श्रीगर्गसंहिता

विज्ञानखण्डः - द्वितीयोऽध्यायः

व्यासकृतं लोकगतिवर्णनम् -


उग्रसेन उवाच -
धन्योऽस्म्यनुगृहीतोऽस्मि तव वर्णननिर्वृतः ॥
हृदुद्‌भूतं च संदेहं दूरीकर्तुं भवान् क्षमः ॥१॥
कर्मणां सनिमित्तानां का गतिः किं च लक्षणम् ॥
कति भेदा हि तेषां वै वद ब्रह्मन् यथा तथा ॥२॥
व्यास उवाच -
गुणैः सर्वाणि कर्माणि सनिमित्तानि संति हि ॥
तान्येव चानिमित्तानि राजन् त्यक्तफलानि हि ॥३॥
सनिमित्तं च यत्कर्म बंधनं विद्धि यादव ॥
अनिमित्तं च यत्कर्म मोक्षदं परमं शुभम् ॥४॥
सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥
तैर्व्याप्तं हि जगत्सर्वं सर्वार्थमिव विष्णुना ॥५॥
सत्वे प्रलीनाः स्वर्यांति नरलोकं रजोलयाः ॥
तमोलयास्तु नरकं यांति कृष्णं हि निर्गुणाः ॥६॥
पंचाग्नितप्ता अतपन् ये राजन् व्रजवासिनः ॥
लोकं सप्तऋषीणां तु ते यांति गतकल्मषाः ॥७॥
संन्यासाश्रमकर्तारस्त्रिदंडधृतपाणयः ॥
जितेन्द्रियमनोधर्माः सत्यलोकं व्रजंति हि ॥८॥
अष्टांगयोगयोगींद्रा निर्मला उर्ध्वरेतसः ॥
जनलोकं महर्लोकं यांति ते नात्र संशयः ॥९॥
यज्ञकर्ता शक्रलोके वसते शाश्वतीः समाः ॥
दानी चांद्रमसं लोकं व्रती सौरं व्रजत्यलम् ॥१०॥
तीर्थयायी चाग्निलोकं सत्यसंधश्च वारुणम् ॥
वैष्णवाश्चापि वैकुण्ठं शैवाः शैवं व्रजंति हि ॥११॥
पितॄन् यजंति ये नित्यं सुखैश्वर्यप्रजेप्सवः ॥
दक्षिणेन पथाऽऽर्य्यम्णा पितृलोकं व्रजंति ते ॥१२॥
स्वर्लोकं वै तथा स्मार्ताः पंचपूजनसंयुताः ॥
प्रजापतियजो यांति दक्षादींश्च प्रजापतीन् ॥१३॥
भूतानि यांति भूतेज्या यक्षान् यक्षयजस्तथा ॥
ये यस्य भक्तास्तल्लोकान्यांति राजन्न संशयः ॥१४॥
तथा पापरता राजन्दुःसंगवशवर्तिनः ॥
यमलोकं च ते यांति निरयैर्दारुणैर्वृतम् ॥१५॥
पुनरावर्तिनो लोकाः सर्वे चाब्रह्मलोकतः ॥
पुनरावर्तिनो लोकान् विद्धि राजन् महामते ॥१६॥
कर्मणां सनिमित्तानां मार्गमेष गतागतः ॥
तावत्प्रमोदते स्वर्गे यावत्पुण्यं समाप्यते ॥१७॥
क्षीणपुण्यः पतत्यर्वागनिच्छन्कालचालितः ॥
यादवेन्द्र महाबाहो तस्मात्कर्मफलं त्यजेत् ॥१८॥
भक्तो निष्कारणो भूत्वा ज्ञानवैराग्यसंयुतः ॥
प्रेमलक्षणया वाचा हरिभक्तजनप्रियः ॥१९॥
भजेच्छ्रीकृष्णपादाब्जमभयं हंससेवितम् ॥
योः मृत्युः सर्वलोकानां बलात्संहारकारकः ॥२०॥
स यत्र भगवद्धाम्नि गतः सन्मृत्युमाप्नुयात् ॥२१॥
उग्रसेन उवाच -
सर्वे लोका हि भगवन्पुनरावर्तिनः स्मृताः ॥
तेभ्यो जातं च वैराग्यं मनसो मे न संशयः ॥२२॥
श्रीकृष्णधाम परमं यतो नावर्तते गतः ॥
तल्लोकं वद मे ब्रह्मन् क्व चास्ते सर्वतः परम् ॥२३॥
श्रीव्यास उवाच -
ब्रह्मांडेभ्यो बहिर्द्धाम श्रीकृष्णस्य महात्मनः ॥
यद्‌गता न निवर्तंते तद्‌गोलोकं विदुः परम् ॥२४॥
ब्रह्मांडोऽयं जीवसंघः पञ्चाशत्कोटियोजनैः ॥
विस्तृतः परतो द्वाभ्यां शतकोटिविलंघितः ॥२५॥
यदंतरगतो राजन् लक्ष्यते परमाणुवत् ॥
तदंतरगताश्चान्ये कोटिशो ह्यंडराशयः ॥२६॥
न तद्‌भासयते सूर्यो न शशांको न पावकः ॥
कामक्रोधश्च लोभश्च न मोहो यत्र याति च ॥२७॥
न यत्र शोको न जरा न मृत्युर्नार्तिरेव च ॥
न प्रधानं न कालश्च विशंते च गुणाः कुतः ॥२८॥
शब्दब्रह्माप्यनिर्वाच्यं तद्वर्णयितुमक्षमः ॥
श्रीकृष्णतेजःसंभूतास्तत्र संति च पार्षदाः ॥२९॥
अकिंचनाश्च ये दांताः शांता वै समचेतसः ॥
श्रीकृष्णचंद्रपादाब्जामकरंदरसालयाः ॥३०॥
प्रेमलक्षणया भक्त्या सदा निष्कारणाः पराः ॥
लोकानुल्लंघ्य तद्धाम यांति रजन्न संशयः ॥३१॥

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
लोकगतिनिरूपणं नाम द्वितीयोऽध्यायः ॥२॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP