श्रीगर्गसंहिता

अश्वमेधखण्डः - षोडशोऽध्यायः

चम्पावतीपुरविजयम् -


गर्ग उवाच -
अथ मुक्तस्तु तुरगो देशान्सर्वान्विलोकयन् ॥
उशीनरे च विषये प्राप्तश्चंपावतीं पुरीम् ॥१॥
राज्ञा हेमांगदेनापि पालितां दुर्गमंडिताम् ॥
चातुर्वर्ण्यजनाकीर्णां प्रासादैः परिवेष्टिताम् ॥२॥
यत्र हेमांगदो राजा पुत्रेण हंसकेतुना ॥
राज्यं करोति सुकृतिर्महाशूरजनैर्वृतः ॥३॥
गृहीतस्तेन तुरगोऽनिरुद्धस्य महात्मनः ॥
स्वपुर्यां लीलया राजन् यादवानगणय्य च ॥४॥
बद्ध्वा हेमांगदो राजा स्वर्णदाम्ना च वाजिनम् ॥
द्वारेषु च कपाटादीन्दत्त्वा क्रोधेन पूरितः ॥५॥
यादवानां विनाशाय दुर्गभित्तिषु मानद ॥
शतघ्न्यश्च द्विलक्षाणि धृत्वा युद्धाय वै मनः ॥६॥
ततः प्राप्तोऽनिरुद्धस्तु ससैन्योऽश्वं विलोकयन् ॥
चंपावत्या ह्युपवने शिबिरोऽभूच्च तस्य वै ॥७॥
अथ प्रद्युम्नतनयस्तत्रादृष्ट्वा तुरंगमम् ॥
उद्धवं कृष्णचन्द्रस्य सखायमिदमब्रवीत् ॥८॥
अनिरुद्ध उवाच -
कस्येयं नगरी मन्त्रीन्केन नीतो हयो मम ॥
त्वं जानासि महाबुद्धे कथयस्व विचार्य च ॥९॥
इत्थं निशम्य तद्वाक्यमुद्धवो बुद्धिसत्तमः ॥
ज्ञात्वा वार्तां च शत्रूणामिदं वचनमब्रवीत् ॥१०॥
उद्धव उवाच -
इयं चंपावती नाम्ना नगरी द्वारकेश्वर ॥
हंसध्वजेन पुत्रेण यत्र हेमांगदो नृपः ॥११॥
करोति राज्यं तेनापि गृहीतस्तुरगस्तव ॥
एष राजा महाशूरो यज्ञस्याश्वं न दास्यति ॥१२॥
पुर्यां स्थित्वा भुशुण्डीभिर्बहु युद्धं करिष्यति ॥
न निर्गमिष्यति बहिर्युद्धाय स नृपः पुरात् ॥१३॥
तस्मात्तवेच्छा नृपते यथा भूयात्तथा कुरु ॥
इति तद्वचनं श्रुत्वा स उवाच रुषान्वितः ॥१४॥
अनिरुद्ध उवाच -
अहं सर्वान्हनिष्यामि दुर्गयुक्तान्बहून्द्विषः ॥
लौहशक्तिसमैर्बाणैः प्रहारार्द्धेन सत्तम ॥१५॥
इत्थं तद्वाक्यमाकर्ण्य यादवः क्रोधपूरितः ॥
पुरीं हंतुं ययौ शीघ्रं मुमोचेषूंश्च कोटिशः ॥१६॥
अंधकानां च बाणौघैः पुर्यां कोलाहलोऽप्यभूत् ॥
शत्रवः शंकिताः सर्वे वीरा हंसध्वजादयः ॥१७॥
ततो नृपस्य वचनाद्वीरास्ते साहसेन वै ॥
दुर्गभित्तिष्वथारुह्य यादवान्ददृशुर्बहिः ॥१८॥
दृष्ट्वा ते च भयं प्रापुः सन्नद्धान् यदुपुंगवान् ॥
शस्त्रवर्षं प्रकुर्वन्तः सर्वतः परिमंडितान् ॥१९॥
तेभ्यः शतघ्नीर्व्यसृजंश्चतुर्दिक्षु च वह्निना ॥
सर्वानेव हनिष्यामो न दास्यामो हयं वयम् ॥२०॥
अथानिरुद्धसेनायां हाहाकारो महानभूत् ॥
विह्वला वृष्णयः सर्वे शतघ्नीभिः प्रताडिताः ॥२१॥
संछिन्नभिन्नसर्वांगाः केचिद्युद्धात्पलायिताः ॥
केचिन्मूर्छां गता राजन्केचिद्वै निधनं गताः ॥२२॥
केचित्प्रज्वलिता युद्धे भस्मीभूतास्तथापरे ॥
केचिद्वै पादहीनाश्च करहीना विबाहवः ॥२३॥
निःशस्त्राः पतिताश्चैव केचिज्ज्वलितकंचुका: ॥
हाहेति वादिनः केचिद्‌रामकृष्णेति वादिनः ॥२४॥
शतघ्नीभिर्विशीर्णाङ्गा गजाः केचिन्मृधाङ्गणे ॥
दुद्रुवन्तश्च पतिता मूर्छिता निधनं गताः ॥२५॥
उत्पतन्तो दुद्रुवंतश्छिन्नदेहास्तुरङ्गमाः ॥
मृधे मृत्युं गताः केचिद्विशीर्णाः पतिता रथाः ॥२६॥
अग्निना पूरितं सर्वं यदुसैन्यं भयानकम् ॥
दृष्ट्वानिरुद्धः सङ्ग्रामे शुशोच संस्मरन्हरिम् ॥२७॥
ततः कृष्णस्य कृपया बुद्धिं प्राप्त उषापतिः ॥
प्रतिशार्ङ्गं गृहीत्वा वै निषङ्गाच्छरमेव च ॥२८॥
नीत्वा निधाय कोदण्डे पर्जन्यास्त्रं समादधे ॥२९॥
बाणे प्रमुक्ते सति वै बलाहकः
     समागतो वै यदुसैन्यमण्डले ॥
जलं ववर्षाथ यदून्प्रपालय-
     न्कृपीटयोनिं किल शांतयन्नृप ॥३०॥
ततस्तेऽग्निभयान्मुक्ता शीतलाङ्गाश्च वृष्णयः ॥
श्लाघां कृत्वानिरुद्धस्य युद्धं कर्तुं समुत्थिताः ॥३१॥
तान्प्रत्याहानिरुद्धस्तु ह्यहं यास्ये पुरीं प्रति ॥
अर्वेण पक्षयुक्तेनैको विजेतुं द्विषां पतिम् ॥३२॥
गर्ग उवाच -
इति श्रुत्वा वचस्तस्य सांबाद्याः कृष्णनन्दनाः ॥
प्रोचुः सर्वे च तं राजन्नष्टादश महारथाः ॥३३॥
हरिपुत्रा उचुः
गंतुं नार्हसि त्वं राजञ्शत्रूणां नगरीं प्रति ॥
प्रयास्यामो वयं सर्वे विजेतुं चाततायिनम् ॥३४॥
इत्युक्त्वा कुपिताः सर्वे सहसाऽऽरुह्य घोटकान् ॥
सपक्षान्धन्विनो वीरा दंशिता युद्धकोविदाः ॥३५॥
उल्लंघयित्वा प्राकारं पुर्यां प्राप्ता हरेः सुताः ॥
गत्वा जघ्नुर्द्विषः सर्वान्बाणैरुरगसन्निभैः ॥३६॥
ते शत्रवस्तु सहसा नृपस्य वचनान्नृप ॥
युद्धार्थे धन्विनः क्रुद्धा आगता एककोटयः ॥३७॥
तानागतान्बहून्वीरान्कुपितानुद्यतायुधान् ॥
सांबो मधुर्बृहद्बाहुश्चित्रभानुर्वृकोऽरुणः ॥३८॥
सङ्ग्रामजित्सुमित्रश्च दीप्तिमान्भानुरेव च ॥
वेदबाहुः पुषकरश्च श्रुतदेवः सुनंदनः ॥३९॥
विरूपश्चित्रबाहुश्च न्यग्रोधश्च कविस्तथा ॥
एते कृष्णसुताः सर्वे जघ्नुर्बाणैर्निरीक्ष्य च ॥४०॥
ततः पुर्यां च वीराणां रुधिरेण भयंकरा ॥
नदी बभूव राजेंद्र पुरद्वाराद्विनिःसृता॥४१॥
तामागतां नदीं घोरामनिरुद्धस्तु शंकितः ॥
प्रत्युवाच रुषा राजन्मुखेन परिशुष्यता ॥४२॥
मत्पितृभ्रातरः सर्वे रणे किं निहता अहो ॥
तस्मादस्मान्प्लावयितुं नदी घोरा समागता ॥४३॥
एतामग्निमयैर्बाणैः शोषयिष्ये न संशयः ॥
पातयिष्यामि नगरीमहं गिरिसमैर्गजैः ॥४४॥
ततोऽनिरुद्धवचनाद्धस्तिपैर्लक्षहस्तिनः ॥
महोच्चाश्च मदोन्मत्ताः कज्जलाद्रिसमप्रभाः ॥४५॥
करैर्गुल्मान्समुत्पाट्य क्षेपयंतश्च तत्पुरे ॥
कंपयंतो भुवं पादैः पुरोपरि समागताः ॥४६॥
गत्वा ते कुंजराः सर्वे हेमाङ्गदपुरीं रुषा ॥
सर्वतः पातयामासुः शीघ्रं कुम्भस्थलैर्नृप ॥४७॥
कपाटाः पतिताः सर्वे द्वाराणां दृढशृङ्खलाः ॥
दुर्गस्य पातिताः पुर्या गजैः पाषाणभित्तयः ॥४८॥
पातयित्वा कपाटादीन्दुर्गं चैव हरेर्गजाः ॥
पुर्यां प्राप्ता नृपश्रेष्ठ रिपुगेहान्न्यपातयन् ॥४९॥
हाहाकारो महानासीच्चंपावत्यां तदैव हि ॥
भयभीता जनाः सर्वे नृपाद्या विस्मयं गताः ॥५०॥
तदा तु धर्षितो राजा स्रजा बद्ध्वा करद्वयम् ॥
सम्मुखे हरिपुत्राणामाययौ पाहि मां ब्रुवन् ॥५१॥
तमागतं नृपं वीक्ष्य रणे सांबस्तु धर्मवित् ॥
भ्रातॄन्निवारयामास दीनहन्तॄंश्च हस्तिपान् ॥५२॥
निवारयित्वा सर्वान्स राजानमिदमब्रवीत् ॥
सांब उवाच -
आगच्छ राजन्भद्रं ते नीत्वा मम तुरङ्गमम् ॥५३॥
गच्छानिरुद्धनिकटे ततः श्रेयो भविष्यति ॥
इति श्रुत्वा स तद्वाक्यं नीत्वा यज्ञतुरङ्गमम् ॥
हरिपुत्रैर्युतो राजा निश्चक्राम पुराद्बहिः ॥५४॥
गत्वानिरुद्धनिकटे साकं पुत्रेण भूपतिः ॥
हयं निवेदयामास स्वर्णकोटिं च मानदः ॥५५॥
अनिरुद्धस्तु रजेन्द्र नीतिविद्दीनवत्सलः ॥
तत्करौ मालया बद्धौ मोचयित्वेदमब्रवीत् ॥५६॥
मया सह नृपश्रेष्ठ पालयैनं तुरङ्गमम् ॥
राजन्येभ्यश्च शत्रुभ्यः कृष्णस्य प्रीतिहेतवे ॥५७॥
श्रुत्वानिरुद्धस्य वचो महात्मा
     हेमाङ्गदो बुद्धिमतां वरिष्ठः ॥
दत्वा च राज्यं स्वसुताय प्रीत्या
     गंतुं मनस्तत्र चकार तेन ॥५८॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
चंपावतीविजयवर्णनं नाम षोडशोऽध्यायः ॥१६॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP