श्रीगर्गसंहिता

अश्वमेधखण्डः - पञ्चदशोऽध्यायः

अनिरुद्ध-युद्धसज्जा -


श्रीगर्ग उवाच -
अथेन्द्रनीलस्य सुतो महाबलो
     ह्यक्षौहिणीभिस्त्रिभिरेव संयुतः ॥
यदून्विजेतुं स्वपुराद्विनिर्गतो
     पितुश्च वाक्याद्‌बहुरोषपूरितः ॥१॥
तमागतं वीक्ष्य नृपस्य पुत्रं
     श्रीकृष्णपौत्रस्तु धनुर्गृहीत्वा ॥
युद्धं प्रकर्तुं प्रययौ स एको
     वृत्रं विजेतुं च यथा विडौजाः ॥२॥
गत्वानिरुद्धः संग्रामे शत्रूणामुपरि त्वरम् ॥
मुमोच बाणपटलान्सर्वेषां त्रासयन्मनः ॥३॥
ततश्च दुद्रुवुः सर्वे नीलकेतोश्च सैनिकाः ॥
रणाद्‌भीताः स्वशंखं च दघ्मौ प्रद्युम्ननंदनः ॥४॥
पलायमानां स्वां सेनां दृष्ट्वा नीलध्वजो बली ॥
चापं टंकारयञ्छीघ्रमाययौ रणमंडले ॥५॥
सेनां स्वां नोदयामास पुनः सोऽपि धनुर्ज्यया ॥
द्विषां मध्येऽनिरुद्धं तं दृष्ट्वा नीलध्वजो बली ॥६॥
धनुष्टंकारयन्प्राप्तो ह्यक्षौहिण्यावृतो रुषा ॥
विंशद्बाणैर्नीलकेतुं पंचभिः पंचभी रथान् ॥७॥
अताडयद्‌गजांश्चैव तथा सतुरगान्नरान् ॥
भूम्यां निपेतुस्ते सर्वे सांबबाणैः प्रताडिताः ॥८॥
गजोपरि गजाः केचिद्‌रथोपरि रथास्तथा ॥
हयोपरि हयाश्चैव नरोपरि नराश्च वै ॥९॥
तत्क्षणेनाप्यभूद्‍भूमी रुधिरौघपरिप्लुता ॥
पतितैश्छिन्नभिन्नैश्च द्विपाश्च रथपत्तिभिः ॥१०॥
ततः प्रभग्नं स्वबलं विलोक्य
     नीलध्वजो भूपधनुर्गृहीत्वा ॥
बाणान्विमुंचन्किल यादवानां
     जेतुं मनो यस्य स चागमद्वै ॥११॥
स गत्वा प्रधने राजन्दशबाणै रुषान्वितः ॥
चापं सांबस्य चिच्छेद प्रेम दुर्वचनैरिव ॥१२॥
चतुर्भिश्चतुरो वाहान्द्वाभ्यां केतुं रथं शतैः ॥
एकेन जघ्ने सूतं स इन्द्रनीलसुतो बली ॥१३॥
एवं कृत्वा च विरथं सांबं वै नृपनंदनः ॥
पुनः समागतां तस्य सेनां बाणैर्जघान ह ॥१४॥
अथ नीलध्वजस्यापि सेना सर्वा समागता ।
यादवानां बलं संख्ये जघान निशितैः शरैः ॥ १५ ॥
ततः समभवद्युद्धमुभयोः सेनयोर्मृधे ॥
निस्त्रिंशैः परिघैर्बाणैर्गदापरुषशक्तिभिः ॥१६॥
सांबोऽन्यं रथमारुह्य सज्जं कृत्वा धनुर्दृढम् ॥
तद्‌रथं चूर्णयामास शतबाणै रणे बली ॥१७॥
स च्छिन्नधन्वा विरथो गदामुद्यम्य वेगवान् ॥
अभ्यधावद्‌रणे क्रुद्धो सांबस्योपरि मानद ॥१८॥
तदैव सांबं सहसावतीर्याथ रथाद्‌गदाम् ॥
नीत्वा नीलध्वजस्यापि संमुखे गतवान् रुषा ॥१९॥
तताड गदया सांबमागतं वीक्ष्य भूपजः ॥
न चचाल प्रहारेण मालाहतगजो यथा ॥२०॥
ततः सांबस्तु गदया तताड नृपनन्दनम् ॥
तत्प्रहारेण पतितो मूर्छां प्राप्तो रणे तु सः ॥२१॥
सैनिका दुद्रुवुस्तस्य हाहाकारं समुच्चरन् ॥
ततो युद्धाय संक्रुद्ध इन्द्रनीलः समागतः ॥२२॥
साकमक्षौहिणीभ्यां च विमुंचन्धनुषा शरान् ॥
तमागतं विलोक्याथ मधुः कृष्णसुतो बलो ॥२३॥
धानुष्को विरथं चक्र इन्द्रनीलं शिलीमुखैः ॥
सेनां समागतां तस्य युयुधानोऽर्जुनप्रियः ॥२४॥
शरैर्विव्याध समरे मैत्रीं दुर्वचनैरिव ॥
ततश्च यादवैर्मुक्तो नृपो माहिष्मतीं ययौ ॥२५॥
गत्वा पुर्यां च दुःखार्तः सस्मार स्वपतिं शिवम् ॥
अथ तस्मै शिवः साक्षाद्दत्वा दर्शनमुत्तमम् ॥२६॥
पप्रच्छ सर्ववृत्तांतं श्रुत्वा स तु न्यवेदयत् ॥
इत्थं निशम्य वचनं प्रत्याह प्रमथेश्वरः ॥२७॥
शिव उवाच -
शोकं मा कुरु राजेंद्र मद्वरोऽपि मृषा न हि ॥
दैवदैत्यनराः सर्वे त्वा विजेतुं न च क्षमाः ॥२८॥
एते कृष्णसुता राजञ्छ्रीकृष्णस्यांशसंभवाः ॥
न देवा ये महाराज न दैत्या न च मानुषाः ॥२९॥
एतैर्विनिर्जितस्त्वं तु दुर्मना भव मा नृप ॥
अपराधं तु कृष्णस्य कर्तुं नार्हसि भूपते ॥३०॥
समागतेभ्य एतेभ्यस्तस्मात्त्वं विधिना नृप ॥
शीघ्रं प्रयच्छ भद्रं ते हयमेधतुरंगमम् ॥३१॥
इत्युक्त्वांतर्दधे रुद्रो नृपो ज्ञात्वा जगत्पतेः ॥
माहात्म्यं च मुदा युक्तो गृहीत्वा क्रतुवाहनम् ॥३२॥
नीलध्वजेन सहितो रत्‍नान्यादाय भूरिशः ॥
स्वर्णभारशतं चैव मतंगजसहस्रकम् ॥३३॥
नियुतं घोटकानां च ह्यादाय स्यंदनायुतम् ॥
यत्रानिरुद्धः प्रययौ नमस्कर्तुं जनैर्वृतः ॥३४॥
अनिरुद्धस्य निकटे गत्वा राजा विधानतः ॥
सर्वं निवेदयामास नत्वा वचनमब्रवीत् ॥३५॥
इन्द्रनील उवाच -
नमः कृष्णाय रामाय प्रद्युम्नाय महात्मने ॥
नमो नमोऽनिरुद्धाय सात्वतां प्रवराय च ॥३६॥
आदेशो दीयतां मह्यं किं करोम्यसुरार्दन ॥
अनिरुद्धस्तु तं प्राह मया सह नृपोत्तम ॥३७॥
शत्रुभ्यश्च मित्रहयं पालय त्वं हि मामकम् ॥
गर्ग उवाच -
इति तस्य वचः श्रुत्वा तथेत्युक्त्वा नृपो नृप ॥३८॥
नीलध्वजाय राज्यं तु दत्वा गंतुं मनो दधे ॥३९॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
अनिरुद्धविजयवर्णनं नाम पंचदशोऽध्यायः ॥१५॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP