श्रीगर्गसंहिता

अश्वमेधखण्डः - पञ्चत्रिंशोऽध्यायः

दानवैः सह युद्धे यादवानां जयम् -


गर्ग उवाच -
अथ वै तत्र संग्रामेऽनुशाल्वो दुर्मुखेन च ॥
युयुधे चेन्द्रनीलस्तु दुर्नेत्रेण दुरात्मना ॥१॥
हेमांगदो दुर्मदेन दुःस्वभावेन सारणः ॥
एवं परस्परं युद्धं बभूव रणमण्डले ॥२॥
सारणो गदया दैत्यं मारयामास वेगतः ॥
हेमांगदस्त्रिभिर्बाणैस्तताड दुर्मदं मृधे ॥३॥
स स्वबाणैर्मृधे तं तु सोऽपि शक्त्या जघान तम् ॥
इन्द्रनीलश्च दुर्नेत्रं जघान लीलया शैरैः ॥४॥
दुर्मुखं चानुशाल्वो वै चकार विरथं शरैः ॥
स चान्यं रथामारुह्य चक्रे तं विरथं शरैः ॥५॥
परिघेणानुशाल्वस्तु जघान दुर्मुखं मृधे ॥
दुर्नेत्रे दुःस्वभावे च दुर्मुखे दुर्मदे हते ॥६॥
अवशेषा दुद्रुवुर्वै दैत्याः प्राणपरीप्सया ॥
ततः पपात चाकाशाद्‌राजपुत्रश्च विभ्रमन् ॥७॥
मूर्च्छितोऽभूद्‌रणे राजन्नुद्वमन् रुधिरं मुखात् ॥
रथश्चांगारवत्तस्य भग्नोऽभूत्तुरगा हताः ॥८॥
ततश्च बल्वलः क्रुद्धः पुत्रं दृष्ट्वा च मूर्च्छितम् ॥
मुमोच धनुषा बाणाननिरुद्धाय वेगतः ॥९॥
तानागतान्दश शरान्दृष्ट्वा रुक्मवतीसुतः ॥
स्वबाणैस्तीक्ष्णधारैश्च चिच्छेद स्वर्णभूषितैः ॥ १०॥
ततो दैत्यो रुषाविष्टश्चापे धृत्वा पुनः शरम् ॥
उवाच माधवं युद्धे प्रद्युम्नं शकुनिर्यथा ॥११॥
बल्वल उवाच -
अनेन बाणेन यदुप्रवीर
     धनुर्धरं त्वां रणमानिनं च ॥
मृधे हनिष्ये न वदाम्यसत्यं
     रक्षस्व प्राणान्यदि जीवितेच्छा ॥१२॥
सोऽपि श्रुत्वा स्वकोदंडे शरमेकं निधाय च ॥
प्रत्याह प्रहसन्वाक्यं प्रद्युम्नः शकुनिं यथा ॥१३॥
अनिरुद्ध उवाच -
कः केन हन्यते जंतुस्तथा कः केन रक्ष्यते ॥
हनिष्यति सदा कालस्तथा रक्षति दुःखतः ॥१४॥
अहं करोमि कर्ताहं हर्ताहं पालकोऽप्यहम् ॥
यो वदेच्चेदृशं वाक्यं स विनश्यति कालतः ॥१५॥
नाहं त्वां तु विजेष्यामि न विजेष्यसि त्वं तु माम् ॥
त्वां मां जेष्यति विश्वात्मा कालोरूपो जगत्पतिः ॥१६॥
न जाने कस्य कुरुते जयं वा च पराजयम् ॥
कालस्तं मनसा वंदे विजयार्थे च दानव ॥१७॥
तस्मादेव हि मनसा कालं हि बलिनां वरम् ॥
मद्वाक्याच्च महाऽज्ञानं विहाय त्वं रणं कुरु ॥१८॥
इति तस्य वचः श्रुत्वा बल्वलो विस्मयान्वितः ॥
तमाह तोषितः प्रीतो यथा त्वाष्ट्रो मरुत्पतिम् ॥१९॥
बल्वल उवाच -
कर्म प्रधानं भूमध्ये कर्मैव गुरुरीश्वरः ॥
उच्चावचत्वं भवति कर्मणा वै यदूत्तम ॥२०॥
सहस्रेषु गवां वत्सः यथा विंदति मातरम् ॥
तथा शुभाशुभं येन कृतं तिष्ठत्सु पश्यति ॥२१॥
ततो जेष्यामि संग्रामे भवंतं दृढकर्मणा ॥
मया कृतश्च शपथः प्रतीकारं कुरु त्वरम् ॥२२॥
अनिरुद्ध उवाच -
प्रधानं मन्यसे कर्म विना कालेन तत्फलम् ॥
न विद्यते यथा पाके कृते स्याद्विघ्नता क्वचित् ॥२३॥
पाकप्रकारे पाकश्च विना कर्त्रा न जायते ॥
तस्माद्वदंति कर्तारं कर्मकालात्परं वरम् ॥२४॥
स कर्ता कृष्णचंद्रस्तु गोलोकेशः परात्परः ॥
येन वै निर्मिताः सर्वे ब्रह्मविष्णुशिवादयः ॥२५॥
बल्वल उवाच -
श्रीकृष्णपौत्र धन्यस्त्वमृषीन् वाक्यैर्विडंबयन् ॥
त्रिभिर्गुणैः पृथग्भूतः स्वभावो दुस्त्यजो नृणाम् ॥२६॥
सावधानतया चाद्य पश्य प्राणहरं शरम् ॥
संप्राप्तं यादवश्रेष्ठ कृत्वा युद्धे मनः स्वकम् ॥२७॥
इत्युक्त्वा व्यसृजन्मायां स्वबाणेन मयस्य च ॥
तदाभवत्तमस्तीव्रं तत्र कोऽपि न लक्ष्यते ॥२८॥
न च स्वीयो न पारक्यो विदामास जनान्बहून् ॥
शिलाः पर्वततुंगाभाः पतंति सुभटोपरि ॥२९॥
वार्भिर्हताश्च सर्वेऽपि व्याकुलाश्च समंततः ॥
विद्युतो विलसंत्यत्र गर्जन्ति वारिदा भृशम् ॥३०॥
वर्षंति रुधिरं चोष्णं मुंचंति सशकृञ्जलम् ॥
गगनात्पतमानानि कबंधानि शिरांसि च ॥३१॥
तदा व्याकुलिताः सर्वे परस्परभयातुराः ॥
पलायनपरा जाताः संग्रामे च यदूत्तमाः ॥३२॥
तदानिरुद्धः प्रधने स्मृत्वा कृष्णपदद्वयम् ॥
मायां तां स विधूयाथ मोहनास्त्रेण लीलया ॥३३॥
तदा दिशः प्रसेदुस्ताः सूर्यस्त्वपरिवेषवान् ॥
मेघा यथागतं याताश्चपलाः शांतिमागताः ॥३४॥
तदा दैत्यश्च पुरतो दृश्यते दानवैर्युतः ॥
नानायुधधरो राजन्मायावी चण्डविक्रमः ॥३५॥
ब्रह्मास्त्रं संदधे क्रुद्धो यादवानां वधाय च ॥
ब्रह्मास्त्रेण तु ब्रह्मास्त्रं जहार माधवः पुनः ॥३६॥
ततश्च बल्वलः क्रुद्धो गांधर्वीं मोहिनीं पराम् ॥
विजयार्थे च संग्रामे मायां सोऽपि चकार ह ॥३७॥
गंधर्वनगरं यत्र दृश्यते नृपसत्तम ॥
न दृश्यते च संग्रामः स्वर्णसौधानि कोटिशः ॥३८॥
बभूवुस्तत्र गंधर्व्यो नृत्यंत्यो गानतत्पराः ॥
वीणातालमृदंगैश्च कलकंठैश्च कंदुकैः ॥३९॥
हावभावकटाक्षैश्च कटिवेणीनिदर्शनैः ॥
तोषयन्त्यो जनान्सर्वान्सुन्दर्यः कञ्जलोचना: ॥४०॥
तासां दृष्ट्वा च सौंदर्यं यादवाः स्मरविह्वलाः ॥
ऊचुः परस्परं सर्वे धृत्वा शस्त्राणि भूतले ॥४१॥
वयं कुत्रागताः सर्वे स्वर्लोके किं तु दैवतः ॥
यत्र नृत्यंति सुन्दर्यः कलकण्ठ्यो मनोहराः ॥४२॥
आसां लावण्यजलधौ वयं मग्नाः स्मरातुराः ॥
कथं भविष्यति जयो रणं चात्र न दृश्यते ॥४३॥
इति ब्रुवत्सु सर्वेषु बल्वलः क्रोधपूरितः ॥
शीघ्रं निस्त्रिंशमादय हंतुं सर्वान्समाययौ ॥४४॥
आगत्य खड्गेन यदुप्रवीरा-
     न्विमोहितान्सोऽपि सहस्रशश्च ॥
जघान युद्धे यदि ते निपेतु-
     र्दृष्ट्वानिरुद्धस्तु रुषा तमूचे ॥४५॥
किं करिष्यसि संग्रामेऽधर्मं सद्‌भिर्विगर्हितम् ॥
मोहितानां मारणे च न श्लाघा ते भविष्यति ॥४६॥
यदि शक्तिः शरीरेऽस्ति मया सार्धं रणं कुरु ॥
इति तद्वाक्यमाकर्ण्य बल्वलो बलदर्पितः ॥
आजगाम पदातिर्वै खड्गचर्मधरो नदन् ॥४७॥
तमापतंतं स निरीक्ष्य रोषाद्‌-
     रथादवप्लुत्य मनोजपुत्रः ॥
कृतांतदण्डेन जघान दैत्यं
     यथा महेन्द्रो भिदुरेण शैलम् ॥४८॥
निर्भिन्नहृदयो दैत्यः पपात चालयन्महीम् ॥
चतुर्वासरपर्यंन्तं मूर्च्छितोऽभूद्‌रणांगणे ॥४९॥
तदा निपतिते दैत्ये माया शांतिं गता स्वतः ॥
युद्धं प्रदृश्यते तत्र यादवा विस्मयं गताः ॥५०॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
ऽनिरुद्धजयो नाम पंचत्रिंशोऽध्यायः ॥३५॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP