च ॥५॥
इति पश्यत्सु सर्वेषु श्रीदामा गोपनायकः ॥
जग्राह लीलया राजञ्चरंतं चंचलं हयम् ॥६॥
गोपाशेन हयं बद्ध्वा गले गोपैः समन्वितः ॥
केनोत्सृष्टो वदन्वाक्यं नन्दस्य निकटं ययौ ॥७॥
आगतं वाजिनं दृष्ट्वा नन्दोऽपि हर्षपूरितः ॥
तत्पत्रं वाचयित्वाऽऽह सर्वान्गद्‌गदया गिरा ॥८॥
उग्रसेनहयश्चैष पुरे मम समागतः ॥
पालितो ह्यनिरुद्धेन मत्पौत्रेण सर्वतः ॥९॥
गृह्णामि यज्ञतुरगं मित्राणां मिलनाय च ॥
ततः प्रपौत्रं पश्यामि कृष्णाकारं प्रियंकरम् ॥१०॥
इत्युक्त्वा नन्दराजस्तु द्र्ष्टुं गोपैः समन्वितः ॥
कथयित्वा यशोदाग्रेऽभिप्रायं निर्ययौ पुरात् ॥११॥
तदैव यादवाः सर्वे भोजवृष्ण्यंधकादयः ॥
हयस्य पृष्ठतो लग्नास्तत्राजग्मुर्नृपेश्वर ॥१२॥
विलोकयंतो नयपालतीर्थे
     तथा च मार्गे मिथिलामयोध्याम् ॥
बर्हिष्मतीं चैव हि कान्यकुब्जं
     सांकर्षणं गोकुलमेव राजन् ॥१३॥
मार्तंडकन्यां मथुरां पुरीं च
     विराजते यत्र तु केशवश्च ॥
वृंदावने नन्दपुरे नृपेंद्र
     समागताः कृष्णयुताश्च सर्वे ॥१४॥
नन्दग्रामं तत्र दृष्ट्वा रथस्थो नन्दनंदनः ॥
सर्वेषामग्रतो भूत्वा ह्याययौ यादवैर्वृतः ॥१५॥
ददर्श तत्र पुरतो गोपालैः पितरं हरिः ॥
संस्थितं तु पुरस्कृत्य वारणेन्द्रमलंकृतम् ॥१६॥
वादित्रैः शंखशब्दैश्च जयशब्दैर्नृपेश्वर ॥
पुष्पालंकारकलशलाजाद्यैः परिभूषितम् ॥१७॥
ततश्च यादवाः सर्वे नेमुर्नंदं निरीक्ष्य च ॥
हर्षाश्रुविप्लुता राजन्नुद्धवाद्याश्च तत्र वै ॥१८॥
तदैव नन्दराजस्य दक्षिणांगमथास्फुरत् ॥
उवाच दृष्ट्वा मनसि ह्युत्तमं शकुनं नृप ॥१९॥
अद्य पश्यामि नेत्राभ्यां कृष्णं किं प्रियवादिनम् ॥
यस्मान्ममाक्षिः स्फुरति दक्षिणश्च प्रियंकरः ॥ २०॥
मन्नेत्रगोचरः कृष्णो यदा भूयात्तदा ह्यह्यम् ॥
गवां लक्षं प्रदास्यामि ब्राह्मणेभ्यो ह्यलंकृतम् ॥२१॥
इत्युक्त्वा वचनं नंदो विरराम यदा नृप ॥
तदाशृणोत्स्वपुत्रस्यागमनं व्रजवासिभिः ॥२२॥
श्रीकृष्णागमनं श्रुत्वा नन्दो विरहविप्लुतः ॥
पश्यन्हरिं च सर्वेषां विचचार रुदन्निव ॥२३॥
वदन्कृष्णेति कृष्णेति गिरा गद्‌गदया भृशम् ॥
हे कृष्णचन्द्र क्व गतो दुःखितं मां न पश्यसि ॥२४॥
ततो निरीक्ष्य पितरं श्रीकृष्णः पितृवत्सलः ॥
अवप्लुत्य रथात्तूर्णं पपात चरणौ पितुः ॥२५॥
श्रीनन्दराजस्तनयं समुत्थाप्य चिरागतम् ॥
स्नापयामास सलिलैः कृत्वा वक्षसि नेत्रयोः ॥२६॥
अक्षिभ्यां कृष्णचन्द्रस्तु मुमोचाश्रु घृणातुरः ॥
श्रीदामादीन्सखीन्दृष्ट्वा पश्चात्प्रेमपरिप्लुतः ॥२७॥
पृथक्पृथक्परिरेभे कृष्णप्रेमपरिप्लुप्तः ॥
भक्तानां कोऽस्ति माहात्म्यमहो वक्तुं धरातले ॥२८॥
नन्दाद्या रुरुदुर्गोपाः श्रीकृष्णाद्याश्च यादवाः ॥
प्रवक्तुं न समर्थास्ते सर्वे विरहविक्लवाः ॥२९॥
अश्रुपूर्णमुखः कृष्णो गोपान्गद्‌गदया गिरा ॥
सर्वानाश्वासयामास प्रेमानंदसमाकुलान् ॥३०॥
परिपूर्णतमं साक्षाच्छ्रीकृष्णं जगदीश्वरम् ॥
तादृशं ददृशुः सर्वे यादृशो मथुरां गतः ॥३१॥
नवीननीरदश्यामं किशोरवयसं शिशुम् ॥
शरत्प्रभातकमलकांतिमोचनलोचनम् ॥३२॥
शरत्पूर्णेंन्दुशोभाढ्यं शोभास्वाच्छादनाननम् ॥
कोटिमन्मथलावण्यं लीलानंदितसुन्दरम् ॥३३॥
सस्मितं मुरलीहस्तं द्विभुजं ह्यतिसुन्दरम् ॥
तडिद्वस्त्रधरं देवं मत्स्यकुण्डलिनं हरिम् ॥३४॥
चन्दनोक्षितसर्वांगम् कौस्तुभेन विराजितम् ॥
आजानुमालतीमालावनमालाविभूषितम् ॥३५॥
मयूरपिच्छचूडं च सद्‌रत्‍नमुकुटोज्ज्वलम् ॥
पक्वबिंबाधरोष्ठं च नासिकोन्नतशोभनम् ॥३६॥
एवं कृष्णस्य राजेन्द्र रूपं नैत्रैर्व्रजौकसः ॥
पपुरानन्दसंमग्नाः पीयूषं मानवा इव ॥३७॥
अनिरुद्धं ततो नन्दः सांबादींश्चैव यादवान् ॥
आशिषं प्रददौ राजन्प्रीतः प्रेमपरिप्लुतः ॥३८॥
ततः सर्वैश्च यदुभिः पुत्रपौत्रसमन्वितः ॥
विवेश स्वपुरं नन्दो गतदुःखो महामतिः ॥३९॥
अवप्लुत्य रथात्कृष्णः सांबाद्यैः परिभूषितः ॥
त्वरं स्वमातुर्भवनमानंदं प्रददन्ययौ ॥४०॥
दृष्ट्वा स्वमातरं कृष्णो गृहद्वारे समागताम् ॥
रुदतीं बाष्पकण्ठी तां ननाम प्ररुदन्हरिः ॥४१॥
यशोदा तस्य जननी स्वप्राणेभ्यः प्रियं सुतम् ॥
उपगूह्य ददौ तस्मै गिरा गद्‌गदयाऽऽशिषः ॥४२॥
नन्दस्तथोपनंदश्च तथा षड्‌वृषभानवः ॥
वृषभानुवरश्चैव ह्येते द्रष्टुं समाययुः ॥४३॥
तत्रागतानां गोपानां श्रीकृष्णो यादवैर्वृतः ॥
यथाविध्युपसंगम्य सर्वेषां मानमादधे ॥४४॥
ते तु कृष्णस्य कुशलं पप्रच्छुर्मुदिताननाः ॥
तेषां कृष्णस्तु भगवान्पप्रच्छ कुशलं परम् ॥४५॥
ततश्च यमुनातीरे वृंदारण्ये नृपेश्वर ॥
बभूवुः शिबिराः सर्वेऽनिरुद्धस्य महात्मनः ॥४६॥
शिबिरेष्वनिरुद्धाद्या सांबाद्याश्चोद्धवादयः ॥
निवासं चक्रिरे कृष्णः स्थितोऽभून्नंदपत्तने ॥४७॥
आगतेभ्यश्च सर्वेभ्यो नंदः कृष्णेन संयुतः ॥
भोजनं प्रददौ राजन्पशुभ्यश्च तृणानि च ॥४८॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
व्रजप्रवेशो नाम चत्वारिंशोऽध्यायः ॥४०॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP