श्रीगर्गसंहिता
अश्वमेधखण्डः - षड्विंशोऽध्यायः
अश्वान्वेषणे यादवसैन्यस्य उपद्वीपगमनम् -
गर्ग उवाच -
अथ सर्वे यदुगणा गते क्रतुपशौ नृप ॥
शोकं चक्रुः क्व गच्छामः करिष्यामश्च किं भुवि ॥१॥
न तत्प्रतिविधिं सर्वेऽनिरुद्धाद्या विदुस्ततः ॥
तदा नारदरूपी वै भगवानागमन्नृप ॥२॥
तमागतं मुनिं दृष्ट्वाऽनिरुद्धो यादवैर्वृतः ॥
पूजयित्वासने स्थाप्य प्रीतः प्राह मुनीश्वरम् ॥३॥
अनिरुद्ध उवाच -
भगवन् यज्ञतुरगो बल्वलेन दुरत्मना ॥
नीतः कुत्र गतः सर्वं वद मे वदतां वर ॥४॥
त्वं पर्यटन्नर्क इव त्रिलोकीं दिव्यदर्शनः ॥
अन्तश्चरो वायुरिव ह्यात्मसाक्षी च सर्ववित् ॥
तस्मात्कथय सर्वं मे श्रुत्वा सोऽप्याह माधवम् ॥५॥
नारद उवाच -
राजंस्तव तुरंगो वै बल्वलेन निवेशितः ॥६॥
उपद्वीपे पांचजन्ये सिंधुमध्ये नृपेश्वर ॥
मृते मित्रे च शकुनौ यादवानां वधाय च ॥७॥
सुतलाच्च समाहूय दैत्यवृन्दान्महासुरः ॥
राज्यं करोति तत्रापि शिवस्य वरदर्पितः ॥८॥
इति श्रुत्वानिरुद्धस्तु वचः प्रोवाच शंकितः ॥
अनिरुद्ध उवाच -
तस्मै चन्द्रललामेन किं दत्तं प्रवरं वरम् ॥९॥
तन्ममाख्याहि देवर्षे कस्मात्संतोषितोऽभवत् ॥
ततो बभाषे स मुनिः शृणु राजन् वचो मम ॥१०॥
कैलासे चैकदा दैत्यो ह्येकपादेन संस्थितः ॥
वर्षद्वादशपर्यंतं तपश्चक्रे सुदारुणम् ॥११॥
ततश्च तोषितो देवो वरं ब्रूहीत्युवाच ह ॥
तच्छ्रुत्वा स उवाचाथ सदाशिव नमोऽस्तु ते ॥१२॥
महामृधे च मां देव पालयस्व कृपानिधे ॥
तथास्तु चोक्त्वा देवस्तु तत्रैवांतर्दधे नृप ॥१३॥
स दैत्यो पांचजन्यो वै राज्यं चक्रे बलात्ततः ॥
स्वतस्तुभ्यं न तुरगं विना युद्धेन दास्यति ॥१४॥
अनिरुद्धस्तु प्रोवाच हत्वा दुष्टं च बल्वलम् ॥
ससैन्यं च मुनिश्रेष्ठ मोचयिष्ये तुरंगमम् ॥१५॥
स शिवस्य वरेणापि यदि युद्धं करिष्यति ॥
न पालयिष्यति मृधे शिवः कृष्णद्विषं खलम् ॥१६॥
इत्युक्त्वा चानिरुद्धो वै प्रयाणार्थे जयाय च ॥
यादवेभ्यश्च सर्वेभ्यः सहसाऽऽज्ञां चकार ह ॥१७॥
ततोऽनुज्ञाप्य देवर्षिः युद्धकौतुकसंयुतः ॥
ययौ चाकाशमार्गेण तत्र स्थानं नृपेश्वर ॥१८॥
तदैव यादवाः सर्वे सज्जीभूता रुषान्विताः ॥
स्नात्वा कृत्वा च दानानि तीर्थराजे विधानतः ॥१९॥
उपद्वीपं ययू राजन् रथिभिश्च गजैर्हयैः ॥
द्विलक्षा मार्गकाराश्च मार्गं चक्रुर्दिने दिने ॥२०॥
भिंदिपालैश्च सर्वत्र सेनायाः पूर्वमेव हि ॥
सुखेन यत्र गच्छंति गजवाजितुरंगमाः ॥२१॥
पदातयश्च राजेंद्र मार्गे निष्कण्टके त्वरम् ॥
इत्थं तु यदुसेनायाः शेषो भारेण पीडितः ॥
इति होवाच मनसि किं बभूव धरातले ॥२२॥
अनिरुद्धोऽग्रतो भूत्वालक्षितः प्रययौ नृप ॥२३॥
हयरक्षापदेशाद्वै नाशयन्निव पापिनः ॥
यत्र यत्र गतो राजन्हयस्यार्थे च कार्ष्णिजः ॥२४॥
तत्र तत्रोपशृण्वानः श्रीकृष्णस्य यशोऽखिलम् ॥
श्लाघां ये वै करिष्यंति गोविंदबलदेवयोः ॥२५॥
ददौ तेभ्यश्च रत्नानि वस्त्राण्याभरणानि च ॥
यत्किंचित्तस्य सैन्येषु वसुमात्रमनुत्तमम् ॥२६॥
तत्सर्वमददात्प्रीतः कृष्णगाथाहृताशयः ॥
इत्थं शृण्वन्हरेर्गाथां काशीं पश्यन्गयां तथा ॥२७॥
कुर्वन्दानानि राजेन्द्र काष्ठां प्राचीं जगाम सः ॥
इत्थं भयंकरीं सेनां यादवानां विलोक्य च ॥२८॥
गिरिव्रजपुराधीशः सहदेवस्तु शंकितः ॥
भूत्वा कृतांजलिर्नीत्वा रत्नानि विविधानि च ॥२९॥
अनिरुद्धस्य पदयोः पपात भयविह्वलः ॥
अनिरुद्धस्ततस्तस्मै रत्नमालां ददौ मुदा ॥३०॥
राज्ये कृत्वा च तं शीघ्रं शरणागतवत्सलः ॥
समन्वितो वृष्णिवरैर्जगाम कपिलाश्रमम् ॥३१॥
स्नात्वा च तत्रैव यदुप्रवीरो
भागीरथीसागरसंगमे च ॥
विलोक्य सिद्धं कपिलं मुनीद्रं
ससेनया सोऽपि नमश्चकार ॥३२॥
तत्रस्थानाद्दक्षिणस्यां सिंधुतीरे च तस्य वै ॥
बभूवुः शिबिरा राजन्नुच्चाः प्रासादसन्निभाः ॥३३॥
शिबिरेष्वनिरुद्धाद्या यादवास्तत्र सानुगाः ॥
चक्रुर्निवासं राजेन्द्र शूराः सर्वे जयैषिणः ॥३४॥
इति श्रीगर्गसंहितायां हयमेधखण्डे तुरगार्थमुपद्वीपगमनं नाम षड्विशोऽध्यायः ॥२६॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|