श्रीगर्ग संहिता - विश्वजित्खण्डः - चत्वारिंशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - चत्वारिंशोऽध्यायः

शकुनियुद्धे गरुडागमनम् -


श्रीनारद उवाच -
दैत्ये गतेऽथ शकुनौ भगवान्कमलेक्षणः ॥
कार्ष्ण्यादियादवान्सर्वा-नाहूयेत्थमुवाच ह ॥१॥
श्रीभगवानुवाच -
दैत्योऽयं शकुनिः पूर्वं सुमेरोः पार्श्व उत्तरे ॥
चतुर्युगं वर्जितान्नस्तपसातोषयच्छिवम् ॥२॥
चतुर्युगे व्यतीते तु साक्षाद्देवो महेश्वरः ॥
प्रसन्नो दर्शनं दत्वा वरम् ब्रूहीत्युवाच ह ॥२॥
नत्वाथ शकुनिर्दैत्यः कृतांजलिपुटः शनैः ॥
हृष्टरोमाश्रुपूर्णाक्षः प्राह गद्‌गदया गिरा ॥४॥
मृतः सन्भूमिसंस्पर्शाद्‍भूयात्संजीवितः प्रभो ॥
आकाशे मे मृतिर्देव मा भूयाद्‌घटिकाद्वयम् ॥५॥
दैत्येनोक्तो हरः साक्षाद्दत्वा तस्मै वरद्वयम् ॥
पंजरस्थं शुकं दत्वा प्राह दैत्यं नताननम् ॥६॥
जीवकल्पं शुकं चैनं रक्ष दैत्य सदानघ ॥
अस्मिन्मृते च ज्ञातव्यं निधनं स्वं त्वयासुर ॥७॥
इति दत्त्वा वरं तस्मै रुद्रश्चांतरधीयत ॥
तस्मात्तस्य वधो दुर्गे भविष्यति शुके मृते ॥८॥
श्रीनारद उवाच -
इत्युक्त्वा वीरसदसि भगवान्देवकीसुतः ॥
सुपर्णं शीघ्रमाहूय प्राह प्रहसिताननः ॥९॥
श्रीभगवानुवाच -
शृणु तार्क्ष्य महाबुद्धे गच्छ चंद्रावतीं पुरीम् ॥
शतयोजनविस्तीर्णां दैत्यसेनासमाकुलाम् ॥१०॥
प्रासादैर्गगनस्पर्शै-र्हेमरत्‍नमनोहरैः ॥
विचित्रोपवनारामैः शोभितां दैत्यपुंगवैः ॥११॥
दुर्गे दुर्गे द्वारदेशे रक्षितां दैत्यपुंगवैः ॥
तां द्रष्टुं गरुडो राजन्सूक्ष्मरूपं दधार ह ॥१२॥
अलक्षितो दैत्यवृंदैः पश्यन्प्रासादतोलिकाः ॥
तेषूत्पतन्नुत्पतंश्च शकुनेर्मंदिरे गतः ॥१३॥
प्रेक्षञ्छुकं दैत्यजीवं क्षणं तत्र स्थितोऽभवत् ॥
युद्धार्थं दंशितं तत्र शकुनिं दैत्यपुंगवम् ॥१४॥
नानाशस्त्रधरं वीरं क्रोधपूरितमानसम् ॥
गृहीत्वा तं परिकरे प्राह राजन्मदालसा ॥१५॥
मदालसोवाच -
राजन्सर्वेऽपि सुहृदोऽनुकूला भ्रातरस्तव ॥
मारिताः संगरे भर्त्तः प्रोद्‌भटा दैत्यपुंगवाः ॥१६॥
मा याहि योद्धुं यदुभिरागतो भगवान्हरिः ॥
देहि तस्मै बलिं सद्यो येन श्रेयो ह्यवाप्स्यसि ॥१७॥
शकुनिरुवाच -
हनिष्यामि यदून्सैन्यैर्मे हता भ्रातरो बलात् ॥
मृत्युर्मे नास्ति भूमध्ये शिवस्यापि वरेण मे ॥१८॥
उपद्वीपे चंद्रनाम्नि मतंगे पर्वते शुभे ॥
मे जीवरूपी तु शुको वर्तते सांप्रतं प्रिये ॥१९॥
शंखचूडेन सर्पेण रक्षितोऽहर्निशं शुकः ॥
एतत्कोऽपि न जानाति कथं मृत्युश्च मे भवेत् ॥२०॥
श्रीनारद उवाच -
शुकवार्तां ततः श्रुत्वा गरुडो दिव्यवाहनः ॥
उपद्वीपं तु चंद्राख्यं गन्तुं तस्मान्मनो दधे ॥२१॥
उत्पतन् गरूडो वेगात्समुद्रस्य तटे गतः ॥
द्वीपं विचिन्वंश्चंद्राख्यमाकाशे विचरन् खगः ॥२२॥
शतयोजनविस्तीर्णे समुद्रे भीमनादिनि ॥
पक्षिराट् सिंहलं प्राप लतावृंदमनोहरम् ॥२३॥
तत्र पप्रच्छ गरुडः किं नामास्य जनान्प्रति ॥
सिंहलोऽयमिति श्रुत्वा गरुडः प्रोत्पतन् खगः ॥२४॥
लंका प्राप्तो महावेगात्त्रिकूटशिखरे नृप ॥
लङ्कां प्राप्य ततो वेगात्पांचजन्यं जगाम ह ॥२५॥
पांचजन्याब्धिनिकटे क्षुधितः पक्षिराड् बली ॥
प्रसह्य मीनान् जग्राह तीक्ष्णया तुंडया भृशम् ॥२६॥
तत्र चैको महान्नक्रो लंबितो योजनद्वयम् ॥
प्रचंडवेगो गरुडस्तीक्ष्णया तुंडया च तम् ॥२७॥
बलेन गरुडस्तस्य चकाराकर्षणं तटे ॥
तयोराकर्षणं राजन्मिथोऽभूद्‌घटिकाद्वयम् ॥२८॥
प्रचंडवेगो गरुडस्तीक्ष्णया तुंडया च तम् ॥
तताड पृष्ठे धृष्टांगं दंडेन यमराड्यथा ॥२९॥
नक्ररूपं विहायाशु सोऽभूद्विद्याधरो महान् ॥
नत्वा श्रीगरुडं साक्षात्प्राह प्रहसिताननः ॥३०॥
विद्याधर उवाच -
अहं विद्याधरः पूर्वं नाम्ना वै हेमकुंडलः ॥
आकाशगंगायां स्नातुं गतो दिविजमंडले ॥३१॥
तत्र स्नानं प्रकुर्वंतं ककुत्थं मुनिसत्तम् ॥
पादे गृहीत्वा हास्येन जलांतर्गतवानहम् ॥३२॥
मां शशाप ककुत्थोऽपि त्वं नक्रो भव दुर्मते ॥
मया प्रसादितः शीघ्रं प्रसन्नः सन् वरं ददौ ॥३३॥
तार्क्ष्यतुंडप्रहारेण नक्रत्वात्त्वं विमुच्यसे ॥
तस्य शापादद्य मुक्तः कृपया तव सुव्रत ॥३४॥
श्रीनारद उवाच -
इत्युक्त्वा च गते स्वर्गे विद्याध्रे हेमकुंडले ॥
उड्डितो गरुडस्तस्मात्पक्षाभ्यां व्योममंडले ॥३५॥
हरिणाख्यं चोपद्वीपं प्राप्तवान् वेगतः खगः ॥
अपांतरतमास्तत्र करोति विपुलं तपः ॥३६॥
तस्याश्रमे खगेशस्य पक्षचंद्रं पपात ह ॥
तं दृष्ट्वा प्राह गरुडमपांतरतमा मुनिः ॥३७॥
पक्षं निधाय मे मूर्ध्नि गच्छ पक्षिन्यथासुखम् ॥
पक्षं नीत्वा गतस्तर्क्ष्यो धृत्वा तन्मस्तके च तम् ॥३८॥
तत्समानान्पक्षचन्द्राननेकान्स ददर्श ह ॥
प्राहातिविस्मितं तार्क्ष्यमपांतरमा मुनिः ॥३९॥
यदा यदा हि श्रीकृष्णावतारोऽभूत्तदा तदा ॥
पक्षोऽपि गरुडस्यात्र पतत्येकः सदा खग ॥४०॥
कल्पे कल्पे कृष्णचंद्रावतारः
     पक्षः पक्षो मूर्ध्नि मे सोऽपि सोऽपि ॥
आनंत्याद्वाऽऽद्यन्तवन्तं वदंति
     पक्षिन्मूर्ध्ना नौमि कृष्णाय तस्मै ॥४१॥
श्रीनारद उवाच -
तच्छ्रुत्वा विस्मितस्तार्क्ष्यो नत्वा तं मुनिपुंगवम् ॥
द्वीपं रमणकं प्रागादुत्पतन् व्योममंडलात् ॥४२॥
सर्पेभ्योऽपि बलिं नीत्वा द्वीपमावर्तकं गतः ॥
तत्र दिव्ये सुधाकुंडे सुधां पीत्वा विराड्बली ॥४३॥
शुक्लद्वीपं तु संप्राप्तः प्रपच्छ द्वीपचंद्रभाक् ॥
मया प्रणोदितः पक्षी प्रययावुत्तरां दिशम् ॥४४॥
चन्द्रद्वीपं तु संप्राप्तः पर्वते पतगेश्वरः ॥
जलदुर्गं वह्निदुर्गं वैनतेयो ददर्श ह ॥४५॥
जलदुर्गं चंचुपटे सर्वं कृत्वा विराड्बली ॥
वह्निदुर्गं च तेनापि सांत्वयामास मैथिल ॥४६॥
दरीमुखे शयाना ये दैत्या लक्षं समुत्थिताः ॥
तैः सार्द्धं समभूद्युद्धं तार्क्ष्यस्य घटिकाद्वयम् ॥४७॥
कांश्चित्पादनखैर्युद्धे विददार खगेश्वरः ।
कांश्चिद्दैत्यान्स्वपक्षाभ्यां पातयामास भूतले ॥४८॥
कांश्चिच्चंचुपुटेनापि गृहीत्वा पक्षिराड्बली ॥
पातयित्वा गिरेः पृष्ठे चिक्षेप गगने बलात् ॥४९॥
केचिन्मृतास्तथा शेषा दुद्रुवुस्ते दिशो दश ॥
इत्थं दैत्यवधं कृत्वा दरीमध्ये गतः खगः ॥५०॥
चकार पादविक्षेपं शंखचूडोपरि स्फुरत् ॥
शंखचूडोऽपि गरुडं दृष्ट्वा सोऽतिप्रधर्षितः ॥५१॥
शुकं जले पंजरस्थं शीघ्रं त्यक्त्वा पलायितः ॥
चंचुदेशेन तं नीत्वा शुकं सद्यः सपंजरम् ॥५२॥
प्रोत्पतन्नंबरे राजन् युद्धे गन्तुं मनो दधे ॥
पलायितानां दैत्यानां तावत्कोलाहलो महान् ॥५३॥
शुको नीतः शुको नीतो वदतामंबरे नृप ॥
तच्छब्दो दिक्षु सैन्यानां गतशब्दस्तु शृण्वताम् ॥५४॥
दिवि भूमौ सर्वतोऽपि ब्रह्मांडेऽपि प्रपूरितः ॥
शुको नीत इति श्रुत्वा शकुनिः शंकितोऽसुरैः ॥५५॥
शूलं धृत्वा ततः सद्यश्चंद्रावत्यां समुत्थितः ॥
गरुडेन शुको नीतः श्रुत्वा क्रुद्धः समन्वयात् ॥५६॥
तच्छूलताडितस्तार्क्ष्यो न जहौ मुखतः शुकम् ॥
सप्तद्वीपान्सप्तसिंधून्निरीक्षन्स गतः खगः ॥५७॥
तमन्वधावद्दैत्येंद्रो दिक्षु दिक्षु नभोंतरे ॥
भ्रमन्नागांतको राजन्नाकाशे कोटियोजनम् ॥५८॥
दैत्यत्रिशूलक्षतभृन्न जहौ मुखतः शुकम् ॥
सपंजरः शुको राजन्नाकाशे लक्षयोजनम् ॥५९॥
पपातोपलवद्वेगात्सुमेरोर्गिरिमूर्द्धनि ॥
पंजरोऽगात्खगस्तत्र विशीर्णोऽभूद्व्यसुः शुकः ॥६०॥
गरुडोऽथ महायुद्धे कृष्णपार्श्वं समागतः ॥
दैत्यः खिन्नमना राजन्पुरीं चन्द्रावतीं ययौ ॥६१॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
गरुडागमो नाम चत्वारिंशोऽध्यायः ॥४०॥


GO TOP