श्रीगर्गसंहिता

अश्वमेधखण्डः - एकचत्वारिंशोऽध्यायः

राधाकृष्णमिलनम् -


श्रीगर्ग उवाच -
आहूतो राधया कृष्णः सन्ध्यायां नन्दनंदनः ॥
जगाम शश्वदेकान्ते शीतलं कदलीवनम् ॥१॥
रंभादलैश्चंदनस्य पंकयुक्तं मनोहरम् ॥
स्फारास्फुरन्नभ्रगेहं यमुनावायुशीकरम् ॥२॥
एतादृशं राधिकायाः सुन्दरं मेघमंदिरम् ॥
सर्वं दुःखाग्निना नित्यं भस्मीभूतं बभूव ह ॥३॥
श्रीदामशापेन नृप दुःखेन वृषभानुजा ॥
तनुं रक्षति तत्रापि कृष्णागमनहेतवे ॥४॥
निशम्य कृष्णं स्ववने समागतं
     सखीमुखाच्छ्रीवृषभानुनंदिनी ॥
आनेतुमुत्थाय वरासनात्त्वरं
     द्वारे सखीभिर्नृप सा जगाम ह ॥५॥
ददौ ह्यासनपाद्याद्यानुपचारान्व्रजेश्वरी ॥
वदंती कुशलं वाक्यं कृष्णा कृष्णं व्रजेश्वरम् ॥६॥
परिपूर्णतमं दृष्ट्वा परिपूर्णतमा नृप ॥
जहौ विरहजं दुःखं संयोगे हर्षपूरिता ॥७॥
चकार स्वस्याः शृङ्गारं वस्त्रालंकारचंदनैः ॥
कुशस्थल्यां गते नाथे शृङ्गारो न कृतस्तया ॥८॥
पुरा तया न भुक्तं च तांबूलं मिष्टभोजनम् ॥
कृतं न शय्याशयनं क्वचिद्धास्यं न वा कृतम् ॥९॥
सिंहासने स्थितं राधा देवं मदनमोहनम् ॥
हर्षाश्रूणि प्रमुंचंती जगौ गद्‌गदया गिरा ॥१०॥
राधोवाच -
गोकुलं मथुरां त्यक्त्वा गतः कस्मात्कुशस्थलीम् ॥
वद तन्मे हृषीकेश त्वं साक्षाद्‌गोकुलेश्वरः ॥११॥
क्षणं युगसमं नाथ जानामि त्वद्वियोगतः ॥
घटीं मन्वंतरसमां द्विपरार्द्धसमं दिनम् ॥१२॥
कस्मिन्कुकाले विरहो मे बभूव च दुःखदः ॥
येन त्वच्चरणौ देव न पश्यामि सुखप्रदौ ॥१३॥
यथा रामं तु सीतेव मानसं वरटेव च ॥
तथा रासेश्वरं त्वां तु मानदं हि समुत्सहे ॥१४॥
सर्वं जानासि सर्वज्ञ किं दुःखं कथयाम्यहम् ॥
शतवर्षं गतं नाथ वियोगो न गतो मम ॥१५॥
इत्युक्त्वा वचनं राजन्स्वामिनी स्वामिनं परम् ॥
वियोगखिन्ना दुःखानि स्मरंती सा रुरोद ह ॥१६॥
दृष्ट्वा प्रियां रुदंतीं तां प्रियः प्राह प्रियं वचः ॥
तस्माश्च शमयन्वाक्यैः कृष्णः कश्मलमेव च ॥१७॥
श्रीकृष्ण उवाच -
न कर्तव्यस्त्वया राधे शोकश्च तनुशोषकः ॥
तेजश्चैकं द्विधाभूतभावयोः ऋषयो विदुः ॥१८॥
यत्राहं त्वं सदा तत्र यत्र त्वं ह्यहमेव च ॥
वियोग आवयोर्नास्ति मायापुरुषयोर्यथा ॥१९॥
भेदं हि चावयोर्मध्ये ये पश्यंति नराधमाः ॥
देहांते नरकान्‌राधे ते प्रयांति स्वदोषतः ॥२०॥
अथातस्त्वं तु मां राधे नित्यं द्रक्ष्यसि चांतिके ॥
प्रभाते चक्रवाकीव चक्रवाकं प्रियंकरम् ॥२१॥
किंचित्कालेन दयिते गोपगोपीभिरेव च ॥
साकं त्वयाक्षरं ब्रह्म श्रीगोलोकं व्रजाम्यहम् ॥२२॥
गर्ग उवाच -
माधवस्य वचः श्रुत्वा गोपीभिः सह राधिका ॥
प्रसन्ना पूजयामास रमेशं च रमा यथा ॥२३॥
श्रीराधया पुनः कृष्णो रासार्थं प्रार्थितो नृप ॥
प्रस्रन्नो वृंदकारण्ये रासं कर्तुं मनो दधे ॥२४॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
राधाकृष्णमेलनं नामैकचत्वारिंशोऽध्यायः ॥४१॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP