श्रीगर्गसंहिता

विश्वजित्खण्डः - एकोनचत्वारिंशोऽध्यायः

शकुनियुद्धे कृष्णागमनम् -


श्रीनारद उवाच -
शकुनिः पुनरुत्थाय स्वबलं वीक्ष्य पोथितम् ॥
जग्राह स महाराज लक्षभारसमं धनुः ॥१॥
निधाय बाणं निशितं कोदण्डे चण्डविक्रमे ॥
कार्ष्णिं प्राह रणे राजञ्छकुनिर्दैत्यराड्बली ॥२॥
शकुनिरुवाच -
कर्म प्रधानं जगतीतले मह-
     त्कर्मैव साक्षाद्‌गुरुरीश्वरः प्रभुः ॥
उच्चावचत्वं भवतीह कर्मणा
     तेनैव राजन् विजयः पराजयः ॥३॥
गवां सहस्रेषु यथा हि वत्सकः
     स्वमातरं विंदति पश्यतां सताम् ॥
तथा हि येनापि कृतं शुभाशुभं
     नरेषु तिष्ठत्सु तमेव गच्छति ॥४॥
ततो विजेष्यामि दृढेन कर्मणा
     रिपुं भवन्तं शपथः कृतो मया ॥
सद्यः कुरु त्वं प्रतिकारमेव त-
     द्येनापि न स्याद्‌भुवि ते पराजयः ॥५॥
श्रीप्रद्युम्न उवाच -
कर्म प्रधानं यदि मन्यसे भवान्
     कालं विना तर्हि फलं न विद्यते ॥
कृते च पाके यदि विघ्नता क्वचित्
     सदा बलिष्ठं समयं विदुः परे ॥६॥
पाकप्रकारे सति पाकसाधनं
     कदापि कर्तारमृते न जायते ॥
वदन्ति कर्तारमतः परं परे
     न कर्म कालं शृणु दैत्यपुंगव ॥७॥
योगं विदुः केऽपि यदा ह्ययोगतः
     कथं भवेत्कौ किल पाकसाधनम् ॥
सर्वं हि वा योगमृते वृथा भवे-
     त्काले तथा कर्मणी कर्तरि स्थिते ॥८॥
योगं तथा कर्मणि कर्तरि स्थिते
     काले विधिः सांख्यमृते वृथा भवेत् ॥
पाकप्रकाराद्यविचारकृद्यदा
     न तर्हि पाकस्य यथा प्रसाधनम् ॥९॥
योगकर्मविधिकारकसंख्यै-
     र्ब्रह्मपूरुषमृते न हि किंचित् ॥
तं नमामि परिपूर्णतमांशं
     येन विश्वमखिलं विदितं खे ॥१०॥
शकुनिरुवाच -
हे प्रद्युम्न महाबाहो त्वं साक्षाज्ज्ञानशेवधिः ॥
तव दर्शनमात्रेण नरो याति कृतार्थताम् ॥११॥
ये त्वसंगं समासाद्य वार्तां कुर्वन्ति नित्यशः ॥
तेषां तु महिमानं हि वक्तुं नालं चतुर्मुखः ॥१२॥
श्रीनारद उवाच -
इत्युक्त्वा शकुनिर्दैत्यो मायावी दैत्यराड्बली ॥
शिक्षितं मयदैत्येन रौरवास्त्रं समादधे ॥१३॥
महोरगा दंदशूका वृश्चिकाश्च विषोत्कटाः ॥
कोटिशो गरुडा बाणान्नीलकंठाः कलापिनः ॥१४॥
तैर्दर्शितं बलं सर्वं फूत्कारैर्मत्ततां गतम् ॥
वीक्ष्य कार्ष्णीर्महाबुद्धिर्गरुडास्त्रं समादधे ॥१५॥
कोटिशो गरुडा बाणान्नीलकंठाः कलापिनः ॥
अन्ये च पक्षिणो भीमा निर्गतास्तस्य पश्यतः ॥१६॥
अग्रसन्नुरगान्युद्धे दन्दशूकान्सवृश्चिकान् ॥
तीक्ष्णतुण्डा बृहत्पक्षाः क्षणात्तेऽदृश्यतां गताः ॥१७॥
