श्रीगर्गसंहिता

विज्ञानखण्डः - चतुर्थोऽध्यायः

भक्तिमाहात्म्यम् -


श्रीव्यास उवाच -
खे वायौ सलिले वह्नौ मह्यां ज्योतिर्गणेषु च ॥
श्रीकृष्णदेवं पश्यंतो हर्षिताश्च पुनः पुनः ॥१॥
श्रीकृष्णो राधिकानाथः कोटिकंदर्पमोहनः ॥
तन्नेत्रगोचरो याति ब्रुवञ्छ्रीनंदनंदनः ॥२॥
सदानंदं च ते दृष्ट्वा प्रहसंति प्रहर्षिताः ॥
क्वचिद्‌वदंति धावंति नंदंति च क्वचित्तथा ॥३॥
क्वचिद्‌गायंति नृत्यंति क्वचित्तूष्णीं भवन्ति च ॥
कृष्णचंद्रस्वरूपास्ते कृतार्था वैष्णवोत्तमाः ॥४॥
तेषां दर्शनमात्रेण नरो याति कृतार्थताम् ॥
न कालो न यमस्तेषां दंडं दातुं न च क्षमः ॥५॥
गदा कौमोदकी वामे दक्षीणे च सुदर्शनम् ॥
अग्रे शार्ङ्गधनुः पश्चात्पांचजन्यो घनस्वनः ॥६॥
नंदकश्च महाखड्गः शतचन्द्रेषवः शिताः ॥
एतान्यायुधमुख्यानि तांश्च रक्षंत्यहर्निशम् ॥७॥
तथोपरि महापद्मं छायां कर्तुं पुनः पुनः ॥
गरुडः पक्षवातेन श्रमहर्ता सतामपि ॥८॥
यत्र यत्र गताः संतस्तत्र तत्र स्वयं हरिः ॥
तीर्थीकुर्वन् भूमिभागं श्रीमत्पादाब्जरेणुभिः ॥९॥
क्षणं यत्र स्थिताः संतस्तत्र तीर्थानि संति हि ॥
तत्र कोऽपि मृतः पापी याति विष्णोः परं पदम् ॥१०॥
दूरात्संप्रेक्ष्य कृष्णेष्टा नाधयो व्याधयस्तथा ॥
भूतप्रेतपिशाचाश्च पलायंते दिशो दश ॥११॥
नद्यो नदाः पर्वताश्च समुद्राश्च तथापरे ॥
मार्गं ददुश्च साधुभ्योऽनपेक्षेभ्यः समंततः ॥१२॥
साधूनां ज्ञाननिष्ठानां विरक्तानां महात्मनाम् ॥
अजातशत्रूणां तेषां दुर्लभं पुण्यवर्जितैः ॥१३॥
यस्मिन्कुले कृष्णभक्तो जायते ब्रह्मलक्षणम् ॥
तत्कुलं विमलं विद्धि मलीमसमपि स्वतः ॥१४॥
राजन् श्रीकृष्णभक्तस्तु पितॄन्दश कुलोद्‌भवान् ॥
प्रियापक्षेऽपि दश च मातृपक्षे तथा दश ॥१५॥
पुरुषानुद्धरेद्‌राजन्निरयात्पापबंधनात् ॥
साधुसंबंधिनश्चान्ये भृत्या दासाः सुहृज्जनाः ॥१६॥
शत्रवो भारवाहश्च तद्‌गृहे पक्षिणस्तथा ॥
पिपीलिकाश्च मशकास्तथा कीटपतङ्गकाः ॥१७॥
अब्रह्मण्येऽकृष्णसारे सौवीरे कीकटे तथा ॥
म्लेच्छदेशेऽपि देवेश भक्तो लोकान्पुनाति हि ॥१८॥
सांख्ययोगं विना राजंस्तीर्थधर्ममखैर्विना ॥
साधुसंसर्गिनस्तेऽपि प्रयांति हरिमन्दिरे ॥१९॥
इत्थं श्रीकृष्णभक्तानां माहात्म्यं कथितं मया ॥
चतुःपदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ॥२०॥
उग्रसेन उवाच -
परिपूर्णतमे साक्षाच्छ्रीकृष्णे परमात्मनि ॥
दन्तवक्त्रस्य दुष्टस्य ज्योतिर्लीनं बभूव ह ॥२१॥
अहो महदिदं चित्रं सायूज्यं महतामपि ॥
योग्यं स्याद्विप्रमुख्येंद्र कथं चान्येन शत्रुणा ॥२२॥
श्रीव्यास उवाच -
ममाहमिति वैषम्यं भूतानां त्रिगुणात्मनाम् ॥
क्रोधाद्यैर्वर्तते राजन्न हरौ परमात्मनि ॥२३॥
हरौ केनापि भावेन मनो लग्नं करोति यः ॥
याति तद्‌रूपतां सोऽपि भृंगिणः कीटको यथा ॥२४॥
स्नेहं कामं भयं क्रोधमैक्यं सौहृदमेव च ॥
कृत्वा तन्मयतां यांति सांख्ययोगं विना जनाः ॥२५॥
स्नेहान्नंदयशोदाद्या वसुदेवादयोऽपरे ॥
कालाद्‌गोप्यो हरिं प्राप्ता न तु ब्रह्मतया नृप ॥२६॥
तद्‌रूपगुणमाधुर्यभावसंलग्नमानसाः ॥
भयात्कंसस्तव सुतस्तत्सायूज्यं जगाम ह ॥२७॥
क्रोधादयं दंतवक्त्रः शिशुपालादयोऽपरे ॥
ऐक्याच्च यादवा यूयं सौहृदाच्च वयं तथा ॥२८॥
तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥
अहर्निशं हि स्मरणं भवेच्छत्रोर्न कर्हिचित् ॥२९॥
शत्रुभावं हरौ तस्मात्कुर्वंति दनुजादयः ॥३०॥

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
भक्तिमाहात्म्यं नाम चतुर्थोऽध्यायः ॥४॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP