श्रीगर्ग संहिता - विश्वजित्खण्डः - एकोनत्रिंशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - एकोनत्रिंशोऽध्यायः

हिरण्यखण्डविजयम् -


श्री नारद उवाच -
प्रद्युम्नोऽथ महाबाहुर्जित्वाऽऽरादुत्तरान्कुरुन् ॥
हिरण्मयं नाम खंडं जेतुं कार्ष्णिर्जगाम ह ॥१॥
यत्र सीमागिरिर्दीर्घः स्रोतो नाम स्फुरद्द्युतिः ॥
तत्र कूर्मो हरिः साक्षादर्यमा यस्य देशिकः ॥२॥
पुष्पमालानदीतीरे नाम्ना चित्रवनं महत् ॥
सपुष्पफलभाराढ्यं कन्दमूलनिधिः स्वतः ॥३॥
वानराः संति तत्रापि वंशजा नलनीलयोः ॥
न्यस्ताः श्रीरामचन्द्रेण त्रेतायां मैथिलेश्वर ॥४॥
सैन्यघोषं च तं श्रुत्वा युद्धकामा विनिर्गताः ॥
प्रद्युम्नसैन्ये चोत्पेतुर्भ्रूभंगैः क्रोधमूर्च्छिताः ॥५॥
नखैर्दंतैश्च लांगूलैर्गजानश्वान्नरान्नृप ॥
लांगूलैश्च रथान्बध्वा चिक्षिपुश्चांबरे बलात् ॥६॥
विजयध्वजनाथस्य विजयश्चार्जुनस्य च ॥
रथं बद्ध्वाथ लांगूले केचिदुत्पेतुरंबरे ॥७॥
कपिध्वजध्वजे साक्षात्कपींद्रो भगवान्प्रभुः ॥
क्रोधाढ्यः फाल्गुनसखः समग्रं सर्वतो दिशम् ॥८॥
लांगूलेन च तान्बद्ध्वा पातयामास भूतले ॥
तदा प्रहर्षिताः सर्वे ज्ञात्वा श्रीरामकिंकराः ॥९॥
नेमुस्तं सर्वतो राजन् कृतांजलिपुटाः शनैः ॥
केचिदालिंगनं चक्रुः केचिदुत्पेतुरोजसा ॥१०॥
केचिच्चुचुंबुर्लांगूलं केचित्पादं च वानराः ॥
तानालिंग्य महावीराः स्पृष्ट्वा सत्पाणिना पुनः ॥११॥
दत्वाऽऽशिषं तत्कुशलं पप्रच्छाथांजनीसुतः ॥
नत्वा तं वानराः सर्वे जग्मुश्चित्रवनं नृप ॥१२॥
हनुमानर्जुनस्यापि ध्वजे ह्यंतरधीयत ॥
मकराख्यात्ततो देशात्प्रद्युम्नो मीनकेतनः ॥१३॥
ययौ वृष्णिवरैः सार्द्धं दुन्दुभीन् वादयन्मुहुः ॥
मकरस्य गिरेः पार्श्वे दुन्दुभिध्वनिभिस्ततः ॥१४॥
मधुभक्ष्या मधुकराः कोटिशः प्रोथिताः किल ॥
तैर्दंशितं बलं सर्वं हस्तिचीत्कारसंयुतम् ॥१५॥
तदा कार्ष्णिर्महाबाहुः पवनास्त्रं समादधे ॥
तद्‌वातताडीता राजन्गतास्तेऽपि दिशो दश ॥१६॥
तत्र देशे जना राजन् सर्वे वै मकराननाः ॥
ततस्तु डिंडिभो देशस्तत्र हस्तिमुखा जनाः ॥१७॥
एवं देशांस्ततः पश्यंस्त्रिशृङ्गविषयान्गतः ॥
कार्ष्णिर्ददर्श तत्रापि मनुष्या शृङ्गधारिणः ॥१८॥
त्रिशृङ्गस्य गिरेः पार्श्वे नगरीं स्वर्णचर्चिकाम् ॥
हेमसौधमयीं दिव्यां रत्‍नप्राकारमंडिताम् ॥१९॥
हिरण्यवर्णैः पुरुषैः स्त्रीजनैश्च तडिद्द्युभिः ॥
नागैश्च नागकन्याभिः पुरीं भोगवतीमिव ॥२०॥
चन्द्रकांतानदीतीरे शोभितां मंगलालयाम् ॥
कार्ष्णिः समाययौ राजन् यथा शक्रोऽमरावतीम् ॥२१॥
तत्र राजा महावीरो नाम्ना देवसखो बली ॥
स मन्मुखाद्‌बलं श्रुत्वा बलिं नीत्वा हिरण्मयम् ॥२२॥
प्रद्युम्नं पूजयामास भक्त्या परमया पुनः ॥
तं पप्रच्छ महाबाहुः प्रद्युम्नो भगवान्हरिः ॥२३॥
चन्द्रवत्ते कथं शोभा सर्वेषां च वदाशु मे ॥
देवसखा उवाच -
अर्यम्णा पितृपतिना कूर्मरूपस्य मापतेः ॥२४॥
अङ्घ्रीप्रक्षलितौ तेन वारिणाभून्महानदी ॥
श्वेतपर्वतशृङ्गाच्चावतरंती यदूत्तम ॥२५॥
प्रमेधाख्यो मनुसुतो गोपालो गुरुणा कृतः ॥
जघान कपिलां रात्रावसितां सिंहशंकया ॥२६॥
वसिष्ठेन तदा शप्तः शूद्रत्वं समुपागतः ॥
कुष्ठेन पीडिततनुः पर्यटंस्तीर्थमाचरन् ॥२७॥
अस्यां नद्यां यदा स्नातो गलत्कुष्ठान्मनोः सुतः ॥
मुक्तोऽभूच्चन्द्रवत्तस्य देहशोभा बभूव ह ॥२८॥
चन्द्रकांता नदी चेयं प्रसिद्धाऽभूद्धिरण्मये ॥
तस्यां मुक्तो यतः स्नात्वा गलत्कुष्ठान्मनोः सुतः ॥२९॥
ततः स्नानं च कर्तारो वयं सर्वे नृपोत्तम ॥
रूपेण चन्द्रतुल्याः कौ भवामोऽत्र न संशयः ॥३०॥
श्रीनारद उवाच -
इति श्रुत्वा महाबाहु प्रद्युम्नो यादवैः सह ॥
चन्द्रकांतां नदीं स्नात्वा ददौ दानान्यनेकशः ॥३१॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
हिरण्मयखंडविजयो नामैकोनत्रिंशोऽध्यायः ॥२९॥


GO TOP