श्रीगर्गसंहिता

विज्ञानखण्डः - तृतीयोऽध्यायः

निर्गुणभक्तियोगकथनम् -


उग्रसेन उवाच -
श्रुतं तव मुखाद्ब्रह्मन् गुणकर्मगतिर्मया ॥
पुनरावर्तिनो लोकास्तथा संति विनिश्चताः ॥१॥
निष्कारणाद्धरेः साक्षात्सेवनाद्धाम उत्तमम् ॥
लभते दुर्लभं दिव्यं भक्तानां तच्छ्रुतं मया ॥२॥
भक्तियोगः कतिविधो वद मे वदतां वर ॥
येन प्रसन्नो भवति भगवान् भक्तवत्सलः ॥३॥
श्रीव्यास उवाच -
द्वारावतीश धन्योऽसि श्रीकृष्णेष्टो हरिप्रियः ॥
पृच्छसे भक्तियोगं त्वं धन्या ते विमला मतिः ॥४॥
यं श्रुत्वा निर्मलो भूयाद्‌विश्वघात्यपि पातकी ॥
तं भक्तियोगं विशदं तुभ्यं वक्ष्यामि यादव ॥५॥
भक्तियोगो द्विधा राजन् सगुणश्चैव निर्गुणः ॥
सगुणः स्याद्‌बहुविधो निर्गुणश्चैकलक्षणः ॥६॥
सगुणः स्याद्‌बहुविधो गुणमार्गेण देहिनाम् ॥
तैर्गुणैस्त्रिविधा भक्ता भवन्ति शृणु तान्पृथक् ॥७॥
हिंसा दंभं च मात्सर्य्यं चाभिसंधाय भिन्नदृक् ॥
कुर्याद्‌भावं हरौ क्रोधी तामसः परिकीर्तितः ॥८॥
यश ऐश्वर्यविषयानभिसंधाय यत्‍नतः ॥
अर्चयेद्यो हरिं राजन् राजसः परिकीर्तितः ॥९॥
उद्दीश्य कर्मनिर्हारमपृथग्भाव एव हि ॥
मोक्षार्थं भजते विष्णुं स भक्तः सात्विकः स्मृतः ॥१०॥
जिज्ञासुरार्तो ज्ञानी च तथाऽर्थार्थी महामते ॥
चतुर्विधा जना विष्णुं भजंते कृतमंगलाः ॥११॥
एवं बहुविधेनापि भक्तियोगेन माधवम् ॥
भजंति सनिमित्तास्ते जनाः सुकृतिनः परे ॥१२॥
लक्षणं भक्तियोगस्य निर्गुणस्य तथा शृणु ॥
तद्‍गुणश्रुतिमात्रेण श्रीकृष्णे पुरुषोत्तमे ॥१३॥
परिपूर्णतमे साक्षात्सर्वकारणकारणे ॥
मनोगतिरविच्छिन्ना खंडिताऽहैतुकी च या ॥१४॥
यथाब्धावंभसा गंगा सा भक्तिर्निर्गुणा स्मृता ॥
निर्गुणानां च भक्तानां लक्षणं शृणु मानद ॥१५॥
सार्वभौमं पारमेष्ठ्यं शक्रधिष्ण्यं तथैव च ॥
रसाधिपत्यं योगर्द्धिं न वाञ्छन्ति हरेर्जनाः ॥१६॥
हरिणा दीयमानं वा सालोक्यं यादवेश्वर ॥
न गृह्णंति कदाचित्ते सत्संगानंदनिर्वृताः ॥१७॥
सामीप्यं ते न वांछंति भगवद्विरहातुराः ॥
संनिकृष्टे न तत्प्रेम यथा दूरतरे भवेत् ॥१८॥
सारुप्यं दीयमानं वा समानत्वाभिमानिनः ॥
नैरपेक्ष्यान्न वांछंति भक्तास्तत्सेवनोत्सुकाः ॥१९॥
एकत्वं चापि कैवल्यं न वांछंति कदाचन ॥
एवं चेत्तर्हि दासत्वं क्व स्वामित्वं परस्य च ॥२०॥
निरपेक्षाश्च ये शांता निर्वैराः समदर्शिनः ॥
आकैवल्याल्लोकपदग्रहणं कारणं विदुः ॥२१॥
नैरपेक्ष्यं महानंदं निरपेक्षा जनाः हरेः ॥
जानंति हि यथा नासा पुष्पामोदं न चक्षुषी ॥२२॥
सकामाश्च तदानंदं जानंति हि कथंचन ॥
रसकर्ता तथा हस्तो रसस्वादं न वेत्ति हि ॥२३॥
तस्माद्राजन्भक्तियोगं विद्धि चात्यंतिकं पदम् ॥
भक्तानां निरपेक्षाणां पद्धतिं कथयामि ते ॥२४॥
स्मरणं किर्तनं विष्णोः श्रवणं पादसेवनम् ॥
अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम् ॥२५॥
कुर्वंति सततं राजन् भक्तिं ये प्रेमलक्षणाम् ॥
ते भक्ता दुर्लभा भूमौ भगवद्‌भावभावनाः ॥२६॥
कुर्वन्तो महतोपेक्षां दयां हीनेषु सर्वतः ॥
समानेषु तथा मैत्रीं सर्वभूतदयापराः ॥२७॥
कृष्णपादाब्जमधुपाः कृष्णदर्शनलालसाः ॥
कृष्णं स्मरंति प्राणेशं यथा प्रोषितभर्तृकाः ॥२८॥
श्रीकृष्णस्मरणाद्येषां रोमहर्षः प्रजायते ॥
आनंदाश्रुकलाश्चैव वैवर्ण्यं तु क्वचिद्‌भवेत् ॥२९॥
श्रीकृष्ण गोविंद हरे ब्रुवन्तः श्लक्ष्णया गिरा ॥
अहर्निशं हरौ लग्नास्ते हि भागवतोत्तमाः ॥३०॥

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
निर्गुणभक्तियोगवर्णनं नाम तृतीयोऽध्यायः ॥३॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP