श्रीगर्गसंहिता

अश्वमेधखण्डः - अष्टमोऽध्यायः

अश्वमेधस्य अश्वनिर्णयम् -


श्रीगर्ग उवाच -
इति तद्वाक्यमाकर्ण्य स्पष्टाक्षरसमन्वितम् ॥
राजर्षिः प्राह देवर्षिं विस्मितः प्रहसन्निव ॥१॥
राजोवाच
मुने यज्ञं करिष्येऽहं यज्ञयोग्यं तुरंगमम् ॥
गत्वा ममाश्वशालायां हयानां त्वं विलोकय ॥२॥
नृपस्य वचनं श्रुत्वा तथेत्युक्त्वा च नारदः ॥
वाजिशालां ययौ तेन दुग्धाभाञ्जलसन्निभान् ॥३॥
स गत्वा तत्र तुरगान्धूम्रवर्णान्मनोहरान् ॥
श्यामवर्णान्कृष्णवर्णान्पद्मवर्णान्ददर्श वै ॥४॥
तथा चान्यत्र शालायां मुग्धाभाञ्जलसन्निभान् ॥
हरिद्राभान्कुंकुमाभान्पलाशकुसुमप्रभान् ॥५॥
तथा चित्रविचित्रांगान्स्फटिकांगान्मनोजवान् ॥
तथा चान्यत्र शालायां कौसुंभांगाञ्शुकप्रभान् ॥६॥
इंद्रगोपनिभान्गौरान्दिव्यान्पूर्णशशिप्रभान् ॥
सिंदूरांगानग्निवर्णान्बालसूर्यसमान्नृप ॥७॥
ईदृशांश्च हयान्दृष्ट्वा नारदो विस्मयान्वितः ॥
उवाच कृष्णसहितमुग्रसेनं हसन्निव ॥८॥
नारद उवाच -
वाजिनस्ते महाराज सर्वे हि बहुसुंदराः ॥
ईदृशा नैव स्वर्लोके पृथिव्यां च रसातले ॥९॥
वर्तते वाजिशालायां कृष्णस्य कृपया तव ॥
एकोऽपि श्यामकर्णस्तु तेषां मध्ये न दृश्यते ॥१०॥
श्रीगर्ग उवाच -
निशम्य वाक्यं देवर्षेर्नृपस्तु दुःखितोऽभवत् ॥
यज्ञो भविष्यति कथं मनसीति विचारयन् ॥११॥
उदासीनं नृपं दृष्ट्वा भगवान्मधुसूदनः ॥
अवोचत्प्रहसञ्शीघ्रं मेघगंभीरया गिरा ॥१२॥
श्रीकृष्ण उवाच -
शृणु मद्वचनं राजन्सर्वं शोकं विहाय च ॥
गत्वा ममाश्वशालां वै श्यामकर्णं विलोकय ॥१३॥
इत्युदीरितमाकर्ण्य कृष्णेन च सुरर्षिणा ॥
हरेश्च वाजिशालां हि जगाम नृपसत्तमः ॥१४॥
ददर्श तां स गत्वा च यज्ञयोग्यान्सहस्रशः ॥
श्यामकर्णान्पीतपुच्छांश्चन्द्रवर्णान्मनोजवान् ॥१५॥
सर्वांगसुंदरान्दिव्याँस्तप्तहेममुखाञ्शुभान् ॥
एतान्दृष्ट्वा हयान्‌ राजा विस्मयं परमं गतः ॥१६॥
हर्षेण महता युक्तः कृष्णं नत्वाब्रवीद्वचः ॥
राजोवाच
श्यामकर्णाश्च बहुशो मया चाद्य निरीक्षिताः ॥१७॥
दुर्लभं किं जगन्नाथ त्वद्‌भक्तानां धरातले ॥
यथा मनोरथः पूर्वं प्रह्लादस्य ध्रुवस्य च ॥१८॥
आसीत्त्वत्कृपया कृष्ण तथा मम मनोरथः ॥
इति श्रुत्वा हरी राजन् शार्ङ्गी भूपमवोचत ॥१९॥
श्रीकृष्ण उवाच -
एकं त्वं श्यामकर्णानामश्वानां चन्द्रवर्चसाम् ॥
गृहीत्वा नृपशार्दूल कुरु यज्ञं ममाज्ञया ॥२०॥
गर्ग उवाच -
श्रुत्वा वाक्यं हरिं प्राह करिष्येऽहं क्रतूत्तमम् ॥
इत्युक्त्वा तेन सहितो नारदेन सभां ययौ ॥२१॥
ततः कृष्णमनुज्ञाप्य नारदः सहतुम्बुरुः ॥
राजानमाशिषं दत्वा स्वयंभूसदनं ययौ ॥२२॥

इति श्रीगर्गसंहितायामश्वमेधखंडे
तुरंगदर्शनं नामाष्टमोऽध्यायः ॥८॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP