श्रीगर्गसंहिता
अश्वमेधखण्डः - सप्तविंशोऽध्यायः
यादवगणकृतं सेतुबन्धनम् -
गर्ग उवाच -
अथानिरुद्धो यदुराट् प्रातःकाले विशां पते ॥
उद्धवं तु समाहूय प्राह गंभीरया गिरा ॥१॥
कति दूरं पांचजन्यं तन्ममाख्याहि सत्तम ॥
यस्मिन्मदीयो तुरगो नीतो दैत्येन वर्त्तते ॥२॥
इत्युदाहृतमाकर्ण्य मंत्री कृष्णसुहृत्सखः ॥
मनसा कृष्णपादाब्जं स्मृत्वा प्रोवाच माधवम् ॥३॥
प्रभो सर्वज्ञ भगवन्नहं त्वद्वाक्यगौरवात् ॥
कथयिष्यामि लोकेश यथा मार्गे श्रुतं तथा ॥४॥
त्रिंशद्योजनविस्तीर्णात्सागरात्पारमेव च॥
उपद्वीपं पांचजन्यं दक्षिणेऽस्ति नृपेश्वर ॥५॥
उद्धवस्य वचः श्रुत्वानिरुद्धो धन्विनां वरः ॥
बली धैर्यधरः क्रुद्धो प्राहेदं यदुपुंगवान् ॥६॥
अनिरुद्ध उवाच -
अहं यास्यामि पारं वै तस्माद्यादवसत्तमाः ॥
सेतुं कुरुत शीघ्रं तु सागरस्य शरैरपि ॥७॥
इति तद्वचनं श्रुत्वा यादवा युद्धकोविदाः ॥
सागरे मुमुचुर्बाणान्प्रहसंतः परस्परम् ॥८॥
ततः सर्वे जलचरास्तीक्ष्णबाणैः प्रताडिताः ॥
कोलाहलं प्रकुर्वंतो दुद्रुवुस्ते चतुर्दिशम् ॥९॥
न केषां प्रगता बाणाः पारं वै सागरस्य च ॥
इति वै कथितं वाक्यं खस्थेन च सुरर्षिणा ॥१०॥
तदाक्रूरो हृदीकश्च सात्यकिश्चोद्धवो बली ॥
कृतवर्मा सारणश्च युयुधानादयो नृप ॥११॥
हेमांगद इंद्रनीलोऽनुशाल्वाद्याश्च भूपते ॥
गतमाना बभूवुर्वै नारदोक्तं निशम्य च ॥१२॥
ततोऽनिरुद्धो बलवान्स्मरन्कृष्णपदांबुजम् ॥
प्रतिशार्ङ्गं गृहीत्वा वै दिव्यान्बाणान्मुमोच ह ॥१३॥
ततो दृष्ट्वा ऋषिः प्राह ह्यनिरुद्धशिलीमुखाः ॥
पारं गत्वा समुद्रस्य विविशुस्ते च तत्तटम् ॥१४॥
इति श्रुत्वा ऋषेर्वाक्यं सांबादीप्तिमदादयः ॥
मुमुचुस्ते शरान् राजंस्तेषां पारं गताः शराः ॥१५॥
शरेषु च शरा राजन्कोटिशः कोटिशः किल ॥
विविशुर्वीक्ष्य सर्वेऽपि धन्विनो विस्मयं गताः ॥१६॥
चक्रुः सेतुं च ते सर्वे त्रिंशद्योजनलंबितम् ॥
दृढं जलाच्चांतरिक्षमेकयोजनविस्तृतम् ॥१७॥
बद्ध्वा ततश्च ते सेतुं चतुर्भिः प्रहरैरपि ॥
अनिरुद्धादयो रात्रौ सुषुपुः शिबिरेषु वै ॥१८॥
तस्माद्वै पुत्रपौत्राणां कृष्णस्य परमात्मनः ॥
शूराणां कृष्णबिंबानां किं बलं कथयाम्यहम् ॥१९॥
इति श्रीगर्गसंहितायां हयमेधखण्डे सेतुबंधनं नाम सप्तविंशोऽध्यायः ॥२७॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|