श्रीगर्गसंहिता

अश्वमेधखण्डः - दशमोऽध्यायः

उग्रसेन-रुचिमती-संवादम् -


श्रीगर्ग उवाच -
इति ब्रुवति श्रीकृष्णे हंसस्थश्चतुराननः ॥
आजगाम कुशस्थल्यामीश्वरेण समन्वितः ॥१॥
तत इन्द्रः कुबेरश्च यमो वरुण एव च ॥
वायुर्वायुसखाश्चैव नैर्ऋतश्च निशाकरः ॥२॥
एते समाययू राजन्कृष्णदर्शनकांक्षया ॥
ततश्च द्वादशादित्या वेतालाश्च मरुद्‌गणाः ॥३॥
विश्वेदेवाश्च साध्याश्च गंधर्वाः किन्नरास्तथा ॥
विद्याधराश्च मुनयः श्रीकृष्णं द्रष्टुमाययुः ॥४॥
तत्रागतानां देवानामुग्रसेनेन माधवः ॥
यथाविध्युपसंगम्य सर्वेषां मानमादधे ॥५॥
आसनेषूपविष्टेषु सभायां निर्जरेष्वथ ॥
श्लाघां चकार सर्वेषां लीलानरवपुर्हरिः ॥६॥
अथ ब्रह्मा हरेः पार्श्वे स्थितः शक्रेण नोदितः ॥
प्रत्युवाच जगन्नाथं बलभद्रसमन्वितम् ॥७॥
ब्रह्मोवाच
पौत्रस्ते बालकः कृष्ण राजन्येभ्यश्च पालनम् ॥
कठिनं श्यामकर्णस्य करिष्यति कथं हरे ॥८॥
मा तं प्रेषय तस्मात्त्वं रक्षणाय हयस्य वै ॥
विघ्नाश्च बहवः सन्ति प्रद्युम्नं प्रेषयस्व च ॥९॥
संकर्षणं वा गोविन्द ह्यथवा रक्ष त्वं हयम् ॥
इति तद्वचनं श्रुत्वा निजगौ प्रहसन्हरिः ॥१०॥
श्रीभगवानुवाच
अनिरुद्धो हठाद्याति मन्निषेधं न मन्यते ॥
तस्मात्तन्निकटे गत्वा निषेधं कुरु यत्‍नतः ॥११॥
कृष्णस्य वाक्यमाकर्ण्य विधिश्चंद्रसमन्वितः ॥
ययौ निवारणार्थायानिरुद्धं कार्ष्णिनन्दनम् ॥१२॥
यदा गतौ समीपे तु सुरज्येष्ठकलानिधी ॥
विग्रहे ह्यनिरुद्धस्य सद्यस्तौ लीनतां गतौ ॥१३॥
बभूवुर्विस्मिताः सर्वे शिवशक्रादयः सुराः ॥
यादवा मुनयश्चैव ह्युग्रसेनादयो नृपाः ॥ १४॥
वज्रनाभ त्वत्पितरं संस्तुवन्ति गणाः किल ॥
परिपूर्णतमं तस्मादनिरुद्धं वदंति हि ॥१५॥
गर्ग उवाच -
अथोग्रसेनो नृपतिः सभातला-
     दुत्थाय कृष्णं मनसा प्रणम्य च ॥
स्वांतःपुरं सुन्दररत्‍नवेष्टितं
     जगाम राजन्क्रतुकौतुकावृतः ॥१६॥
गत्वा ह्यंतपुरे राजा सुरेन्द्रसदनोपमे ॥
पर्यंकस्थां रुचिमतीं शचीतुल्यां वराननाम् ॥१७॥
दासीभिः सेवितां राज्ञीं वस्त्रालंकारवेष्टिताम् ॥
वीजितां चामरैः शुक्लैर्ददर्श नृपसत्तमः ॥१८॥
सा विलोक्यागतं तत्र स्वपतिं यादवेश्वरम् ॥
उत्थाय चादरं राजन् चकार विधिना किल ॥१९॥
ततः स्थित्वा स पर्यंके वृष्णीशो स्वां प्रियां पराम् ॥
प्रोवाच प्रहसन् वाण्या घनशब्दगभीरया ॥२०॥
हयमेधं करिष्येऽहं प्रिये कृष्णाज्ञयाऽद्य वै ॥
नरो यस्य प्रतापेन लभते वाञ्छितं फलम् ॥२१॥
गर्ग उवाच -
इति तद्वचनं श्रुत्वा पुत्रदुःखेन दुःखिता ॥
स्मरंती कृपणा पुत्रान्प्रत्युवाच नृपेश्वरम् ॥२२॥
राज्ञ्युवाच -
पुत्रदर्शनहीनाया राजन्मे सर्वसंपदः ॥
न रोचंते सुरैः प्रार्थ्याः सुखेन त्वं क्रतुं कुरु ॥२३॥
यदि यज्ञप्रतापेन पुत्रो भवति सुन्दरः ॥
तदा प्रसन्नचित्ताहं भविष्यामि नृपेश्वर ॥२४॥
तस्या वाक्यं समाकर्ण्य नृपः खिन्नमना ह्यभूत् ॥
पुनराह प्रियां तत्र श्रद्धां श्राद्धसुरो यथा ॥२५॥
राजोवाच -
शृणु भद्रे त्विमामाशां पुत्राणां बहुदुःखदाम् ॥
त्वक्त्वा विमुक्तिदं साक्षात्कृष्णं भज परात्परम् ॥२६॥
अहं वृद्धस्तु त्वं वृद्धा कथं पुत्रो भविष्यति ॥
तस्मादज्ञानजं शोकं त्यज बंधनकारणम् ॥२७॥
श्रुत्वा तु यादवेंद्रस्य वाक्यं विज्ञानदं परम् ॥
राजन् रुचिमती प्राह यदूनां प्रवरं पतिम् ॥२८॥
रुचिमत्युवाच -
राजन् यज्ञप्रतापेन प्राप्यते वाञ्छितं फलम् ॥
अहं तु कामये द्रष्टुं हतपुत्रान्समागतान् ॥२९॥
यदि त्वमीदृशं वाक्यं मृतानां दर्शनं कुतः ॥
वदिष्यसि मदग्रे हि ततोऽन्यच्छृणु मन्मुखात् ॥३०॥
कृष्णेन दत्तं तत्पुत्रं गुरवे गुरुदक्षिणाम् ॥
तद्वत्स्वपुत्रान्‌ राजेंद्र कामये द्रष्टुमागतान् ॥३१॥
गर्ग उवाच -
इति श्रुत्वाऽऽह्वयामास मां च कृष्णं बृहच्छ्रवाः ॥
तयोः सपर्यां महतीमागताभ्यां चकार ह ॥३२॥
तौ पूजयित्वाभिप्रायं ताभ्यां सर्वं न्यवेदयत् ॥
उग्रसेनस्य वाक्यं वै श्रुत्वा मद्वचनाद्धरिः ॥३३॥
उपशक्रो यथा शक्रं प्राह तद्वन्नृपेश्वर ॥
श्रीभगवानुवाच -
शृणु राजँस्तव सुताः प्रधने निहताः पुरा ॥३४॥
ते सर्वे दिव्यदेहेन वर्तन्ते दिवि देववत् ॥
तस्मात्वं नृपशार्दूल पुत्रशोकं विहाय च ॥३५॥
अश्वमेधं क्रतुवरं कुरु धैर्येण भूपते ॥
दर्शयिष्याम्यहं सर्वान् यज्ञस्यांते च ते सुतान् ॥३६॥
निशम्य कृष्णवचनमुर्वीशः स्वां प्रियां मुदा ॥
आश्वास्य च शुभैर्वाक्यैः सुधर्मां सुजनैर्ययौ ॥३७॥
आगतं तु नृपं वीक्ष्य श्रीकृष्णेन समन्वितम् ॥
दिक्पालाश्च प्रणेमुर्वै रामेशानादयः सुराः ॥३८॥
उग्रसेनस्य भूपस्य वज्रनाभे तपः परम् ॥
किं वर्णयामि यं सर्वे श्रीकृष्णाद्या नमंति हि ॥३९॥
यादवेंद्रस्तु सर्वान् वै देवान्नत्वा विलज्जितः ॥
शक्रसिंहासने दिव्ये नारुरोह विचारयन् ॥४०॥
तदैव कृष्णो भगवान्गृहीत्वा पाणिना नृपम् ॥
स्वभक्तं स्थापयामास तस्मिन् वै वासवासने ॥४१॥

इति श्रीगर्गसंहितायां हयमेधचरित्रे
राजराज्ञीसंवादे दशमोऽध्यायः ॥१०॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP