श्रीगर्गसंहिता

अश्वमेधखण्डः - सप्तदशोऽध्यायः

स्त्रीराज्यविजयम् -


गर्ग उवाच -
अथानिरुद्धस्य हयो विमुक्तो
     यदुप्रवीरैश्च महोज्ज्वलांगः ॥
उशीनराद्वीरवरान्प्रपश्य-
     न्विनिर्गतः सोऽपि शनैः शनैश्च ॥१॥
एवं स विचरन्‌ राजन्‌ राष्ट्रे राष्ट्रे हयोत्तमः ॥
नृपैश्च बहुभी राजन्गृहीतश्च विमोचितः ॥२॥
इंद्रनीलं जितं श्रुत्वा तथा हेमांगदं नृपम् ॥
नृपाश्चान्ये मण्डलेशाः प्राप्तं न जगृहुर्हयम् ॥३॥
वीरहीनान्बहून्देशान्विलोक्य तुरगोत्तमः ॥
यदृच्छया नृपश्रेष्ठ स्त्रीराज्यं तु जगाम ह ॥४॥
राजन्यकन्या काचिद्वै सुरूपा नाम सुन्दरी ॥
राज्यं सा कुरुते स्वैरं राजा तत्र न जीवति ॥५॥
तत्र देशे स्त्रियं प्राप्य यस्तां भजति कामतः ॥
ऊर्ध्वं संवत्सराद्‌राजन्न कदापि स जीवति ॥६॥
तत्पुरे तुरगो गत्वा ह्युद्याने पुष्पसंकुले ॥
लवंगलतिकवृन्दे स्वेलागंधसमाकुले ॥७॥
पक्षिभिर्मधुपैर्घुष्टे स्थितोऽभूच्चिंचिणीतले ॥
ददृशुः स्त्रीजनाः सर्वे श्यामकर्णं मनोहरम् ॥८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा द्र्ष्टुं समागताः ॥
हयं दृष्ट्वा स्त्रियो गत्वा स्वामिनीमवदन्नृप ॥९॥
श्रुत्वा राज्ञी रथे स्थित्वा छत्रचामरवीजिता ॥
नारीकोटिसमायुक्ता हयं द्र्ष्टुं समाययौ ॥१०॥
अश्वं दृष्ट्वा च तत्पत्रं वाचयित्वा रुषान्विता ॥
पुनः पुरे हयं बद्ध्वा युद्धं कर्तुं मनो दधे ॥११॥
काश्चिन्नार्यो गजारूढा रथारूढाः समाययुः ॥
हयारूढास्तथा काश्चिद्दंशिताः शस्त्रसंयुताः ॥१२॥
ताः सर्वा कुपिता वीक्ष्य शस्त्रवर्षं प्रकुर्वतीः ॥
आगतो ह्यनिरुद्धस्तु हेमांगदमुवाच ह ॥१३॥
अनिरुद्ध उवाच -
राजन्नेताश्च का नार्यो युद्धं कर्तुं समागताः ॥
विस्तरेणापि कथय येन मे स्याच्छिवं त्विह ॥१४॥
हेमांगद उवाच -
अत्र देशे च कुरुते राज्ञी राज्यं नृपेश्वर ॥
न जीवति नृपो राज्ये तस्मात्स्त्रीभिः समन्विता ॥१५॥
हयं गृहीत्वा ते सा च संग्रामं कर्तुमागता ॥
इति श्रुत्वानिरुद्धस्तु राजानमिदमब्रवीत् ॥१६॥
अनिरुद्ध उवाच -
कस्मात्स्त्री कुरुते राज्यं राजा कस्मान्न जीवति ॥
एतां विस्तरतो वार्तां यत्त्वं जानासि तद्वद ॥१७॥
इति तद्वाक्यमाकर्ण्य राजा हेमांगदोऽब्रवीत् ॥
संस्मरन् याज्ञवल्क्यस्य स्वगुरोश्च पदांबुजम् ॥१८॥
यादवेंद्र पुरावृत्तं याज्ञवल्क्यमुखाच्छ्रुतम् ॥
चंपकायां मया पूर्वं कथयिष्यामि तच्छृणु ॥१९॥
पुरा कृतयुगे राजन्नत्र देशे बभूव ह ॥
नारीपाल इति ख्यातो राजा तु मंडलेश्वरः ॥ ॥२०॥
तस्यासीन्मोहिनी भार्या सिंहलद्वीपसंभवा ॥
पद्मिनी हंसगमना पूर्णचंद्रनिभानना ॥२१॥
तस्याः सौंदर्यजलधौ मग्नो भूत्वा महीपतिः ॥
अहर्निशमविज्ञाय रेमे तां शतवत्सरैः ॥२२॥
न चाकार प्रजानां वै न्यायं कामेन मोहितः ॥
तदा सर्वाः प्रजा राजन्बभूवुर्दुःखपीडिताः ॥२३॥
प्रजानां कदनं वीक्ष्य मोहिनी नृपवल्लभा ॥
न्यायं चकार सर्वासां स्वशक्त्या यादवेश्वर ॥२४॥
एकदा तं नृपं द्र्ष्टुमष्टावक्रो महामुनिः ॥
आजगाम नृपस्यापि प्राप्तश्चांतःपुरे किल ॥२५॥
तमागतं मुनिं दृष्ट्वा नृपः स्त्रीलग्नमानसः ॥
विजहास कुरुपोऽयं कस्मात्प्राप्त इति ब्रुवन् ॥२६॥
ततो रुषा मुनिः प्राह शृणु मूढ नपुंसक ॥
मुनीनां स्त्रीजितो भूत्वापमानं किं करिष्यसि ॥२७॥
त्वद्देशे च सदा राज्यं नार्यः कुर्वन्तु नित्यशः ॥
न जीवति नृपो राज्ये तस्माद्‌गच्छ त्वमालयात् ॥२८॥
अत्र देशे स्त्रियं प्राप्य यस्तां भजति नित्यशः ॥
स तु संवत्सरांते वै न जीवति न संशयः ॥२९॥
गर्ग उवाच -
इत्युक्त्वा स्वाश्रमं सोऽपि प्रययौ मुनिसत्तमः ॥
गते मुनौ नृपस्तत्र क्लीबोऽभूत्तस्य शापतः ॥३०॥
सर्वं मुनिकृतं ज्ञात्वा गर्हयामास भूपतिः ॥
आत्मानमात्मना चैव स दीनो दुःखदुःखितः ॥३१॥
नारीपाल उवाच -
किं कृतं मंदभाग्येन स्त्रीजितेन मया ह्यहो ॥
मुनीनां पूजनं त्यक्त्वा तथा निरययायिनम् ॥३२॥
अद्य मां पापिनं दुष्टं यमदूतैर्विलोकितम् ॥
दृष्ट्वा वैतरणीयोग्यं कः प्रतापात्प्रमोक्ष्यति ॥३३॥
इत्युक्त्वा स गृहं त्यक्त्वा विचचार वने वने ॥
भजन्विमुक्तिदं विष्णुं लेभे चांते हरेः पदम् ॥३४॥
अत्र देशे च राजानो राज्यं शापभयान्विताः ॥
न करिष्यंति नार्य्यश्च करिष्यंति न संशयः ॥३५॥
श्रीगर्ग उवाच -
एवं तयोः कथतोर्नार्यः क्रुद्धाः समागताः ॥
व्यमुंचन्धनुषैर्बाणान्पुंश्चल्यः क्रोधपूरिताः ॥३६॥
ताः स्त्रीर्वीक्ष्यानिरुद्धस्तु विस्मितोऽभुद्‌भयान्वितः ॥
कथं करिष्ये युद्धं वै स्त्रीभिः सार्द्धमिति ब्रुवन् ॥३७॥
तदैव तस्य निकटे सुरूपा मंडलेश्वरी ॥
स्त्रीभिः प्राप्ता चानिरुद्धं दृष्ट्वा वचनमब्रवीत् ॥३८॥
राज्ञ्युवाच
तिष्ठ तिष्ठ रणे वीर कुरु युद्धं मया सह ॥
सेनायुक्तस्तथापि त्वं किं शोचसि वृथा रणे ॥३९॥
अहं त्वां मानिनं जित्वा प्रधने वृष्णिभिर्युतम् ॥
क्रीडामृगं करिष्यामि मदनज्वरपीडिता ॥४०॥
इति तस्या वचः श्रुत्वानिरुद्धो भयविह्वलः ॥
प्रत्याह दीनया वाचा सर्वविन्मंडलेश्वरीम् ॥४१॥
तुरगं कृष्णचंद्रस्य सर्वदेवदेवेश्वरस्य च ॥
मह्यं प्रयच्छ हे राज्ञि क्रतोरर्थे तु स्वेच्छया ॥४२॥
नाहं करिष्ये युद्धं वै त्वया सार्द्धं वरानने ॥
गच्छ द्वारावतीं तस्माद्दर्शनार्थं हरेश्च वै ॥४३॥
यन्नामस्मरणाद्‌भद्रे नरो याति कृतार्थताम् ॥
तस्य वै दर्शनस्यापि फलं किं कथयामि ते ॥४४॥
इति सा चानिरुद्धेन बोधिता निपुणेन वै ॥
पूर्ववार्तां स्मरन्त्याह ब्रह्माणं मोहिनी यथा ॥४५॥
सुरूपोवाच
अहं पुराभवं देव स्वर्वेश्या पूर्वजन्मनि ॥
मोहिनी नाम विख्याता कंजांगा कंजलोचना ॥४६॥
एकदा हंसयानेन व्रजंतं पद्मसंभवम् ॥
दृष्ट्वा तन्निकटे गत्वा भज मामित्युवाच ह ॥४७॥
यदा न जगृहे ब्रह्मा शापं दत्वा तदा ह्यहम् ॥
गत्वा ककुद्मतीतीरे चकार दुष्करं तपः ॥४८॥
तपसा तोषितो ब्रह्मा तपोऽन्ते च समागतः ॥
तपस्विनीं प्रसन्नात्मा वरं ब्रूहीत्युवाच ह ॥४९॥
तच्छ्रुत्वा मोहिनी प्राह देवदेव नमोऽस्तु ते ॥
वरं वरय लोकेश दीनां मां तपसि स्थिताम् ॥५०॥
यदि मां त्वं न गृह्णासि दुःखितां शरणागताम् ॥
तदा रोषेण त्यक्ष्यामि तपसा च कृशां तनुम् ॥५१॥
इति श्रुत्वा विधिः प्राह शोकं मा कुरु भामिनि ॥
अन्यजन्मनि ते भद्रे भविष्यति मनोरथः ॥ ५२॥
अहं पौत्रो भविष्यामि द्वारकायां हरेश्च वै ॥
सुवर्णश्चानिरुद्धाख्यः स्त्रीराज्ये त्वं भविष्यसि ॥५३॥
ततो गृह्णामि त्वां भद्रे नानृतं वचनं मम ॥
इति श्रुत्वा च तद्वाक्यं जाताहं पृथिवीतले ॥५४॥
ब्रह्मा त्वं यादवश्रेष्ठ मदर्थे च समागतः ॥
गर्ग उवाच -
वाक्यं तस्याः समाकर्ण्य यादवा विस्मयं ययुः ॥५५॥
अनिरुद्धस्तु धर्मात्मा प्रत्याह विमलं वचः ॥
अनिरुद्ध उवाच -
गच्छ श्रीद्वारकां भद्रे तत्र गृह्णामि त्वां प्रियाम् ॥
अद्य यास्यामि तुरगं राजन्येभ्यश्च पालयन् ॥५६॥
ततः सा तस्य वाक्येन प्रमिलां मंत्रिणीं वराम् ॥
राज्ये कृत्वा तुरंगं च दत्त्वा द्वारावतीं ययौ ॥५७॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
स्त्रीराज्यविजयो नाम सप्तदशोऽध्यायः ॥१७॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP