श्रीगर्गसंहिता

अश्वमेधखण्डः - चतुस्त्रिंशोऽध्यायः

दैत्य-यादव-युद्धवर्णनम् -


गर्ग उवाच -
अथ वै बल्वलः पुत्रं रोहयित्वा रथे मुदा ॥
तेन सार्द्धं ससैन्यस्तु युद्धार्थं प्रययौ त्वरम् ॥१॥
नानाशस्त्रधराः सर्वे नानावाहनसंस्थिताः ॥
नाना कञ्चुकसंयुक्ता नानारुपा भयंकराः ॥२॥
गजेंद्रसदृशाः पुष्टा मृगेंद्रसमविक्रमाः ॥
कंपयतश्च पृथिवीं वृष्णीनां संमुखे ययुः ॥३॥
तानागतान्बहून्दैत्याननिरुद्धस्तु शंकितः ॥
रक्षणार्थं च सर्वेषां चक्रव्यूहमकल्पयत् ॥४॥
सर्वतो यादवाः शूराः सर्वशस्त्रधराः किल ॥
गजै रथैस्तुरंगैश्च बभूवुः परिमंडिताः ॥५॥
तेषां मध्ये स्थिता राजन्निंद्रनीलादयो नृपाः ॥
अक्रूरकृतवर्माद्यास्तेषां मध्ये स्थिताः शुभाः ॥६॥
तेषां मध्ये च राजेंद्र गदाद्याः कृष्णभ्रातरः ॥
तेषां मध्ये महावीराः सांबादीप्तिमदादयः ॥७॥
चक्रव्यूहं विनिर्माय चेदृशं तत्र भूपते ॥
तन्मध्ये कार्ष्णिपुत्रस्तु दंशितः संस्थितोऽभवत् ॥८॥
बभूव तुमुलं युद्धं तत्र सिंधुतटे नृप ॥
यदुभिर्दानवानां च ह्यब्धीनामब्धिभिर्यथा ॥९॥
रथिनो रथिभिस्तत्र गजवाहा गजैः सह ॥
अश्ववाहैरश्ववाहा वीरा वीरैः परस्परम् ॥१०॥
युयुधुस्तीक्ष्णबाणैश्च खड्गचर्मगदर्ष्टिभिः ॥
पाशैः परश्वधै राजञ्छतघ्नीभिर्भुशुण्डिभिः ॥११॥
हन्यमानाश्च यदुभिर्बल्वलस्य च सैनिकाः ॥
सर्वे स्वं स्वं रणं त्यक्त्वा दुद्रुवुस्ते भयान्विताः ॥१२॥
रुरोध गगनं सूर्यं सैन्यपादरजो भृशम् ॥
अंधकारे महादैत्या रणात्सर्वे पराङ्‍मुखाः ॥१३॥
केचिन्निपतिताः कूपे केचिद्‌गर्ते ह्यधोमुखाः ॥
केचित्तडागे वाप्यां वै यदूनां सायकैर्हताः ॥१४॥
ततो दृष्ट्वा बलं भग्नं बल्वलो रोषपूरितः ॥
चतुर्भिर्मंत्रिणां पुत्रैः स्वपुत्रेणाजगाम ह ॥१५॥
अनिरुद्धो बल्वलेन तत्रायुद्ध्यन्महामृधे ॥
दुर्नेत्रेण बृहद्वाहुर्दुर्मुखेनारुणो बली ॥१६॥
न्यग्रोधो दुःस्वभावेन दुर्मदेन कविस्तथा ॥
कुनन्दनेन संग्रामे कृष्णपुत्रः सुनंदनः ॥१७॥
एवं बभूव संग्रामो देवविस्मयकारकः ॥
प्रगतास्तत्र राजेंद्र सर्वे कार्तिकवासराः ॥१८॥
बल्वलः कुपितो राजन्धनुष्टंकारयन्मुहुः ॥
इंद्रनीलं त्रिभिर्बाणैः षड्‌भिर्हेमांगदं मृधे ॥१९॥
अनुशाल्वं च दशभिरक्रूरं दशभिस्तथा ॥
गदं द्वादशभिर्बाणैर्युयुधानं च पंचभिः ॥२०॥
पंचभिः कृतवर्माणमुद्धवं दशभिः शरैः ॥
कार्ष्णिजं शतबाणैश्च विव्याध समरेऽसुरः ॥२१॥
तच्छरैः सरथाः सर्वे बभ्रमुर्घटिकाद्वयम् ॥
तुरगाः पंचतां प्राप्ताश्चूर्णीभूता रथा रणे ॥२२॥
तद्धस्तलाघवं दृष्ट्वा यादवा विस्मयं गताः ॥
रथानारुरुहुः सर्वेऽनिरुद्धाद्याश्च मानद ॥२३॥
बल्वलोऽपि ययौ राजन्नन्यान्वीरान्विलोकितुम् ॥
अनिरुद्धस्ततः प्राह क्रोधादरुणलोचनः ॥२४॥
तिष्ठ तिष्ठ ममाग्रेऽद्य दर्शयित्वा पराक्रमम् ॥
कुत्र यास्यसि हे दैत्य पश्य मन्निशिताञ्छरान् ॥२५॥
इति तस्य वचः श्रुत्वा युवराजः कुनन्दनः ॥
उवाच वचनं शीघ्रं बल्वलस्य च पश्यतः ॥२६॥
राजपुत्र उवाच -
दैत्येंद्रं च रणे द्रष्टुं त्वं च नार्हसि कार्ष्णिज ॥
तस्मान्मदीयं च बलं पूर्वं पश्य मृधांगणे ॥२७॥
अनिरुद्ध उवाच -
त्वं बालोऽसि दैत्यपुत्र युद्धं कर्तुं च नार्हसि ॥
तस्माच्च स्वगृहं गत्वा क्रीडनं कुरु कृत्रिमैः ॥२८॥
राजपुत्र उवाच -
अत्र पश्य महावीरैर्बालस्य मम क्रीडनम् ॥
गृहे यदि करिष्यामि तत्र कोऽपि न पश्यति ॥२९॥
इत्युक्त्वा चण्डकोदण्डे दधार शतसायकान् ॥
तताड कार्ष्णीजं तैश्च रथस्थं दर्शयन्बलम् ॥३०॥
तैर्बाणैः सरथः सोऽपि ससूतः सतुरंगमः ॥
विभ्रमन्नभमार्गेण पपात कपिलाश्रमे ॥३१॥
हाहाकारस्तदैवासीदनिरुद्धे गते सति ॥
ततः क्रुद्धाश्च तं हंतुं सांबाद्या आययुर्मृधे ॥३२॥
आगतांस्तान्बहून्दृष्ट्वा युवराजः प्रहर्षितः ॥
सांबं च दशभिर्बाणैः पंचभिश्च मधुं तथा ॥३३॥
बृहद्बाहुं त्रिभिर्बाणैश्चित्रभानुं च पंचभिः ॥
वृकं च दशभिर्युद्धे सप्तभिश्चारुणं शरैः ॥३४॥
पंचभिः संग्रामजितं सुमित्रं च त्रिभिः शरैः ॥
दीप्तिमंतं त्रिभिर्बाणैर्भानुं च दशभिर्मृधे ॥३५॥
वेदबाहुं पंचभिश्च पुष्करं सप्तभिः शरैः ॥
अष्टभिः श्रुतदेवं च संमुखस्थं सुनन्दनम् ॥३६॥
विंशत्या सायकैस्तीक्ष्णैर्विरूपं दशभिस्तथा ॥
चित्रबाहुं च नवभिर्न्यग्रोधं दशभिः शरैः ॥३७॥
कविं च नवभिर्बाणैस्तताड प्रधने बली ॥
शंखं दघ्मौ मुदायुक्तो नन्दमानी कुनन्दनः ॥३८॥
तद्बाणैर्विभ्रमंतश्च सरथाः सतुरंगमाः ॥
पेतुः केचिद्योजने च पंचक्रोशे द्वियोजने ॥३९॥
हाहाकारे तदा याते सेनायां नृपसत्तम ॥
रुरुदुर्यादवाः सर्वे रामकृष्णेति वादिनः ॥४०॥
तदा गदादयः सर्वे मुंचंतो निशिताञ्छरान् ॥
इन्द्रनीलादयश्चैव ह्याजग्मुः क्रोधपूरिताः ॥४१॥
दृष्ट्वा समागतान् वीरान्‌राजपुत्रो महाबलः ॥
विव्याध सायकैः सर्वे ह्यभूवन्मूर्च्छिता रणे ॥४२॥
तत्पश्चाद्यादवाञ्छूरान्बाणौघैर्बल्वलात्मजः ॥
तताड तच्छरै राजन्बहवः पंचतां गताः ॥४३॥
संग्रामे तस्य बाणौघै रुधिराणां नदी ह्यभूत् ॥
हस्तिनो यत्र मग्नाश्च सजीवास्ते म्रियंति च ॥४४॥
हाहाकारस्तदैवासीत्सेनायां च नभस्तले ॥
महेन्द्रवरुणाद्याश्च भयं प्रापुश्च विस्मिताः ॥४५॥
जयं दृष्ट्वासुरा सर्वे बभूवुर्मुदिताननाः ॥
गर्ग उवाच -
अथ वै मूर्च्छितं दृष्ट्वानिरुद्धं कपिलो मुनिः ॥४६॥
हतयानं निपतितं शरनिर्भिन्नवक्षसम् ॥
चकार तं तु चैतन्यं हस्तेन तपसा मुनिः ॥४७॥
ततः सोऽपि समुत्थाय सिद्धं नत्वा यदूत्तमः ॥
सेतुमार्गेणाजगाम यदून्सर्वान्प्रहर्षयन् ॥४८॥
अथान्यं रथमारुह्य प्रतिशार्ङ्गधरो बली ॥
निचखान शरं चैकं राजपुत्ररथे रुषा ॥४९॥
स शरस्तद्‌रथं नीत्वा ससूतं सतुरंगमम् ॥
चतुर्मुहूर्तपर्यंतं भ्रामयामास चाम्बरे ॥५०॥
ततश्च ददृशुः सर्वे दानवाश्चैव वृष्णयः ॥
गगने विभ्रमंतं वै सरथं च कुनंदनम् ॥५१॥
अथ सांबादयो वीरा रथानारुह्य वेगतः ॥
अनुशाल्वादयश्चैवाजग्मुः सर्वे धनुर्धराः ॥५२॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
दैत्ययादवयुद्धवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥३४॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP