श्रीगर्गसंहिता
अश्वमेधखण्डः - द्वात्रिंशोऽध्यायः
बल्वलकृतं सेनापतीपुत्रवधम् -
गर्ग उवाच -
अथ वै बल्वलं दैत्यं शोचंतं कांचनासने ॥
मयः प्रत्याह वचनं ज्येष्ठं कुंभश्रुतिर्यथा ॥१॥
अद्य दृष्टं त्वया राजन् यदूनां बलमेव हि ॥
दैत्यवृन्दैश्च निहताश्चत्वारो मंत्रिणस्तव ॥२॥
अवशेषस्त्वमेवासि ह्यथवाहं च त्वत्पुरे ॥
तस्मात्तवेच्छा दैत्येंद्र यथा भूयात्तथा कुरु ॥३॥
बल्वलः प्राह वचनमद्य यास्याम्यहं रणे ॥
शीघ्रं हंतुं यदून्सर्वांस्त्वं गुप्तो भव मन्दिरे ॥४॥
हरिः कृष्णस्तु नंदस्य पुरा पुत्रः प्रकीर्तितः ॥
वसुदेवो मन्यते तं मत्पुत्रोऽयं गतत्रपः ॥५॥
हैयंगवीनदुग्धाज्यदधितक्रादिकं तु सः ॥
चोरयामास गोपीनां रसिको रासमण्डले ॥६॥
जरासुतभयात्सोऽपि समुद्रं शरणं गतः ॥
मारितो मातुलो येन किं करिष्यति पौरुषम् ॥७॥
इति तद्वाक्यमाकर्ण्य मयः प्रकुपितोऽब्रवीत् ॥
मय उवाच -
यस्माद्बिभेति ब्रह्मा च शिवो माया पुरंदरः ॥८॥
भयदं निर्भयं कृष्णं तं विनिंदसि निंदक ॥
कृष्णं निंदति यो मूढो ह्यज्ञानाच्च कुसंगतः ॥९॥
कुम्भीपाके स पतति यावद्वै ब्रह्मणो वयः ॥१०॥
चण्डपालशिशुपालमण्डली-
भञ्जनं दनुजदर्पखण्डनम् ॥
माधवं मदनमोहनं परं त्वं
भजस्व कुलकौशलाय च ॥११॥
मयस्य वचनं श्रुत्वा ज्ञानं प्राप्तोऽपि बल्वलः ॥
क्षणं विचार्य राजेन्द्र प्रोवाच प्रहसन्निव ॥१२॥
बल्वल उवाच -
जानाम्यहं विश्वपतिं च कृष्णं
शेषं बलं वै मदनं च कार्ष्णिम् ॥
अत्रागतं पद्मभवं हि चैषां
वध्या वयं तेन हयो हृतोऽयम् ॥१३॥
एषां बाणैश्च निहतो यदाहं निधनं गतः ॥
तदा सुखेन यास्यामि शीघ्रं विष्णोः परं पदम् ॥१४॥
पुरा च वैरभावेन वैकुण्ठं बहवो गताः ॥
दानवा राक्षसाश्चैव तं च भावं करोम्यहम् ॥१५॥
इत्युक्त्वा दंशितो भूत्वा दानवानां शिरोमणिः ॥
स्वसैन्यपालकं तूर्णं समाहूयेदमब्रवीत् ॥१६॥
पटहेन ममाज्ञां त्वं पुर्यां देहि प्रयत्नतः ॥
अनिरुद्धेन युद्धाय वीरेषु सैन्यपालक ॥१७॥
ये ममाज्ञां न मन्यन्ते ते वधार्हा रणं विना ॥
आत्मजा वा भ्रातरो वा ह्यन्येषां चैव का कथा ॥१८॥
इति श्रुत्वा स तद्वाक्यं रथ्यां रथ्यां गृहे गृहे ॥
पटहेनापि तस्याज्ञां घोषयामास वेगतः ॥१९॥
श्रुत्वा पटहनिर्घोषं दैत्याः शीघ्रं भयातुराः ॥
गृहीत्वा सर्वशस्त्राणि ह्याजग्मुस्ते सभातलम् ॥२०॥
सैन्यपालस्ततः पूर्वं लक्षदैत्यैः समावृतः ॥
रथेन कवची धन्वी निर्जगाम पुराद्बहिः ॥२१॥
दुर्नेत्रो दुर्मुखश्चैव दुःखभावश्च दुर्मदः ॥
एते वै मंत्रिणां पुत्राश्चत्वारस्ते विनिर्ययुः ॥२२॥
मतंगजैर्महामत्तैश्चंचलांगैस्तुरंगमैः ॥
रथैश्च देवधिष्ण्याभैर्विद्याधरसमैर्नरैः ॥२३॥
सद्यः कामगयानेन मयदत्तेन बल्बलः ॥
स्वयं जगाम युद्धार्थे चतुर्लक्षैर्महासुरैः ॥२४॥
सैन्यपालस्य पुत्रस्तु भोजनं कुरुते गृहे ॥
बुभिक्षितश्च युद्धाय शीघ्रं सोऽपि न निर्गतः ॥२५॥
नागतं तं विलोक्याथ सैन्ये बल्वलसैनिकाः ॥
नृपाय कथयामासुस्तस्य वार्तां च शंकिताः ॥२६॥
ततस्तद्वचनाद्वीरा बद्ध्वा तं दामभी रुषा ॥
नृपाग्रे चानयामासुः प्रफुल्लवदनेक्षणाः ॥२७॥
तं दृष्ट्वा भर्त्सयित्वा च बल्वलश्चण्डशासनः ॥
भुशुण्डीं वदने चापि मारयामास वेगतः ॥२८॥
दैत्याः सर्वे भयं प्रापुर्वधं तस्य निरीक्ष्य च ॥
सैन्यपालस्तु संग्रामे मृतं पुत्रं निशम्य च ॥२९॥
रथात्पपात दुःखार्तस्ताडयन्मस्तकं करैः ॥
विललाप भृशं सोऽपि पुत्रदुःखेन दुःखितः ॥३०॥
हा पुत्र वीर पितरं त्यक्त्वा मां जरठं रणे ॥
गतः शतघ्नीमार्गेण स्वर्गे मामविलोक्य च ॥३१॥
विना युद्धेन हे पुत्र क्व गतो नृपशासनात् ॥
इत्येवं विलपंस्तत्र रुरोद रणमण्डले ॥३२॥
ततश्च मंत्रिणां पुत्राः शोचंतं प्रोचुरग्रतः ॥
मंत्रिपुत्रा ऊचुः -
रोदनं मा कुरु रणे शूरोऽसि त्वं तु पालक ॥३३॥
दुःखे कृते च त्वत्पार्श्वे नागमिष्यति वै मृतः ॥
आजन्मतश्च जंतूनां मृत्युर्भवति सांप्रतम् ॥३४॥
धीरास्तत्र न शोचंति मूर्खाः शोचंति नित्यशः ॥
गर्भेऽपि च मृताः केचित्केचिद्वै जन्ममात्रतः ॥३५॥
बालत्वे यौवनत्वे च वृद्धत्वे केचिदेव हि ॥
केचिच्छस्त्रेण रोगेण दुःखेन पतनेन च ॥३६॥
सर्वे मृत्युं गमिष्यंति दैवात्कर्मवशा नराः ॥
को वा कस्य पिता पुत्रः को वा कस्य प्रिया प्रसूः ॥३७॥
संयुनक्ति विधाता वै वियुनक्ति च कर्मणा ॥
संयोगे परमानन्दो वियोगे प्राणसंकटम् ॥३८॥
शश्वद्भवति मूढस्य नात्मारामस्य निश्चितम् ॥
आत्मघाती यदा भूत्वा प्राणांस्त्यजसि दुःखितः ॥३९॥
पुनर्जन्म च निरयं व्रजिष्यसि न संशयः ॥
तस्माद्यदूत्तमैः सार्द्धं युद्धं कुरु महारणे ॥४०॥
क्षत्रियस्य परं श्रेयो धर्मयुद्धान्न विद्यते ॥
धर्मयुद्धेन संग्रामे ये हताः शत्रुसंमुखे ॥४१॥
व्रजंति ते विष्णुपदं लोकान्सर्वान्विहाय च ॥
गर्ग उवाच -
एवं संबोधितो दैत्यैः शोकं सर्वं विहाय च ॥४२॥
सर्वान्वीरानागतांश्च ददर्श रोषपूरितः ॥
दृष्ट्वा सर्वान्स संग्रामे शीघ्रं प्राह रुषा ज्वलन् ॥४३॥
इति श्रीगर्गसंहितायां हयमेधखण्डे सैन्यपालसुतवधो नाम द्वात्रिंशोऽध्यायः ॥३२॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|