श्रीगर्गसंहिता
अश्वमेधखण्डः - नवमोऽध्यायः
उग्रसेनसभायां गर्गागमनम् -
गर्ग उवाच -
अथ राजा कुशस्थल्यां गते देवर्षिसत्तमे ॥
स्वदूतान्प्रेषयामास मामानेतुं नृपेश्वर ॥१॥
त ऊचुरुग्रसेनस्य ममाग्रे वचनं नराः ॥
दूता ऊचुः
देवदेव मुने ब्रह्मन्भूदेवानां शिरोमणे ॥२॥
अस्माकं वचनं सर्वं कृपया शृणु विस्तरात् ॥
कृष्णेच्छया द्वारकायामुग्रसेनेन भो मुने ॥३॥
निरूपितं क्रतुवरं तव शिष्येण धीमता ॥
त्वमागच्छ मुने शीघ्रं तस्मिन् यज्ञमहोत्सवे ॥४॥
श्रीगर्ग उवाच -
तेषामहं वचः श्रुत्वा जग्मिवान्द्वारकां पुरीम् ॥
गर्गाचलान्नृपश्रेष्ठ यज्ञकौतुकसंयुतः ॥५॥
ततो दृष्टा पुरी दूराच्चानर्ते द्वारका मया ॥
नानाद्रुमगणैर्जुष्टा नानाचोपवनैर्युता ॥६॥
नानातडागैर्वापीभिर्नानापक्षिगणैस्तथा ॥
नीलरक्तसितांभोजैः पीतपद्मैः सरोवराः ॥
राजंते कुमुदैश्चैव शुकपुष्पैर्नृपेश्वर ॥७॥
बिल्वैः कदंबैर्न्यग्रोधैः शालैस्तालैस्तमालकैः ॥
बकुलैर्नागपुन्नागैः कोविदारैश्च पिप्पलैः ॥
जम्बीरैर्हारसिंगारैराम्रैराम्रातकैरपि ॥८॥
केतकीभिर्गोस्तनीभिः कदलीभिश्च जम्बुभिः ॥
श्रीफलैः पिंडखर्जूरैः खदिरैः पत्रबिंदुभिः ॥९॥
अगरैस्तगरैश्चैव चन्दनै रक्तचन्दनैः ॥
पलाशैश्च कपित्थैश्च प्लक्षैर्वेत्रैश्च वेणुभिः ॥१०॥
मल्लिकाभिर्यूथिकाभिर्मोदिनीभिर्महीरुहैः ॥
तथा मदनबाणैश्च सहस्रांशुमुखद्रुमैः ॥११॥
प्रियावंशैर्गुल्मवंशैः कर्णिकारैश्च पुष्पितैः ॥
सहस्राख्यैः कन्दुकैर्वै चागस्त्यैश्च सुदर्शनैः ॥१२॥
चन्द्रकाख्यैश्च कुन्दैश्च कर्णपुष्पैश्च दाडिमैः ॥
अनुजीरैर्नागरंगैराडुकीजानकीफलैः ॥१३॥
पूगीफलैर्बदामैश्च तूलै राजादनैद्रुमैः ॥
एलाभिः सेवतीभिश्च तथा वै देवदारुभिः ॥१४॥
ईदृशैश्च महावृक्षैः शोभिता नगरी हरेः ॥
कूजंति यत्र राजेन्द्र मयूराः सारसाः शुकाः ॥१५॥
हंसाः पारावताश्चैव कपोताः कोकिलास्तथा ॥
सारिकाश्चक्रवाकाश्च खंजनाश्चटकाः किल ॥१६॥
एते पक्षिगणाः सर्वे वैकुण्ठाच्च समागताः ॥
कृष्ण कृष्णेति मधुरां वाणीं गायंति यत्र हि ॥१७॥
इत्थं पश्यन् व्रजन्राजन्ददर्श द्वारकामहम् ॥
ताम्ररौप्यसुवर्णैश्च त्रिभिर्दुर्गैश्च वेष्टिताम् ॥१८॥
गिरिणा रैवतेनापि देववृक्षमयेनच च ॥
रत्नाकरेण गोमत्याऽऽवृतां परिखभूतया ॥१९॥
कृष्णस्य नगरीं रम्यां कृतकौतुकतोरणाम् ॥
मुदायुक्तजनाकीर्णां सुवर्णभवनैर्युताम् ॥२०॥
तथा हाटकहट्टाभिः पताकाभिश्च मंडिताम् ॥
विष्णोश्च मंदिरैः प्रोच्चैर्महेशस्यालयैर्युताम् ॥२१॥
यदुभिश्च महाशूरैर्विमानैश्च सहस्रशः ॥
शतशृङ्गाटकैश्चैव कलशैर्भर्मकर्बुरैः ॥२२॥
रथ्याभिर्मंदुराभिश्च दंतिशालाभिरेव च ॥
गोशालाभिश्च शालाभिः सुरौप्यपथिभिर्युताम् ॥२३॥
प्रासादैर्नवलक्षैश्च कृष्णस्य परमात्मनः ॥
तथा षोडशसाहस्रैर्भवनैर्वेष्टितां पुरीम् ॥२४॥
द्वारे द्वारे द्वारकायां शूरा वीराश्च कोटिशः ॥
रक्षंत्यहर्निशं राजन्सर्वशस्त्रधराः किल ॥२५॥
प्रगायंति जनाः सर्वे श्रीकृष्णबलदेवयोः ॥
गृहे गृहे च नामानि शृण्वन्ति चरितानि च ॥२६॥
इत्थं विलोकयन्सर्वान्सुधर्मायामहं गतः ॥
कृष्णेति पादुकारूढस्तुलसीमालया जपन् ॥२७॥
अथोग्रसेनो राजर्षिर्दृष्ट्वा मां च समागतम् ॥
समुत्थाय मुदायुक्तः शक्रसिंहासनात्किल ॥२८॥
षट्पंचाशत्कोटिसंख्यैर्यादवैः सह भूपते ॥
नत्वा सिंहासने स्थाप्य पूजयामास चाहुकः ॥२९॥
मदंघ्री चावनिज्याथ यादवानां च सन्निधौ ॥
पादोदकं स्वशिरसि धृत्वा प्राह नृपेश्वरः ॥३०॥
उगेसेन उवाच -
विप्रेंद्र नारदमुखाच्छ्रुतं यस्य महत्फलम् ॥
तं यज्ञमश्वमेधाख्यं करिष्येऽहं तवाज्ञया ॥३१॥
यस्यांघ्रिसेवया पूर्वे मनोरथमहार्णवम् ॥
तेरुर्जगत्तृणीकृत्य स कृष्णश्चात्र वर्त्तते ॥३२॥
श्रीगर्ग उवाच -
यादवेंद्र महाराज सम्यग्व्यसितं त्वया ॥
हयमेधेन ते कीर्तिस्त्रिलोक्यां संभविष्यति ॥३३॥
कः प्रयास्यति रक्षार्थं तुरगस्य नृपेश्वर ॥
बहवः शत्रवः संति तस्मात्तं निश्चयं कुरु ॥३४॥
वर्षमात्रं प्रकर्तव्यमसिपत्रव्रतं त्वया ॥
तदा तु कुशलेनापि भविष्यति क्रतूत्तमः ॥३५॥
प्रद्युम्नेन राजसूये जिता सर्वा मही पुरा ॥
तुरङ्गास्याद्य रक्षार्थं तं पुनः किं नियोक्ष्यसि ॥३६॥
इति मद्वचनं श्रुत्वा राजा चिंतापरायणः ॥
ददर्श संस्थितं नॄणां सर्वदुःखहरं हरिम् ॥३७॥
तदैव भगवान्दृष्ट्वा शोकेनापूरितं नृपम् ॥
ताम्बूलवीटकं नीत्वा प्रहसन्निदमब्रवीत् ॥३८॥
श्रीकृष्ण उवाच -
भोः शूरा यादवाः सर्वे बलिनो रणकोविदाः ॥
उग्रसेनस्य चाग्रे वै शृण्वन्तु मम भाषितम् ॥३९॥
यो मोचयति राजभ्यो हयमेधतुरंगमम् ॥
महारथी मनस्वी च सोऽयं गृह्णातु वीटकम् ॥४०॥
इति श्रुत्वा हरेर्वाक्यं यादवा युद्धकोविदाः ॥
परस्परं् प्रपश्यन्तो गतमानाः पुनः पुनः ॥४१॥
संस्थितो घटिकामात्रं रेजे ताम्बूलबीटकः ॥
कृष्णस्य सुंदरे हस्ते यथा तामरसे शुकः ॥४२॥
ततश्च सर्वेषु गतेषु तूष्णी-
मूषापतिश्चापधरो महात्मा ॥
प्रगृह्य तांबूलचयं नृपेन्द्र
नत्वा च कृष्णं निजगाद सद्यः ॥४३॥
श्रीअनिरुद्ध उवाच -
अहं हि श्यामकर्णस्य राजन्येभ्यश्च पालनम् ॥
करिष्यामि जगन्नाथ तस्मान्मां त्वं् नियोजय ॥४४॥
न करिष्ये घोटकस्य पालनं यदि तच्छृणु ॥
प्रतिज्ञां मम गोविंद दीनस्य दीनवत्सल ॥४५॥
ब्राह्मणीगमनात्क्षत्री वैश्यस्य शूद्र एव च ॥
यां गतिं प्राप्नुयान्नूनं तामहं दुःखदायिनीम् ॥४६॥
विप्रं कृत्वा गुरुं पूर्वं पश्चात्तं यो न सेवते ॥
स याति यां गतिं देव प्राप्नुयां तामहं ध्रुवम् ॥४७॥
गर्ग उवाच -
इति तद्वाक्यमाकर्ण्य यादवा विस्मयं गताः ॥
तदैव कृष्णः संतुष्टो जग्राह पौत्रमेव च ॥४८॥
ततो हरिः सुधर्मायामनिरुद्धं कृतांजलिम् ॥
सर्वेषां शृण्वतां प्राह घननिर्हादया गिरा ॥४९॥
श्रीकृष्ण उवाच -
अनिरुद्ध तुरंगस्य वर्षमात्रं च पालनम् ॥
राजन्येभ्यश्च कृत्वा त्वं पुनरागच्छ चात्र वै ॥५०॥
इति श्रीगर्गसंहितायां हयमेधचरित्रे सुमेरौ गर्गागमनं नाम नवमोऽध्यायः ॥९॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|