श्रीगर्ग संहिता - विश्वजित्खण्डः - त्रिंशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - त्रिंशोऽध्यायः

मानवदेशविजयम् -


श्रीनारद उवाच -
एवं हिरण्मयं खंडं जित्वा कार्ष्णिर्महाबलः ॥
जगाम रम्यकं खंडं देवलोकमिव स्फुरन् ॥१॥
तस्य सीमागिरिः साक्षान्नीलो नाम नगाधिराट् ॥
तत्रोत्तरे कालदेशे नगरी भीमनादिनी ॥२॥
कालनेमिसुतस्तत्र कलंको नाम राक्षसः ॥
त्रेतायुगे रामचन्द्राद्‌भीतो युद्धात्पलायितः ॥३॥
लंकापुर्य्या इहागत्य वासकृद्‌राक्षसैः सह ॥
रक्षसामयुतेनासौ युद्धाय कृतनिश्चयः ॥४॥
खरारूढः कृष्णवर्णो यदूनां बलमाययौ ॥
यदूनां राक्षसानां च घोरं युद्धं बभूव ह ॥५॥
प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्ध्वगः ॥
सह ओजो महाशक्तिरपराजित एव च ॥६॥
लक्ष्मणानंदना ह्येते श्रीकृष्णस्य सुताः शुभाः ॥
सर्वेषामग्रतः प्राप्ता बाणैस्तीक्ष्णैः स्फुरत्प्रभैः ॥७॥
राक्षसानां बलं जघ्नुर्वायुवेगैर्यथा घनम् ॥
बाणौघैश्छिन्नभिन्नांगा राक्षसा रणदुर्मदाः ॥८॥
त्रिशूलानां मुद्‌गराणां वर्षं चक्रुर्मदोत्कटाः ॥
कलंकस्तु तदा प्राप्तश्चर्वयन्वारणान् रथान् ॥९॥
हयान्नरान्सशस्त्रास्त्रान्मुखे चिक्षेप सत्वरम् ॥
गजान्पादेषु चोन्नीय सनीडान् रत्‍नकंबलान् ॥१०॥
घंटानादसमायुक्तान्प्राक्षिपच्चांबरे बलात् ॥
प्रघोषः श्रीहरेः पुत्रः कपींद्रास्त्रं समादधे ॥११॥
तद्‌बाणनिर्गतः साक्षाद्वायुपुत्रो महाबलः ॥
वातस्तूलमिवाकाशे चिक्षेप शतयोजनम् ॥१२॥
हनुमंतं तदा ज्ञात्वा कलंको राक्षसेश्वरः ॥
लक्षभारमयीं गुर्वीं गदां चिक्षेप नादयन् ॥१३॥
उत्पपात कपिर्वेगाद्‌गदा भूमौ पपात ह ॥
ऊत्पतन् वानराधीशो भ्रूभंगं कारयन्मुहुः ॥१४॥
मुष्टिना घातयित्वा तं किरीटं तस्य चाददे ॥
कलंकोऽपि तदा तस्मै त्रिशूलं स्वं समाददे ॥१५॥
उत्पतन्स कपिर्वेगात् पृष्ठिदेशं पपात ह ॥
हनुमांस्तं तदा दोर्भ्यां पातयित्वा महीतले ॥१६॥
वैदूर्यपर्वतं नीत्वा तस्योपरि समाक्षिपत् ॥
गिरिपातेन चूर्णांगो मर्दितः पंचतां ययौ ॥१७॥
तदा जयजयारावः शंखध्वनियुतोऽभवत् ॥
हनुमान् भगवान् साक्षात्तत्रैवांतरधीयत ॥१८॥
प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥
अथ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥१९॥
मनोहरां स्वर्णमयीं मानवीं नगरीं ययौ ॥
नैःश्रेयसवनं तत्र कल्पवृक्षलतावृतम् ॥२०॥
हरिचंदनमंदारपारिजातोपशोभितम् ॥
संतानमोदसंमिश्रवायुभिः सुरभीकृतम् ॥२१॥
केतकीचंपकलताकुटजैः परिसेवितम् ॥
माधवीनां लताजालैः पुष्पितैः सफलैर्वृतम् ॥२२॥
नदद्विहंगालिकुलैर्वैकुंठमिव सुंदरम् ॥
योजनानां पंचशतं लंबितं चारुधिं गिरिम् ॥२३॥
अधोऽधः शोभितं राजञ्छतयोजनविस्तृतम् ॥
पुंस्कोकिलैः कोकिलैश्च मयूरैः सारसैः शुकैः ॥२४॥
चक्रवाकैश्चकोरैश्च हंसैर्दात्यूहकूजितम् ॥
सर्वर्तुपुष्पशोभाढ्यमाक्षिपन्नंदनं वनम् ॥ २५॥
मृगशावा रमंते वै शार्दूलैः सह मैथिल ॥
नकुलाः फणिभिः सार्द्धं यत्र वैरविवर्जिताः ॥२६॥
अयुतं सरसां यत्र भ्रमरध्वनिसंयुतम् ॥
सहस्रपत्रैः कमलैः शतपत्रैः स्फुरत्प्रभैः ॥२७॥
इतस्ततो वर्तमानमानंदमिव मूर्तिमत् ॥
तद्वनं सुंदरं दृष्ट्वा निर्गतान्नगरीजनान् ॥
पप्रच्छ वांछितं साक्षात्प्रद्युम्नः सर्ववित्कविः ॥२८॥
श्रीप्रद्युम्न उवाच -
कस्येयं नगरी रम्या कस्येदं वनमद्‌भुतम् ॥
वदताशु सविस्तारं हे लोकाः पुण्यशासनाः ॥२९॥
जना ऊचुः -
वैवस्वतो मनुर्नाम यो ह्येवं वर्तते नृप ॥
मानवे च गिरौ रम्ये मत्स्यं नारायणं हरिम् ॥३०॥
वर्तमानं सदा नत्वा करोति विपुलं तपः ॥
तस्येयं नगरी रम्या तस्य नैःश्रेयसं वनम् ॥३१॥
वैकुण्ठाच्च समानीता भूमिश्चायं गिरिस्तथा ॥
यूयं सर्वेऽपि राजानस्तस्य वंशभवाः क्षितौ ॥
सूर्यवंशांतरे राजंश्चन्द्रवंशांतरे हि भोः ॥३२॥
श्रीनारद उवाच -
क्षत्रियाणां च सर्वेषां वृद्धं तं प्रपितामहम् ॥
श्राद्धदेवं मनुं ज्ञात्वा विस्मितोऽभूद्धरेः सुतः ॥३३॥
श्रुत्वा वचस्तदा सद्यो भ्रातृभिर्यदुभिर्वृतः ॥
मानवाद्रिं समारुह्य श्राद्धदेवं ददर्श ह ॥३४॥
शतसूर्यप्रभं कांत्या द्योतयंतं दिशो दश ॥
महायोगमयं साक्षाद्‌राजेंद्रं शांतरूपिणम् ॥३५॥
वेदव्यासशुकाद्यैश्च वसिष्ठधिषणादिभिः ॥
परस्परं महाराज शृण्वन्तं श्रीहरेर्यशः ॥३६॥
ननाम कर्ष्णिर्यदुभिः सहैव तं
     कृतांजलिस्तत्र समास्थितोऽभवत् ॥
मनुः समुत्थाय हरेः प्रभाववि-
     द्दत्त्वाऽऽसनं गद्‌गदया गिराब्रवीत् ॥३७॥
मनुरुवाच -
नमस्ते वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥३८॥
अनादिरात्मा पुरुषस्त्वमेव
     त्वं निर्गुणोऽसि प्रकृतेः परस्त्वम् ॥
सदा वशीकृत्य बलात्प्रधानं
     गुणैः सृजस्यत्सि च पासि विश्वम् ॥३९॥
ततो विवेकं स विहाय सर्वतो
     मत्वाखिलं चात्र मनोमयं जगत् ॥
मायापरं निर्गुणमादिपूरुषं
     सर्वज्ञमाद्यं पुरुषं सनातनम् ॥४०॥
जागर्ति योऽस्मिञ्छयनं गते सति
     नायं जनो वेद सतः परं तम् ॥
पश्यंतमाद्यं पुरुषं हि यज्जनो
     न पश्यति स्वच्छमलं च तं भजे ॥४१॥
यथा नभोऽग्निः पवनो न सज्जते
     घटे न काष्ठे न रजोभिरावृतैः ॥
तथा भवान्सर्वगुणैश्च निर्मलो
     वर्णैर्यथा स्यात्स्फटिको महोज्ज्वलः ॥४२॥
व्यंगेन वा लक्षणया च वाक्पथै-
     रर्थं पदं स्फोटपरायणैः परम् ॥
न ज्ञायते यद्धनिनोत्तमेन स-
     द्वाच्येन तद्‍ब्रह्म कुतस्तु लौकिकैः ॥४३॥
वदन्ति केचिद्‍भुवि कर्मकतृ य-
     त्कालं च केचित्परयोगमेव तत् ॥
केचिद्विचारं प्रवदन्ति यच्च त-
     द्‍ब्रह्मेति वेदांतविदो वदन्ति ॥४४॥
यं न स्पृशंतीह गुणा न कालजा
     ज्ञानेन्द्रियं चित्तमनो न बुद्धयः ॥
महन्न वेदो वदतीति तत्परं
     विशंति सर्वेऽनलविस्फुलिंगवत् ॥४५॥
हिरण्यगर्भं परमात्मतत्वं
     यद्वासुदेवं प्रवदन्ति संतः ॥
एवंविधं त्वां पुरुषोत्तमोत्तमं
     मत्वा सदाहं विचराम्यसङ्गः ॥४६॥
श्रीनारद उवाच -
मनोर्वाक्यं तदा श्रुत्वा प्रद्युम्नो भगवान्हरिः ॥
मन्दस्मितो मनुं प्राह गीर्भिः संमोहयन्निव ॥४७॥
प्रद्युम्न उवाच -
त्वं नो गुरुः क्षत्रियाणामादिराजः पितामहः ॥
मत्पूजनीयो वृद्धोऽसि श्लाघ्यो धर्मधुरंधरः ॥४८॥
वः प्रजाश्च वयं राजन् रक्ष्याः पाल्याश्च सर्वतः ॥
भवता तप्यते दिव्यं तपस्तेन जगत्सुखम् ॥४९॥
मृग्यस्त्वत्सदृशः साधुः परमात्मा हरिः स्वयम् ॥
नृणामंतस्तमोहारी साधुरेव न भास्करः ॥५०॥
श्रीनारद उवाच -
इत्युक्त्वा भगवान् कार्ष्णिरनुज्ञाप्य प्रणम्य तम् ॥
परिक्रम्य मनुं राजन् स्वयं भूमौ जगाम ह ।५१॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
मानवदेशविजयो नाम त्रिंशोऽध्यायः ॥३०॥


GO TOP