श्रीगर्गसंहिता

अश्वमेधखण्डः - एकोनविंशोऽध्यायः

अनिरुद्धसमीपे बकासुरागमनम् -


श्रीगर्ग उवाच -
अथ रुक्मावती पुत्रो महत्या सेनया वृतः ॥
उपलंकां विमानेन प्रययौ धनदो यथा ॥१॥
यदुभिस्तत्र गत्वा स शरैराशीविषोपमैः ॥
बभंज नगरीं राजन्वनान्युपवनानि च ॥२॥
क्रीडास्थानानि द्वाराणि सदनाट्टालतोलिकाः ॥
गोपुराणि विमानाग्रान्निपेतुः शस्त्रवृष्टयः ॥३॥
मुसलाः शक्तयश्चैव परिघाश्च शराः शिलाः ॥
चण्डवायुरभूद्‌राजन्‌ रजसाऽऽच्छादिता दिशः ॥४॥
इत्यर्द्यमाना यदुभिर्भीषणस्य पुरी भृशम् ॥
नाभ्यपद्यत कल्याणं यथा शाल्वैश्च द्वारिका ॥५॥
हाहाकारस्तदैवासीन्नगर्यां नृपसत्तम ॥
असुरा भीषणाद्याश्च बभूवुर्भयविह्वलाः ॥६॥
बाध्यमानां च नगरीं दृष्ट्वा राक्षसपुंगवः ॥
माभैष्टेत्यभयं दत्त्वा राक्षसैः सह निर्ययौ ॥७॥
ततः प्रववृते युद्धं यादवानां निशाचरैः ॥
तत्पुर्यां चैव लंकायां कपिभी रक्षसां यथा ॥८॥
वृष्णीनां चैव बाणौघै राक्षसाश्छिन्नकंधराः ॥
निपेतुस्तु समुद्रे वै वृक्षा वातहता इव ॥९॥
केचित्पृथिव्यां पतिताः केचित्पुर्य्यमधोमुखाः ॥
केचिदूर्ध्वमुखा राजन्केचिद्वै पंचतां गताः ॥१०॥
तत्र तेषां शोणितेन दुर्नदीच भयंकरा ॥
बभूव सा च दुष्पारा महावैतरणि यथा ॥११॥
तत्र तेषां बलं वीक्ष्य भीषणो विस्मयं गतः ॥
तिरश्चीनेन नेत्रेण दृष्ट्वा प्राह यदूनिदम् ॥१२॥
भवद्‌भिश्च कृतं युद्धमाकाशान्निर्बलैरिव ॥
अश्लाघनीयं च वृथा यूयं मानं करिष्यथ ॥१३॥
युष्माकं यदि देहेषु शक्तिश्चेद्विद्यते शृणु ॥
महीतले तदागत्य मया कुरुत वै रणम् ॥१४॥
इत्याकर्ण्य वचः सोऽपि कार्ष्णिजः करुणामयः ॥
विमानं भूतले कृत्वा प्रत्युवाच महासुरम् ॥१५॥
अनिरुद्ध उवाच -
सहसा त्वं मया सार्द्धं रणं कुरु महारणे ॥
किं विचारेण भवति भयं त्यक्त्वा महासुर ॥१६॥
इति तद्वाक्यमाकर्ण्य भीषणो भीमविक्रमः ॥
धनुषा पंच नाराचांस्तस्योपरि मुमोच ह ॥१७॥
अनिरुद्धो निरीक्ष्याथ स्वबाणैस्तान्द्विधाकरोत् ॥
चिच्छेद च धनुस्तस्य शरेणैकेन लीलया ॥१८॥
सोऽप्यन्यं धनुरादाय सज्जं कृत्वा निशाचरः ॥
सर्पाकारैः शतशरैर्जघान कार्ष्णिनंदनम् ॥१९॥
रथस्तु तस्य भग्नोऽभूत्सारथी पंचतां गतः ॥
हया मृत्युं गताः सर्वे प्राद्युम्निर्मूर्च्छितोऽभवत् ॥२०॥
तदैव वृष्णयः सर्वे स्फुरिताधरपल्लवाः ॥
स्वनाथं पतितं दृष्ट्वेषून् मुञ्चन्तः समागताः ॥२१॥
तानागतान्बहून्दृष्ट्वा चापं धृत्वासुरो रुषा ॥
गदया पोथयामास दंष्ट्रयेव मृगान्हरिः ॥२२॥
गदाप्रहारव्यथिता यादवाः पतिता भुवि ॥
संभिन्नच्छिन्नसर्वाङ्गाः केचिन्निपतिता रणे ॥२३॥
ततो गृहीत्वा स्वगदां गदः संकर्षणानुजः ॥
ताडयामास समरे भीषणस्य च मूर्द्धनि ॥ २४॥
गदाप्रहारव्यथितः स पपात महीतले ॥
चालयन् वसुधां राजन् यथा वज्रहतो गिरः ॥२५॥
भीषणं पतितं दृष्ट्वा मूर्च्छितं भग्नशीर्षकम् ॥
असुरास्ते गदं हंतुं प्राप्ताः शस्त्रधराः किल ॥२६॥
तान्सर्वान्पोथयामास गदया वज्रकल्पया ॥
रामानुजो यथा राजन्नृसिंहो दंष्ट्रया गजान् ॥२७॥
अथोत्थितोऽनिरुद्धस्तु ब्रुवन्धन्वी क्षणेन वै ॥
भीषणो मम शत्रुर्वै क्व गतः स महा खलः ॥२८॥
उत्थितं च हरेः पौत्रं दृष्ट्वा यादवपुंगवाः ॥
चक्रुर्जयजयारावं देवाः सर्वे च हर्षिताः ॥२९॥
ततो नारदवाक्याद्वै बको नाम निशाचरः ॥
भीषणस्य पितारण्यात्क्रुद्धस्तत्राजगाम ह ॥३०॥
कज्जलाद्रिसमो राजन्तालवृक्षदशोत्थितः ॥
ललजिह्वश्च दुर्नेत्रस्त्रिशूली च गदाधरः ॥३१॥
हस्तिनं वामहस्तेन गृहीत्वा च मुखेन वै ॥
प्रभक्षन् रुधिराक्रांतः पिशाचसदृशो महान् ॥३२॥
पद्‌भ्यां तालप्रमाणाभ्यां कंपयन्पृथिवीतलम् ॥
भयप्रदश्च देवानां जनकालो व्यदृश्यत ॥३३॥
तमायांतं विलोक्याथ शंकितास्तत्र यादवाः ॥
प्रोचुः परस्परं सर्वे स्मृत्वा कृष्णपदांबुजम् ॥३४॥
यादवा ऊचुः -
कोऽयं मित्राणि गदत निकटे च समागतः ॥
महाबीभत्सरूपी वै कृतांत इव निर्भयः ॥३५॥
इति ब्रुवत्सु सर्वेषु आसीत्कोलाहलो महान् ॥
प्रसन्नस्तं निरीक्ष्याथ बभूवुस्ते निशाचराः ॥३६॥
भीषणं मूर्च्छितं दृष्ट्वा बको राक्षसपुंगवः ॥
शुशोच राजन्संग्रामे हा दैवेति मुहुर्वदन् ॥३७॥
ततो मूर्च्छां मुहूर्तेन विहाय भीषणो नृप ॥
उत्थितस्तु ब्रुवन्वाक्यं गदः कुत्र गतो भयात् ॥३८॥
स्वपुत्रमुत्थितं दृष्ट्वा पुरुषादस्तु हर्षितः ॥
आलिंग्याश्वासयामास सुवाक्यैर्वाक्यकोविदः ॥३९ ॥
भीषणः पितरं दृष्ट्वा सहायार्थं समागतम् ॥
नमश्चक्रे महाराज भूत्वा स च प्रसन्नधीः ॥४०॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
बकागमनं नामैकोनविंशोऽध्यायः ॥१९॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP