श्रीगर्ग संहिता - विश्वजित्खण्डः - एकचत्वारिंऽशोध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - एकचत्वारिंऽशोध्यायः

शकुनिदैत्यवधम् -


श्रीनारद उवाच -
दैत्यान शेषान् समानीय नानायुद्धधरो बली ॥
उच्चैःश्रवसमूहाय हयं दिव्य मनोहरम् ॥१॥
धनुष्टंकारयन्वीरः शकुनिः क्रोधमूर्च्छितः ॥
आययौ संमुखे योद्धुं श्रीकृष्णस्यापि संमुखे ॥२॥
पुनः प्राप्तं दैत्यसैन्यं शकुनिं युद्धदुर्मदम् ॥
तं वीक्ष्य वृष्णयः सर्वे जगृहुः स्वायुधानि च ॥३॥
दैत्यानां यदुभिः सार्द्धं घोरं युद्धं बभूव ह ॥
वीरैः संयुयुधुर्वीराः सिंहाः सिंहैरिवाहवे ॥४॥
सर्वेषामग्रतः प्राप्तः कोदंडं नादयन्मुहुः ॥
शकुनिर्मेघवद्‌राजन् चक्रे नाराचदुर्दिनम् ॥५॥
बाणांधकारे संजाते भगवान् गरुडध्वजः ॥
शार्ङ्‌गी शार्ङ्‌गेण धनुषा यथेंद्रेण घनो बभौ ॥६॥
श्रीकृष्णो भगवान्साक्षाच्छकुनेरसुरस्य च ॥
चिच्छेद बाणपटलं बाणेनैकेन लीलया ॥७॥
आकृष्य कर्णपर्यंतं कोदंडं शकुनिर्मृधे ॥
तताड दशभिर्बाणैः श्रीकृष्णहृदि मैथिल ॥८॥
प्रलयाब्धिमहावर्त-भीमसंघर्षनादिनीम् ॥
धनुर्ज्यां शकुनैः शौरिश्चिच्छेद दशभिः शरैः ॥ ९॥
मायावी शकुनिर्दैत्यः शतरुपी बभूव ह ॥
युयोध हरिणा युद्धे सर्वेषां पश्यतां नृप ॥१०॥
सहस्राणि स्वरूपाणि धृत्वा साक्षाद्धरिः स्वयम् ॥
युयुधे तेन दैत्येन तदद्‍भुतनिवाभवत् ॥११॥
मयदैत्येन रचितं त्रिशूलं ज्वलनप्रभम् ॥
भ्रामयित्वाथ हरये प्राहिणोद्दैत्यराड् बली ॥१२॥
ततः क्रुद्धो महाबाहुः परिपूर्णतमो हरिः ॥
चिच्छेद तं तीक्ष्णतुंडं पन्नगं गरुडो यथा ॥१३॥
ततः क्रुद्धो महाबाहुर्गदां चिक्षेप मूर्द्धनि ॥
हयात्तं पातयामास गदया वज्रकल्पया ॥१४॥
गदाप्रहारव्यथितः क्षणं मूर्च्छां गतोऽसुरः ॥
गृहीत्वा स्वां गदां युद्धे युयुधे माधवेन वै ॥१५॥
तयोर्युद्धमभूद्‌घोरं गदाभ्यां रणमंडले ॥
अभुच्चटचटारावो वज्रनिष्पेषवत्किल ॥१६॥
श्रीकृष्णगदया तस्य चूर्णीभूता गदा भुवि ॥
विरेजेऽङ्‌गारवत्तत्र सर्वेषां पश्यतां मृधे ॥१७॥
गिरिदर्यां यथा सिंहौ वने मत्तौ गजावुभौ ॥
रणमध्ये तथा तौ द्वौ युयुधाते परस्परम् ॥१८॥
श्रीकृष्णं नोदयामास शकुनिः शतयोजनम् ॥
हरिस्तं प्रेषयामास सहस्रयोजनं भुवि ॥१९॥
गृहीत्वा भुजयोस्तं वै जंघाभ्यां भुवनेश्वरः ॥
पातयामास भूपृष्ठे कमंडलुमिवार्भकः ॥२०॥
किंचिद्व्यथां गतो दैत्यो गृहीत्वा जारुधिंगिरिम् ॥
प्राहिणोच्च दुराचारः शकुनिर्युद्धदुर्मदः ॥२१॥
समागतं गिरिं वीक्ष्य भगवान्कमलेक्षणः ॥
जयशब्दं प्रकुर्वंतावन्योन्यं ताडयन् गिरिम् ॥२२॥
चूर्णयामासतू राजंस्तथा चंद्रावतीं पुरीम् ॥
तदा दैत्योऽतिसंक्रुद्धो गृहीत्वा खड्गचर्मणी ॥२३॥
आययौ संमुखे राजञ्छ्रीकृष्णस्य महात्मनः ॥
शार्ङ्‌गी शांर्ङ्‌गं संगृहीत्वाथार्द्धचंद्रमुखं शरम् ॥२४॥
संदधे सहसा युद्धे ग्रीष्ममार्तंडसन्निभम् ॥
शार्ङ्‌गमुक्तो दिव्यबाणो द्योतयन्मंडलं दिशाम् ॥२४॥
शकुनेर्मस्तकं छित्त्वा भूमिं भित्वा तलं गतः ॥
व्यसुर्भूत्वा तदा दैत्यः पतितो रणमण्डले ॥२६॥
भूमिस्पर्शात्सजीवोऽभूत्क्षणमात्रेण मैथिल ॥
करेणादाय मुंडं स्वं स्वकबंधे निधाय सः ॥२७॥
युद्धं कर्तुं समुत्तस्थौ तदद्‌भुतमिवाभवत् ॥
इत्थं कृष्णेन निहतः सप्तवारं महासुरः ॥२८॥
भूमिस्पर्शात्सजीवोऽभूद्‌राहुवत्पुनरुत्थितः ॥
एकाकी यादवकुलं संहारं कर्तुमुद्यतः ॥२९॥
विवेशाशु महादैत्यो वने वह्निरिव प्रभुः ॥
सतुरंगान्महावीरा-न्सशस्त्रानुत्कटान् गजान् ॥३०॥
संगृहीत्वा भुजाभ्यां खं प्राक्षिपल्लक्षयोजनम् ॥
कांश्चिद्‌गजान्मुखे धृत्वा स्कन्धयोरुभयोरपि ॥३१॥
कक्षयोरुभयोर्दैत्यो बभौ कालाग्निरुद्रवत् ॥
पद्‌भ्यां कराभ्यां दैत्यस्य त्रासं याते महामृधे ॥३२॥
हाहाकारो महानासीच्छ्रीकृष्ण्स्य महात्मनः ॥
तदैव भगवान्साक्षाच्छ्रीकृष्णो विश्वरक्षकः ॥
सुदर्शनास्त्रं प्रायुंक्त साधूनां रक्षणाय वै ॥३३॥
तद्धस्तमुक्तं निशितं सुदर्शनं
     लयार्ककोटिद्युतिमज्ज्वलत्प्रभम् ॥
जहार सद्यः शकुनेर्दृढं शिरो
     यथा च वृत्रस्य पविर्महामृधे ॥३४॥
तावद्‍गृहीत्वा शकुनिं महामृधे
     चिक्षेप सद्यो मृतमंबरे बलात् ॥
उत्क्षेपणं भोः कुरुतेषुभिर्दिवि
     यदून् गिरा श्रीपतिरित्युवाच ॥३५॥
श्रीनारद उवाच -
इत्थं हरेर्वचः श्रुत्वा सर्वे यादवपुंगवाः ॥
अंबरात्प्रपतंतं ते तेडुर्बाणैः स्फुरत्प्रभैः ॥३६॥
दैत्यो दीप्तिमतो बाणैरंबरे शतयोजनम् ॥
गतः कंदुकवद्‌राजन्नूर्ध्वं लोकस्य पश्यतः ॥३७॥
सांबस्यापि स बाणेन सहस्रं योजने गतः ॥
पुनस्तमापतंतं खाञ्जघान त्विषुणार्जुनः ॥३८॥
तेन बाणेन दैत्येंद्रो योजनं चायुतं गतः ॥
अनिरुद्धस्य बाणेन लक्षयोजनमास्थितः ॥३९॥
प्रद्युम्नस्यापि बाणेन नियुतं योजनं गतः ॥
पुनस्तमापतंतं खाद्विक्ष्य योगेश्वरेश्वरः ॥४०॥
बाणं समादधे तेन गतः खे कोटियोजनम् ॥
एवं खे संस्थिते दैत्ये व्यतीते प्रहरद्वये ॥४१॥
द्वितीयेनापि बाणेन तं जघान हरिः स्वयम् ॥
सबाणस्तं भ्रामयित्वा दिक्षु वै कोटियोजनम् ॥४२॥
समुद्रे पातयामास वातः पद्ममिव प्रभुः ॥
एवं मृते तदा दैत्ये तज्ज्योतिर्निर्गतं स्फुरत् ॥४३॥
सर्वतोऽपि भ्रमद्‌राजन् श्रीकृष्णे लीनतां गतम् ॥
तदा जयजयारावो दिवि भूमाववर्तत ॥४४॥
विद्याधर्यश्च गधर्व्यो ननृतुः खे सुखान्विताः ॥
जगुः किन्नरगंधर्वास्तुष्टुवुः सिद्धचारणाः ॥४५॥
ऋषयो मुनयः सर्वे प्रशशंसुर्हरिं परम् ॥
ब्रह्मरुद्रेंद्रसूर्याद्याः सर्वे तत्र समागताः ॥४६॥
श्रीकृष्णस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥४७॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
शकुनिदैत्यवधो नामैकचत्वारिंशोऽध्यायः ॥४१॥


GO TOP