दैत्योऽपि राक्षसीं मायां गांधर्वी गौह्यकीं पुनः ॥
पैशाचीं संदधे राजञ्छकुनिर्युद्धदुर्मदः ॥१८॥
तद्‌बाणनिर्गता भूतास्तथा प्रेताश्च कोटिशः ॥
अंगारान्मुमुचुस्ते वै करालाः कृष्णरूपिणः ॥१९॥
ज्ञात्वाथ तामसीं मायां पैशाचीं मीनकेतनः ॥
सत्त्वास्त्रं संदधे बाणे युद्धकांक्षी हरेः सुतः ॥२०॥
तस्माद्विनिर्गता राजन् कोटिशो विष्णुपार्षदाः ॥
जघ्नुः पिशाचीं तां मायां पन्नगीं गरुडो यथा ॥२१॥
मायां दैत्योऽपि मायावी गौह्यकीं संदधे पुनः ॥
संभूताः कोटिशो मेघा गर्जतो भीमरूपिणः ॥२२॥
विष्ठां मूत्रं च रुधिरं मेदोमज्जास्थिवर्षिणः ॥
ज्ञात्वाथ गौह्यकीं मायां प्रद्युम्नो भगवान्हरिः ॥२३॥
तन्नाशार्थं महाराज कोलास्त्रं संदधे त्विषौ ॥
तद्‌गणाद्यज्ञवाराहो निर्गतो घर्घरस्वनः ॥२४॥
सटा विधूय वेगेन दंष्ट्रया तीक्ष्णया घनान् ॥
विदारयन्‍रणे रेजे वेणून्मत्तगजो यथा ॥२५॥
दैत्योऽथ मायां गांधर्वीं चकार रणमण्डले ॥
युद्धं न दृश्यते तद्वद्धेमसौधानि कोटिशः ॥२६॥
वस्त्रालंकारयुक्तानि बभूवुः पश्यतां सताम् ॥
विद्याधर्यश्च गन्धर्वा गायन्तो नृत्यतत्पराः ॥२७॥
मृदङ्गतालवादित्रैर्मोहनै रागमिश्रितैः ॥
हावभावकटाक्षैश्च तोषयंत्यो जनान्नृप ॥२८॥
मोहिन्यः सुन्दरी रामाः श्यामाः कमललोचनाः ॥
तासां लावण्यरागाभ्यां मोहं यातेषु वृष्णिषु ॥२९॥
गांधर्वीं मोहिनीं मायां ज्ञात्वा कार्ष्णिर्महाबलः ॥
संदधे तत्प्रहारार्थे ज्ञानास्त्रं रणमण्डले ॥३०॥
ज्ञानोदये तदा जाते मोहनाशो नृपेश्वर ॥
नाशं गतायां मायायां शकुनिः क्रोधमूर्च्छितः ॥३१॥
राक्षसीं संदधे मायां मायावी दैत्यपुंगवः ॥
सपक्षैः पर्वतै राजन् क्षणात्तच्छादितं नभः ॥३२॥
महांधकारोऽभूत्पृथ्व्यां परार्द्धं च घनैरिव ॥
दग्धवृक्षशिलास्थीनि कबंधरुधिराणि च ॥३३॥
गदापरिघनिस्त्रिंशमुसलादीनि सर्वतः ॥
अंबराद्‌बभ्रमुः शैला मेघा इव विदेहराट् ॥३४॥
रक्षोगणाः शूलहस्ताश्छिन्धि भिंधीति वादिनः ॥
यातुधानाश्च शतशो भक्षयन्तो द्विपान्हयान् ॥३५॥
सिंहव्याघ्रवराहाश्च दृश्यंते रणमण्डले ॥
मर्दयन्तो नखैर्नागांश्चर्वयंतो वपूंषि वै ॥३६॥
पलायमानं स्वबलं दृष्ट्वा कार्ष्णीर्महाबलः ॥
जेतुं तां राक्षसीं मायां नृसिंहास्त्रं समादधे ॥३७॥
आविर्भूतो हरिः साक्षान्नृसिंहो रौद्ररूपधृक् ॥
स्फुरत्सटो ललज्जिह्वो नखलांगूलभूषितः ॥३८॥
चलद्‌बालो भीषणास्यो हुङ्कारेणातिभीषणः ॥
सिंहनादं च कुर्वन् वै संस्थितो रणमण्डले ॥३९॥
ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥
विचेलुर्दिग्गजास्तारा राजद्‌भूखंडमण्डलम् ॥४०॥
गृहीत्वा ह्यंबरे शैलान्सवृक्षान्नखरः खरैः ॥
पातयामास भूपृष्ठे दैत्यानां च प्रपश्यताम् ॥४१॥
रक्षोगणान्संगृहीत्वा पाटयामास वेगतः ॥
यातुधानगणान्पद्‌भ्यां स ममर्द हरिर्मृधे ॥४२॥
सिंहान्व्याघ्रान्वराहांश्च संविदार्य नखैः खरैः ॥
चिक्षेप गगने विष्णुस्तत्रैवांतर्दधे पुनः ॥४३॥
नाशं गतायां मयायां राक्षस्यां रुक्मिणीसुतः ॥
शंखं दघ्मौ विजयदं मौलेन्द्रं च रणांगणे ॥४४॥
अभूज्जयजयारावो दुन्दुभिध्वनिमिश्रितः ॥
प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥४५॥
स्वमायायां निर्गतायां शकुनिर्दैत्यपुंगवः ॥
सरथः सैनिकैः सार्द्धं तत्रैवांतर्हितोऽभवत् ॥४६॥
मायां चकार दैतेयीं मयदैत्यप्रदर्शिताम् ॥
हस्तिशुण्डासमां धारां वर्षतोऽतितडित्स्वनाः ॥४७॥
सांवर्त्तकगणा मेघा आजग्मुः पश्यतां सताम् ॥
क्षणात्सर्वे समुद्रास्ते चण्डवातेन वेपिताः ॥४८॥
क्षुभिता उर्मिसङ्घर्षावर्तैः प्लावितभूरुजाः ॥
भूमण्डलं सपदि तत्प्लावितं चात्मभिः समम् ॥४९॥
दृष्ट्वाथ यादवाः सर्वे प्रापुस्तत्र भयं बहु ॥
वदन्तो रामकृष्णेति विस्मृतस्वपराक्रमाः ॥५०॥
क्षणमात्रेण राजेंद्र तूष्णींभूताः पराजिताः ॥
तदा कार्ष्णिर्महाबाहुः कोदण्डे चण्डविक्रमे ॥
बाणं निधाय सहसा श्रीकृष्णास्त्रं समादधे ॥५१॥
नवार्ककोटिद्युतिमन्महन्महो
     वीरं जयन्मैथिल वै दिशो दश ॥
समागतं तत्र कुशस्थलीपुरः
     स्वयं परं स्वार्थमिवात्मवांछितम् ॥५२॥
तस्मिन्परे तेजसि नूतनांबुद-
     च्छविं सुवर्णांबुजरेणुवाससम् ॥
भृंगावलीकूजितकुन्तलावलिं
     स्रजं दधानं नववैजयन्तीम् ॥५३॥
श्रीवत्सरत्‍नोत्तमचारुवक्षसमं
     चतुर्भुजं पद्मविशालवीक्षणम् ॥
स्फुरत्किरीटं वरहारनूपुरं
     लसन्नवार्कद्युतिहेमकुण्डलम् ॥५४॥
विलोक्य देवं यदवोऽतिहर्षिताः
     परं प्रणेमुः कृतहस्तसंपुटाः ॥
प्रचक्रिरे मैथिल पुष्पवर्षिणो-
     ऽमरा जयारावमतीव सर्वतः ॥५५॥
स दैत्यशकुनेः सज्जं कोदंडं प्राच्छिनद्रुषा ॥
शार्ङ्‌गमुक्तेन तच्छार्ङ्‌गी बाणेनैकेन लीलया ॥५६॥
स छिन्नधन्वा शकुनिस्त्यक्त्वा युद्धं प्रधर्षितः ॥
हेतिसंहतिमानेतुं ययौ चन्द्रावतीं पुरीम् ॥५७॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
श्रीकृष्णागमनं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥


GO TOP