श्रीगर्गसंहिता

अश्वमेधखण्डः - अष्टादशोऽध्यायः

अनिरुद्धविजये विमानागमनम् -


गर्ग उवाच -
अथ मुक्तोऽनिरुद्धेन क्रतोर्वाजी पयःप्रभः ॥
सिंहलद्वीपनिकटे विचचार यदृच्छया ॥१॥
तृषार्तस्तुरगस्तत्र दृष्ट्वा वापीं जलान्विताम् ॥
वृक्षैश्च बहुभिर्गुप्तां दृष्ट्वा तोयं पपौ स्वयम् ॥२॥
वाप्यामश्वं विलोक्याथ भीषणो नाम राक्षसः ॥
वाचयित्वा च तत्पत्रं जग्राह तुरगं मुदा ॥३॥
तदैव यादवाः सर्वे तं पश्यन्तः समागताः ॥
राक्षसेन गृहीतं वै ददृशुः क्रतुवाजिनम् ॥४॥
ततस्ते कौणपं प्राहुर्यादवा युद्धशालिनः ॥
यादवा ऊचुः -
कस्त्वं श्रीयादवेंद्रस्य ह्युग्रसेनस्य भूपतेः ॥५॥
सिंहस्य वस्तु क्रोष्टेव हयं नीत्वा क्व यास्यसि ॥
तिष्ठ तिष्ठ रणं धूर्त अस्माभिः कुरु धैर्यतः ॥६॥
तुरगं मोचयिष्यामो वधिष्यामो रणे च त्वाम् ॥
शकुनिर्भ्रातृसहितो नरको बाण एव च ॥७॥
कलंकश्चैव राजान एतेऽस्माभिर्विनाशिताः ॥
तस्मान्न गणयिष्यामो युद्धे त्वां च तृणोपमम् ॥८॥
गच्छ गच्छ हयं दत्त्वा घातयामो न चेत्खलु ॥
तेषां भाषितमाकर्ण्य भीषणः सुरभीषणः ॥९॥
शूली गदाधरः खड्गी तान्प्रत्याह रुषान्वितः ॥
भीषण उवाच -
के यूयं प्रतियोद्धारो मम भक्ष्या नराः स्मृताः ॥१०॥
संमुखे राक्षसानां ते किं करिष्यंति पौरुषम् ॥
यदा विश्वजितं यज्ञं यादवेन कृतं पुरा ॥११॥
तदाहं कौणपान्नेतुं लङ्कायां च गतः किल ॥
यदाहं राक्षासान्नीत्वा स्वपुर्यां च समागतः ॥१२॥
तदाऽशृणोन्नारदाद्वै यज्ञं पूर्णं बभूव ह ॥
पुनर्वै हयमेधस्य प्रयासं च वृथा कृतम् ॥१३॥
युष्मत्सु मद्‍गृहीतं च तुरगं मोचयंति के ॥
तस्माद्धयाशां त्यक्त्वा तु यूयं गच्छत गच्छत ॥१४॥
न चेत्सर्वान्प्रभक्ष्यंति चतुर्लक्षा ममानुगाः ॥
अत्र स्थानात्समुद्रे तु पुरी द्वादशयोजने ॥१५॥
उपलंका च नाम्ना वै वर्त्तते मम निर्मिता ॥
निशाचरगणैर्युक्ता सर्पैर्भोगवती यथा ॥१६॥
इत्युक्त्वा स हयं नीत्वा सहसा स्वपुरीं ययौ ॥
आकाशमार्गेण नृप शोकं चक्रुश्च यादवाः ॥१७॥
अनिरुद्धस्ततः प्राह भोजराजतुरंगमम् ॥
निशाचरेण नीतं वै मोचयामो वयं कथम् ॥१८॥
इति श्रुत्वा च सांबाद्याः प्रत्याहुर्नयकोविदाः ॥
शोकं मा कुरु ते राजन्स्थितेष्वस्मासु किं भयम् ॥१९॥
हयाः सपक्षास्त्वत्सैन्ये विमानानि शरास्तथा ॥
शूराः संति महावीरा लोकद्वयजिगीषवः ॥२०॥
अश्वैर्वयं गमिष्यामः सेतुं कृत्वाथवा शरैः ॥
विष्णुदत्तेन वा राजञ्छत्रूणां नगरीं प्रति ॥२१॥
सर्वेषां वचनं श्रुत्वानिरुद्धो धन्विनां वरः ॥
उद्धवं मंत्रिणां श्रेष्ठं समाहूयेदमब्रवीत् ॥२२॥
अनिरुद्ध उवाच -
किं करिष्याम्यहं मंत्रिञ्छ्यामकर्णे गते सति ॥
त्वच्छासने भगवतः प्रेरितोऽहं वदस्व तत् ॥२३॥
मत्पितृभ्रातरः सर्वे उपायं प्रवदंति हि ॥
यदि दास्यसि त्वं चाज्ञां तदा सर्वं करोम्यहम् ॥२४॥
उद्धवस्तद्वचः श्रुत्वा प्रत्युवाच विलज्जितः ॥
अहं कृष्णस्य पुत्राणां पौत्राणां च विशेषतः ॥२५॥
सदा दासोऽस्मि नितरामाज्ञावर्ती वदामि किम् ॥
यदिच्छा तव चैतेषां कुरु सा च भविष्यति ॥२६॥
ततः प्राहानिरद्धस्तु यास्येऽहं दैत्यपत्तनम् ॥
अक्षौहिणीदशयुतो विष्णुदत्तेन यादवाः ॥२७॥
सारणः कृतवर्मा च युयुधानश्च सात्यकिः ॥
अक्रूरसहिता एते सेनां रक्षंतु चात्र हि ॥२८॥
इत्युक्त्वा स विमानं त्वारुरोह सह सेनया ॥
अष्टादशैर्हरेः पुत्रैरुद्धवेन गदेन च ॥२९॥
रेजे ततो भास्करबिंबतुल्यं
     धनेशयानं स्वबलेन नीतम् ॥
श्रीकृष्णपौत्रेण यदुप्रवीरै-
     र्यथा च रामेण पुरा कपीन्द्रैः ॥३०॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
विमानारोहणं नामाष्टादशोऽध्यायः ॥१८॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP