श्रीगर्गसंहिता

अश्वमेधखण्डः - पञ्चविंशोऽध्यायः

बल्वलकृतं अश्वमेधस्य अश्वापहरणम् -


गर्ग उवाच -
एवं दृष्ट्वा तयोर्युद्धं यादवाः परसैनिकाः ॥
ऊचुः परस्परं धन्योऽनुशाल्वस्तु गदो महान् ॥१॥
इति ब्रुवत्सु सर्वेषु गदस्तत्रैव चोत्थितः ॥
क्व गतः क्व गतः शत्रुर्हत्वा मां च ब्रुवन्‌ रणात् ॥२॥
ततोऽनुशाल्वं हस्तेन गृहीत्वाऽऽकृष्य रोषतः ॥
अनिरुद्धस्य निकटे पातयामास वेगतः ॥३॥
पतितं मूर्च्छितं दृष्ट्वा ह्यनिरुद्धस्त्वधोमुखम् ॥
कारयामस चैतन्यं व्यजनैः सलिलेन च ॥४॥
तदैव स प्रबुद्धोऽभूदनुशाल्वोऽसुरेश्वरः ॥
दृष्ट्वाग्रे सुन्दरं सोऽपि कृष्णपौत्रं घनप्रभम् ॥५॥
नत्वा प्रत्याह वचनं त्वं तु मे प्राणरक्षकः ॥
अनिरुद्ध हरेः पौत्र अपराधं क्षमस्व मे ॥६॥
ॐ नमो वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥७॥
गृहाण वै तुरङ्गं तमहं यास्यामि पालयन् ॥
इत्युक्त्वा स्वपुरं गत्वा ददौ तस्मै तुरंगमम् ॥८॥
अयुतं हस्तिनां चैव हयानां नियुतं तथा ॥
अर्द्धलक्षं रथानां च शिबिकानां सहस्रकम् ॥९॥
उष्ट्राणां हि सहस्रं च गवयानां सहस्रकम् ॥
पंजरे संस्थितानां च सिंहानां द्विसहस्रकम् ॥१०॥
मृगयासारमेयाणां सहस्रं नृपसत्तम ॥
शिबिराणां सहस्रं च शिञ्जिनां नियुतं तथा ॥११॥
जवनिकानामयुतं धेनूनां लक्षमेव च ॥
सहस्रभारं स्वर्णानां रजतानां चतुर्गुणम् ॥१२॥
मुक्तानां भारमेकं चानिरुद्धाय ददौ नृपः ॥
अनिरुद्धस्ततस्तस्मै मणिहारं ददौ मुदा ॥१३॥
अनुशाल्वः स्वराज्ये तु कृत्वा वै सचिवं वरम् ॥
यादवैः सहितः सोऽपि देशानन्याञ्जगाम ह ॥१४॥
ततो विमुक्तस्तुरगो मणिकांचनभूषितः ॥
देशानन्यान् वीरयुक्तान्पश्यन्बभ्राम भूपते ॥१५॥
अनुशाल्वं जितं श्रुत्वा यौवनाश्चं च भीषणम् ॥
राजानोऽन्ये मंडलेशाः प्राप्तं न जगृहुर्हयम् ॥१६॥
इत्येवं भ्रमतस्तस्य तुरगस्य विशां पते ॥
मासाश्च प्रगताः षड्‍वै तादृशाश्चावशेषिताः ॥१७॥
हयो मणिपुरेशेन गृहीतश्च विमोचितः ॥
तथा रत्‍नपुरेशेन ह्यनिरुद्धभयान्नृप ॥१८॥
राष्ट्रान्सर्वानशूरांश्च विहाय तुरगोत्तमः ॥
ययौ प्राचीं दिशं राजन्बल्वलो यत्र दैत्यराट् ॥१९॥
सोऽपि दैत्यो हयस्यापि वार्तां श्रुत्वा च नारदात् ॥
यज्ञं शीघ्रं नाशयित्वा नैमिषाच्चाजगाम ह ॥२०॥
स्थितं त्रिवेण्यां सलिलं पिबंतं
     प्रयागतीर्थे क्रतुवाहनं च ॥
विलोक्य राजन्किल बल्वलाख्यो
     जग्राह शीघ्रं ह्यगणय्य कृष्णम् ॥२१॥
तदैव वृष्णयः सर्वे दंडकं च व्यलोकयन् ॥
चार्मण्वतीं समुत्तीर्य चित्रकूटं समाययुः ॥२२॥
रामक्षेत्रे च दानानि कृत्वाश्वं चावलोकयन् ॥
तस्यापि पृष्ठतो लग्ना आजग्मुस्तीर्थवासवम् ॥२३॥
ददृशुस्तत्र तुरगं सपत्रं यदुसत्तमाः ॥
गृहीतं स्वबलाद्‌राजन्नसुरेण दुरात्मना ॥२४॥
ततस्ते बल्वलं दृष्ट्वा नीलांजनचयोपमम् ॥
योजनद्वयमुच्चांगमुग्रमंगारलोचनम् ॥२५॥
तप्तताम्रशिखाश्मश्रुदंष्ट्रोग्रभ्रुकुटीमुखम् ॥
ब्रह्मद्रुहं ललञ्जिह्वं गजायुतसमं बलम् ॥२६॥
तमूचुर्यादवा रोषात्स्फुरिताधरपल्लवाः ॥
कस्त्वं यज्ञपशुं नीत्वा ह्यस्माकं च क्व यास्यसि ॥२७॥
तस्मान्मोचय तं शीघ्रं न चेद्धन्मो रणे च त्वाम् ॥
इति श्रुत्वासुरश्चाह वचः शृणुत मे नराः ॥२८॥
बल्वल उवाच -
अहं तु बल्वलो दैत्यो देवानां दुःखदायकः ॥
यस्याग्रे मानुषाः सर्वे भवंति भयविह्वलाः ॥२९॥
इति श्रुत्वा च यदवो जघ्नुर्बाणैश्च बल्वलम् ॥
स हतस्तैश्च सहसा सहयोऽन्तर्दधे नृप ॥३०॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
बल्वलेन तुरगहरणं नाम पंचविशोऽध्यायः ॥२५॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP