श्रीगर्गसंहिता

अश्वमेधखण्डः - चतुर्विंशोऽध्यायः

अनिरुद्धस्य राजपुरविजयम् -


गर्ग उवाच -
इतीदं वचनं श्रुत्वानिरुद्धस्तु मुदान्वितः ॥
निवेश्य कृष्णपदयोः स्वमनः प्राह तं मुनिम् ॥१॥
गतः शत्रुश्च मे मोहस्त्वद्वाक्येनासिना विभो ॥
अद्य त्वं गच्छ कृष्णस्य पुरीं पुत्रेण संयुतः ॥२॥
तस्य वाक्यं समाकर्ण्य मुदा सांदीपनिर्मुनिः ॥
कृष्णदत्तेन पुत्रेण रथस्थो द्वारकां ययौ ॥३॥
स पुर्यां रामकृष्णाभ्यामादरेण निवासितः ॥
पूजितो यादवैः सर्वैर्भोजेंद्रेण विधानतः ॥४॥
अथ प्रद्युम्नतनयः श्यामकर्णं महोज्ज्वलम् ॥
स्वर्णशृङ्खलया बद्धे मुमोच विजयाय च ॥५॥
हयश्च शीघ्रं प्रव्रजन्नृपेन्द्र
     यशो ब्रुवान्‌ राजपुरे गतः सः ॥
यत्रानुशाल्वो नृपतिश्च राज्यं
     शाल्वस्य भ्राता कुरुते च नित्यम् ॥६॥
तत्र वै तुरगं प्राप्तमनुशाल्वो यदृच्छया ॥
गृहीत्वा वाचयामास तत्पत्रं च प्रहर्षितः ॥७॥
आभिप्रायं निरीक्ष्यैव तिरश्चीनेन चक्षुषा ॥
स्वसैनिकान्प्रत्युवाच रुषा प्रस्फुरिताधरः ॥८॥
दिष्ट्या दिष्ट्या शत्रवो मे सर्वे चात्र समागताः ॥
घातयिष्यामि तान्सर्वान्यैर्मे भ्राता च मारितः ॥९॥
इत्युक्त्वा सेनया युक्तो निश्चक्राम पुराद्बहिः ॥
अक्षौहिणीभिर्दशभिस्तृणीकृत्य तु यादवान् ॥१०॥
तदैव वृष्णयः सर्वे दृष्ट्वा सेनां समागताम् ॥
बाणवर्षां प्रमुंचंतीं मुमुचुस्ते शरांश्च वै ॥११॥
उभयोः सेनयोर्युद्धं ततः समभवन्मृधे ॥
खड्गैर्बाणैर्गदाभिश्च शक्तिभिर्भिंदिपालकैः ॥१२॥
पलायमानां स्वां सेनामनुशाल्वो महाबलः ॥
वारयित्वा नदन् युद्धे चाजगाम रथेन वै ॥१३॥
तमागतं विलोक्याथ दीप्तिमान्कृष्णनन्दनः ॥
तेन सार्द्धं रणं कर्त्तुं तदैव संमुखोऽभवत् ॥१४॥
दीप्तिमंतं रणे वीक्ष्य धनुषा दशभिः शरैः ॥
तताडामर्षितः सोऽपि द्विपं द्वीपी नखैरिव ॥१५॥
ताडितस्तैः शरौघैस्तु रुधिरोक्षितबाहुना ॥
नीत्वा शरासनं सद्यो बाणाञ्जग्राह रोषतः ॥१६॥
निधाय किल कोदंडे दश बाणान्मुमोच ह ॥
ते शरास्तच्छरीरं वै भित्वा राजन्बहिर्गताः ॥१७॥
यथा तृणगृहं राजन्सहसा पन्नगाशनाः ॥
तैर्बाणैर्निहतो युद्धेऽनुशाल्वो मूर्च्छितोऽभवत् ॥१८॥
तत्रागत्य हरेः पुत्रो भानुः सर्वान्‌ रिपूञ्छरैः ॥
नीहाराभ्रान्भानुरिव छिन्नभिन्नांश्चकार ह ॥२०॥
ततश्च दुद्रुवुः सर्वेऽनुशाल्वस्य तु सैनिकाः ॥
तदैव तस्य मंत्री वै प्रचण्डो ताम रोषतः ॥२१॥
शक्त्या जघान समरे सत्यभामात्मजं नृप ॥
भानोश्च हृदयं भित्त्वा सा विवेश महीतले ॥२२॥
स चापि मूर्च्छितो भूत्त्वा निपपात रथाद्‌रणे ॥
स एवं कौतुकं वीक्ष्य सांबस्तत्र रुषा ज्वलन् ॥२३॥
शीघ्रं गृहीत्वा कोदंडमाजगाम रथेन वै ॥
प्रचण्डस्य रथं सांबः सतुरंगं ससारथिम् ॥२४॥
सध्वजं शतबाणैश्च सर्वं चूर्णीचकार ह ॥
रथे भग्ने गदां नीत्वा प्रचण्डो रणदुर्मदः ॥२५॥
आजगाम रिपुं हंतुं पतंग इव पावकम् ॥
आगतं तं विलोक्याथ चन्द्रार्काकारवर्चसा ॥२६॥
शरेणैकेन सांबस्तु जहार तच्छिरो मृधे ॥
हाहाकारस्तदैवासीत्तत्सेनयां नृपेश्वर ॥२७॥
अथोत्थितोऽनुशाल्वस्तु मूर्च्छां त्यक्त्वा मुहूर्ततः ॥
ददर्श मंत्रिणं तत्र सांबेन निहतं मृधे ॥२८॥
निरीक्ष्य रथमारुह्य धन्वी खड्गी च दंशितः ॥
शिलीमुखैश्चतुर्भिश्च सांबस्य चतुरो हयान् ॥२९॥
द्वाभ्यां केतुं त्रिभिः सूतं पंचभिश्च शरासनम् ॥
त्रिंशद्‌भिश्च शरैर्यानं जघान समरे नृपः ॥३०॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
रथं चान्यं समारुह्य रेजे जांबवतीसुतः ॥३१॥
ततो गृहीत्वा कोदंडं शतबाणैरमर्षितः ॥
तताड स रिपुं युद्धे सर्पं पक्षैर्यथा विराट् ॥३२॥
यानस्तस्यापि भग्नोऽभूत्तुरंगाः पंचतां गताः ॥
सूतो मृत्युं गतो युद्धेऽनुशाल्वो मूर्च्छितोऽभवत् ॥३३॥
ततस्तत्सैनिकाः सर्वे गृध्रपक्षैः स्फुरत्प्रभैः ॥
आशीविषसमैर्बाणैः सांबं जघ्नू रुषान्विताः ॥३४॥
सांबमेकं रणे वीक्ष्य मधुः कृष्णसुतो रुषा ॥
पारावतसमेनापि हयेनागतवान्मृधे ॥३५॥
साकं सांबेन तान्सर्वान्निस्त्रिंशेन रिपून्खलान् ॥
प्रहरार्द्धेन राजेन्द्र मारयन्विचचार ह ॥३६॥
ततोऽनुशाल्व उत्थाय दृष्ट्वा स्वस्य पराजयम् ॥
सलिलेन शुचिर्भूत्वा हंतुं सर्वान्मनो दधे ॥३७॥
ब्रह्मास्त्रं संदधे रोषान्मयदैत्येन शिक्षितम् ॥
अजानंस्तस्य नाशं च संप्राप्ते प्राणसंकटे ॥३८॥
तस्यापि दारुणं तेजो त्रींल्लोकान्प्रदहन्महत् ॥
चचार ह्यंतरिक्षे च द्वादशादित्यसन्निभम् ॥३९॥
तत्तेजसा दुर्विषहेण सर्वे
     संदह्यमाना यदवश्च भीताः ॥
प्राद्युम्निपार्श्वं प्रययुर्ब्रुवन्तो
     रक्षस्व दुःखान्नृहरे महात्मन् ॥४०॥
ततः कृत्वाभयं राजन् वीरो रुक्मावतीसुतः ॥
ब्रह्मास्त्रेण तु ब्रह्मस्त्रं जहार प्रधने रुषा ॥४१॥
वह्न्यस्त्रं सोऽपि चिक्षेप वह्निना पूरितं नभः ॥
दह्यमाना च भूस्तत्र ज्वालाभिरिव खांडवम् ॥४२॥
ततोऽनिरुद्धो बलवान् वारुणास्त्रं पुनर्दधे ॥
प्रचंडमेघधाराभिर्वह्निः शीतलतां गतः ॥४३॥
मण्डूकाः कोकिलाश्चैव मयूराः सारसादयः ॥
प्रत्यनंदन्महामेघैर्वर्षां ज्ञात्वा पुनः पुनः ॥४४॥
ततोऽनुशाल्वो मायावी पवनास्त्रं समादधे ॥
दृष्ट्वानिरुद्धो युयुधे पर्वतास्त्रेण सर्वतः ॥४५॥
ततो भारसहस्राढ्यं नीत्वा सोऽपि गदां मृधे ॥
अनिरुद्धं शूरमणीं क्रुद्धो वचनमब्रवीत् ॥४६॥
त्वत्सैन्ये नास्ति राजेंद्र गदायुद्धविशारदाः ॥
यदि चास्ति तर्हि मह्यं तं तु शीघ्रं प्रदर्शय ॥४७॥
इति तद्वाक्यमाकर्ण्य गदाधारी गदो महान् ॥
उवाच चाग्रतो भूत्वानिरुद्धस्य प्रपश्यतः ॥४८॥
अत्र वै बहवः संति सर्वशस्त्रविशारदाः ॥
मानं मा कुरु दैत्येंद्र त्वमेकाकी रणेऽसि हि ॥४९॥
न मन्यसे त्वं मद्वाक्यं मया साकं रणेऽसुर ॥
कुरु पूर्वं गदायुद्धं ततोऽन्यान्द्रष्टुमर्हसि ॥५०॥
इत्युक्त्वा स गदां नीत्वा लक्षभारमयीं दृढाम् ॥
तथानुशाल्वं जघ्ने तु मूर्ध्नि वक्षस्थले नृप ॥५१॥
अनुशाल्वस्तु गदया जघान समरे गदम् ॥
ततोऽन्योन्यं गदाभ्यां च जघ्नतुः क्रोधमूर्च्छितौ ॥५२॥
ततो गदः समुत्थाप्यानुशाल्वं गगनेऽक्षिपत् ॥
भ्रामयित्वा शतगुणं निपपात महीतले ॥५३॥
ततोऽनुशाल्व उत्थाय गृहीत्वा रोहिणीसुतम् ॥
भूमौ ममर्द राजेंद्र तदद्‌भुतमिवाभवत् ॥५४॥
गदो गजं गृहीत्वैकमनुशाल्वोपरि चाक्षिपत् ॥
तमायांतं गजं नीत्वा चिक्षेप स बलानुजे ॥५५॥
जानुभिर्मुष्टिभिर्घोरैः प्रहारैस्तौ च जघ्नतुः ॥
मर्दितौ तावुभौ मह्यां पतितौ मूर्च्छनां गतौ ॥५६॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
राजपुरविजयो नाम चतुर्विंशोऽध्यायः ॥२४॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP