श्रीगर्गसंहिता

अश्वमेधखण्डः - त्रयस्त्रिंशोऽध्यायः

मृतस्य बल्वलपुत्रस्य यौवनप्राप्तिः -


सैन्यपाल उवाच -
अत्रागताश्च सर्वेऽपि धन्विनो युद्धदुर्मदाः ॥
युवराजो नृपसुतो रणे चात्र न दृश्यते ॥१॥
स किं करिष्यति गृहे मारयित्वा च मत्सुतम् ॥
स भुशुण्डीमुखेनापि तन्मार्गं किं न यास्यति ॥२॥
इत्युक्त्वा रोषताम्राक्षो ग्रहीतुं नृपनन्दनम् ॥
जगाम नगरीं शीघ्रं सैन्यपालः प्रहर्षितः ॥३॥
स राजपुत्रो मदिरां पीत्वा वै भोजनांतरे ॥
चकार शयनं रात्रौ विस्मृतो मदविह्वलः ॥४॥
तत्पत्‍नी बोधयामास भर्तारं नृपनन्दनम् ॥
श्रुत्वा पटहनिर्घोषं रुदती भयविह्वला ॥५॥
उत्तिष्ठोत्तिष्ठ हे वीर प्रातःकालो बभूव ह ॥
त्वत्पितुः शासनं पुर्य्यां भेरीघोषेण श्रूयते ॥६॥
ये न यास्यंति युद्धार्थं ते वधार्हाः सुतादयः ॥
तस्मात्प्रयाहि शीघ्रं त्वं गत्वा तात विलोकय ॥७॥
प्रियया बोधितः सोऽपि चैतन्यो न बभूव ह ॥
पुनः सा बोधयामास ससैन्ये बल्वले गते ॥८॥
ततः स निद्रां च विहाय चोत्थितः
     सद्यो गृहीत्वा सशरं धनुः किल ॥
शिवं गणेशं मनसा च संस्मर-
     ञ्जगाम युद्धाय रथेन भूपजः ॥९॥
तमागतं वीक्ष्य नृपस्य नन्दन-
     मुवाच रोषेण तु सैन्यपालकः ॥
कथं त्वया दैत्यवरस्य शासनं
     विलोपितं केन बलेन मां वद ॥१०॥
मत्सुतस्त्वादृशो भूत्वा शीघ्रं नागतवान्मृधे ॥
स मारितो बल्वलेन शतघ्नीप्रमुखेन च ॥११॥
तस्माद्‌गच्छ पितुः पार्श्वं सत्यवादी पिता तव ॥
मारयिष्यति शीघ्रं वै नेतुं त्वां प्रेषितोऽस्म्यहम् ॥१२॥
वचस्तीक्ष्णं समाकर्ण्य भयाच्छुष्कमुखस्तु सः ॥
पितुः सकाशात्स ययौ सुधन्वा दुःखितो यथा ॥१३॥
ददर्श पितरं गत्वा दैत्यवृंदैः समावृतम् ॥
रथस्थं कुपितं तत्र ह्यनिरुद्धजयोत्सुकम् ॥१४॥
दृष्ट्वा तातं नमस्कृत्य व्रीडितो भयविह्वलः ॥
अधोमुखः स्थितो भूमौ दानवेंद्रस्य पश्यतः ॥१५॥
बल्वलः कुपितः प्राह दंतान्दंतैर्विनिष्पिषन् ॥
आज्ञाभंगस्त्वया केन कृतः स्वात्मविघातने ॥१६॥
तस्माद्विभीतं किल युद्धमण्डलाद्‌-
     गृहे गतं प्राणपरीप्सया सुतम् ॥
कुनन्दनं शत्रुसमं मलीमसं
     हित्वा शतघ्नीवदनेन हन्म्यहम् ॥१७॥
इत्युक्त्वा स्वसुतं वीरो दुःखादश्रुपरिप्लुतः ॥
खिन्नः प्रत्याह मनसि प्रतिज्ञा किं कृता मया ॥१८॥
अहो विनापराधेन सैन्यपालसुतो हतः ॥
तेन पापेन मत्पुत्रो मरिष्यति न संशयः ॥१९॥
मोचयिष्ये यदि सुतं वीरं मृत्युमुखाद्बलात् ॥
तदा मत्सैनिकाः सर्वे मां शपंति हसंति च ॥२०॥
शोचंतमित्थं नृपतिं च दुःखितं
     स्वपुत्रशोकेन तु खिन्नमानसम् ॥
विलोक्य रोषेण हसन्नमर्षितो
     ह्युवाच वाक्यं किल सैन्यपालकः ॥२१॥
सैन्यपाल उवाच -
एनं मारय शीघ्रं त्वं स्वपुत्रं च कुनन्दनम् ॥
पश्चाद्‌भवति संग्रामो यादवानां च दानवैः ॥२२॥
त्वं सत्यवादी दैत्येंद्र इदं कर्म च दारुणम् ॥
न करिष्यसि दुःखेन निरयस्ते भविष्यति ॥२३॥
सत्याद्‌रामसमं पुत्रं तत्याज कोसलेश्वरः ॥
हरिश्चंद्रः प्रियां पुत्रं स्वात्मानं चैव भूपते ॥२४॥
बलिश्चैव महीं सर्वां जीवनं च विरोचनः ॥
स्वकीर्तिं च शिबिश्चैव दधीचिः स्वतनुं तथा ॥२५॥
पृषध्रं तु गुरुश्चैव रंतिदेवश्च भोजनम् ॥
आज्ञाभंगकरं पुत्रं तथा मारय त्वं नृप ॥२६॥
त्वया पूर्वं च यत्प्रोक्तं स्वपुत्रमपि भ्रातरम् ॥
आज्ञाभंगकरं हन्मि शीघ्रमन्यस्य का कथा ॥२७॥
तस्मिन्देशे च वस्तव्यं यस्मिन्भूपश्च सत्यवाक् ॥
तस्मिन्देशे न वस्तव्यं यस्मिन्भूपो ह्यसत्यवाक् ॥२८॥
गर्ग उवाच -
इति तद्वाक्यमाकर्ण्य बल्वलः खिन्नमानसः ॥
मारणार्थं तु तस्यापि तस्मै चाज्ञां चकार ह ॥२९॥
ततो जगाम दुःखाढ्यो यदूनां संमुखे तु सः ॥
सैन्यपालस्तु तस्याज्ञां तत्पुत्राग्रे न्यवेदयत् ॥३०॥
श्रुत्वा प्रत्याह वचनं शीघ्रं तस्मै कुनंदनः ॥
राजपुत्र उवाच -
कर्तव्या च नृपस्याज्ञा त्वया परवशेन वै ॥३१॥
रामेण तु हृतं शीर्षं स्वमातुः पितुराज्ञया ॥
सैन्यपाल प्रतीतोऽहं कृताधर्मक्रिया मया ॥३२॥
मरणान्न भयं मह्यं शतघ्न्यां च निवेशय ॥
इत्युक्त्वा राजपुत्रस्तु स्वकिरीटं तथांगदम् ॥३३॥
मुक्ताहारं स्वर्णहारं कुण्डले कटकानि च ॥
ब्राह्मणेभ्यो ददौ सर्वं ते दुःखादाशिषं ददुः ॥३४॥
ततः स्नात्वा स तीर्थस्य लेपयित्वा च मृत्तिकाम् ॥
तुलसीपल्लवं मालां मुखे कण्ठे निधाय च ॥३५॥
ब्रुवञ्छ्रीकृष्ण रामेति चकार स्मरणं हरेः ॥
सैन्यपालस्तु तं शीघ्रं गृहीत्वा भुजयोर्बलात् ॥३६॥
कारयामास राजेंद्र शतघ्नीवदने रुषा ॥
हाहाकारस्तदैवासीत्सैनिका रुरुदुर्भृशम् ॥३७॥
रुरोद बल्वलस्तत्र रुरुदुस्ते द्विजातयः ॥
दृष्ट्वा शतघ्नीं तत्रापि प्रतप्तां मदपूरिताम् ॥३८॥
ताम्रगोलकसंयुक्तामग्नियुक्तां भयंकराम् ॥
स राजपुत्रः श्रीकृष्णं सर्वव्यापिनमीश्वरम् ॥३९॥
अश्रुपूर्णमुखो भूत्वा प्रत्याह विमलं वचः ॥४०॥
कृष्णं मुकुन्दमरविंददलायताक्षं
     शंखेन्दुकुंददशनं नरनाथवेषम् ॥
इंद्रादिदेवगणवंदितपादपद्मं
     प्राणप्रयाणसमये च हरिं स्मरामि ॥४१॥
श्रीकृष्ण गोविंद हरे मुरारे
     श्रीकृष्ण गोविंद कुशस्थलीश ॥
श्रीकृष्ण गोविंद व्रजेश भूप
     श्रीकृष्ण गोविंद भयात्प्रपाहि ॥४२॥
स्मरणात्तव गोविन्द ग्राहान्मुक्तो मतंगजः ॥
स्वायंभुवश्च प्रह्लादो ह्यंबरीषो ध्रुवस्तथा ॥४३॥
आनर्त्तश्चैव कक्षीवान्मृगेंद्राद्बहुला तथा ॥
रैवतश्चंद्रहासश्च तथाहं शरणं गतः ॥४४॥
पूर्वं भवति मे मृत्युः संग्रामं च विना ह्यहो ॥
न तोषितश्च प्रधनेऽनिरुद्धो विशिखैर्मया ॥४५॥
न तोषिता यादवाश्च न दृष्टाः कृष्णनंदनाः ॥
शार्ङ्गमुक्तैश्च विशिखैर्न देहः शकलीकृतः ॥४६॥
कुनन्दनस्य शूरस्य स्तेनस्येवाभवद्‌गतिः ॥
त्वद्‌भक्तं मां च पापिष्ठास्तस्मात्सर्वे हसंति हि ॥४७॥
यं वीक्ष्य भूमौ च पलायते वै
     यमो मरिष्यंति विनायकाश्च ॥
निरंकुशं कृष्णजनं च पूज्यं
     कथं शतघ्नी किल मां हनिष्यति ॥४८॥
गर्ग उवाच -
इत्थं वदति शूरे वै सैन्यपालस्य चाज्ञया ॥
शतघ्नीं मुमुचे कश्चिद्धाहाशब्दस्तदाभवत् ॥४९॥
स्मरणात्कृष्णचंद्रस्य चित्रमेकं बभूव ह ॥
शतघ्नी शीतला जाता ज्वाला शांतिं गता नृप ॥५०॥
दृष्ट्वाऽऽश्चर्यं च तत्रापि जनाः सर्वे नृपादयः ॥
विसिष्मू राजशार्दूल सैन्यपालस्तदाब्रवीत् ॥५१॥
शतघ्न्यां शुष्कमदिरा गोलकेन समन्विता ॥
न विद्यते त्वसौ तस्मान्न मृतो रणमण्डले ॥५२॥
इति तस्य वचः श्रुत्वा प्रोचुर्वीरा रुषान्विताः ॥
अयं निष्किल्बिषः शूरः कृष्णभक्तो महामतिः ॥५३॥
रक्षितस्तेन दुःखाद्वै पुनर्हंतुं च नार्हसि ॥
तेषां वाक्यं समाकर्ण्य सैन्यपालो रुषान्वितः ॥५४॥
ददर्श राजपुत्रं वै शतघ्नीवदने स्थितम् ॥
जपंतं कृष्ण कृष्णेति स्रजा मीलितलोचनम् ॥ ५५॥
दृष्ट्वा तं च पुनर्हंतुं शतघ्नीं मुमुचे खलः ॥
सा शतघ्नी तदा भिन्ना शब्दो वज्रनिपातवत् ॥५६॥
बभूव सैन्यपालस्तु गोलकेन मृतोऽभवत् ॥
तथा तदनुगास्तस्य ज्वालया ज्वलिताः किल ॥५७॥
हाहाशब्दं प्रकुर्वंतो दुद्रुवुः केचिदेव हि ॥
केचिद्वै बधिरीभूताः केचिद्‍धूमेन विह्वलाः ॥५८॥
ततश्च ददृशुः सर्वे नृपपुत्रं च निर्भयम् ॥
चक्रुर्जयजयारावं बल्वलाद्या नृपेश्वर ॥५९॥
दैत्या ऊचुः
यं च रक्षति श्रीकृष्णस्तं को भक्षति मानवः ॥
भक्तं हंतुं चागतो यः स विनश्यति दैवतः ॥६०॥
तस्मात्कृष्णसमो नास्ति येनायं रक्षितो भयात् ॥
सर्वे वयं नमस्यामस्तं कृष्णं भक्तवत्सलम् ॥६१॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
राजपुत्रजीवनं नाम त्रयत्रिंशोऽध्यायः ॥३३॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP