श्रीगर्गसंहिता

अश्वमेधखण्डः - एकोनचत्वारिंशोऽध्यायः

असुरैः सह युद्धे अनिरुद्धविजयम् -


गर्ग उवाच -
कृष्णं दृष्ट्वा हरस्तत्र भीतः शंकितमानसः ॥
त्यक्त्वा चापत्रिशूलादीन्भक्त्या श्रीनाथमब्रवीत् ॥१॥
शंकर उवाच -
ॐ अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ॥
भूतदयां विस्तारय तारय संसारसागरतः ॥२॥
दिव्यधुनीमकरंदे परिमलपरिभोगसच्चिदानंदे ॥
श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे ॥३॥
सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् ॥
सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ॥४॥
उद्‌धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ॥
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥५॥
मत्स्यादिभिरवतारैरवतारवताऽवता वसुधाम् ॥
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम् ॥६॥
दामोदर गुणमंदिर सुन्दरवदनारविंद गोविन्द ॥
भवजलधिमथनमंदर परमं दरमपनय त्वं मे ॥७॥
नारायण करुणामय शरणं करवाणि तावकौ चरणौ ॥
इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥८॥
इति स्तुतः शंकरेण प्रीतः संकर्षणानुजः ॥
पप्रच्छ सर्वाभिप्रायं नमन्तं चन्द्रशेखरम् ॥९॥
श्रीकृष्ण उवाच -
किं कृतस्तेऽपराधो वै मत्पुत्रेण कुबुद्धिना ॥
यतस्त्वया हतः संख्येऽनिरुद्धो मूर्च्छितः कृतः ॥१०॥
हतं यदुबलं कस्मात्कस्मात्त्वं चागतो रणे ॥
कस्माद्युद्धं च कृतवांस्तन्मे व्याख्यातुमर्हसि ॥११॥
इत्थं श्रीकृष्णवचनं निशम्य प्रमथेश्वरः ॥
उवाच लज्जितो भूत्वा विचार्य मधुसूदनम् ॥१२॥
शंकर उवाच -
देवदेव जगन्नाथ राधिकेश जगन्मय ॥
पाहि पाहि कृपाकारिन्निस्त्रपं मां कृतागसम् ॥१३॥
त्वं न जानासि किं देव कथयिष्यामि किं त्वहम् ॥
भक्तस्य पालनं कर्तुं मायया तव मोहितः ॥१४॥
अहमागतवान्देव त्वं सर्वं क्षंतुमर्हसि ॥
शास्ताहं सर्वलोकस्य मानादिति मया हरे ॥१५॥
मारिताः संगरे शूरा वृष्णयः कृष्णदेवताः ॥
तस्मात्संतः स्वयं त्यक्त्वा परमैश्वर्यमीप्सितम् ॥१६॥
ध्यायंते सततं कृष्णपादाब्जं ते निरापदम् ॥
सुखं दुःखं नृणां तावद्यावत्कृष्णे न मानसम् ॥१७॥
कृष्णे मनसि सञ्जाते भेत्ति खड्गो दुरत्ययः ॥
नराणां कर्मवृक्षाणां मूलच्छेदं करोति यः ॥१८॥
मद्‌भक्तिबलदर्पिष्ठा मत्प्रभुं त्वां यदूत्तमम् ॥
न मन्यंते च ते सर्वे यास्यंति निरयं ध्रुवम् ॥१९॥
इत्युक्त्वा शंकरस्तूष्णीं भूत्वा कृष्णस्य पादयोः ॥
पपात दंडवद्‌भक्त्या ह्यश्रुपूर्णाकुलेक्षणः ॥२०॥
उत्थाप्याश्वास्य तं रुद्रं पार्श्वतस्तत्प्रदर्शनात् ॥
मिलित्वा भगवान्कृष्ण आलुलोक सुधार्द्रदृक् ॥२१॥
आह कृष्णः सुराः सर्वे कुर्वंति भक्तपालनम् ॥
त्वया जुगुप्सितं कर्म किं कृतं भक्तपालने ॥२२॥
ममासि हृदये त्वं तु भवतो हृदये ह्यहम् ॥
आवयोरंतरं नास्ति मूढाः पश्यंति दुर्द्धियः ॥२३॥
त्वां नमंति च मद्‌भक्तास्त्वद्‌भक्ता मां सदाशिव ॥
ये न मन्यंति मद्वाक्यं यास्यंति नरकं च ते ॥२४॥
इत्युक्त्वा भगवान्कृष्णो हतं पुत्रं सुनन्दनम् ॥
दृष्ट्या पीयूषवर्षिण्या जीवयामास संयुगे ॥२५॥
तत्पश्चादनिरुद्धस्य हृदयाच्छूलमेव च ॥
शनैः शनैः समाकृष्य जीवयामास तं हरिः ॥२६॥
तत्पश्चाद्यादवान्सर्वान्निहतान्संयुगे भृशम् ॥
अजीवयत्सुधादृष्ट्या कृष्णस्तु प्रभुरीश्वरः ॥२७॥
तावत्सदुंदुभिरवं पुष्पवृष्टिं दिवौकसः ॥
उत्साहलक्षणां चक्रुः प्रसाद्य गरुडध्वजम् ॥२८॥
प्रभुं त्रैलोक्यनेतारं कृष्णं दृष्ट्वा यदूत्तमाः ॥
उत्थाय संभ्रमाच्चक्रुर्जयारावं मुदान्विताः ॥२९॥
अथोत्थितो बल्वलस्तु महादेवन रक्षितः ॥
क्व गतश्चानिरुद्धो वै ब्रुवन्वाक्यं रुषान्वितः ॥३०॥
ततः शर्वेण दैत्यस्तु बोधितो वचनैः शुभैः ॥
ज्ञात्वा कृष्णस्य माहात्म्यं मुदितोऽभून्महामनाः ॥३१॥
ततः प्रणम्य गोविंदं स्तुत्वा दैत्यस्तु बल्वलः ॥
तुरगं प्रददौ राजन्बहुद्रव्येण संयुतम् ॥३२॥
ततो यज्ञहयं नीत्वा पुत्रपौत्रसमन्वितः ॥
सेतुमार्गेण कृष्णस्तु प्रययौ पश्चिमां दिशम् ॥३३॥
कृष्णे गते भगवति राज्ये संस्थाप्य बल्वलम् ॥
कैलासं प्रययौ रुद्रः सगणस्तु सभैरवः ॥३४॥
एतत्कृष्णचरित्रं तु ये शृण्वन्ति गृहे जनाः ॥
तेषां सहायं भगवान्करिष्यति सदा हरिः ॥३५॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
ऽनिरुद्धविजयवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP