श्रीगर्गसंहिता

विश्वजित्खण्डः - अष्टाविंशोऽध्यायः

उत्तरकुरुविजयम् -


श्रीनारद उवाच -
अथ कार्ष्णिर्महाबाहुः सुमेरोरुत्तरान्कुरुन् ॥
ययौ शृङ्गवतः पार्श्वे विचित्रानृद्धिसंवृतान् ॥१॥
भद्रां गंगां ततः स्नात्वा वाराहीं नगरी ययौ ॥
कुरुखण्डाधिपस्तस्यां चक्रवर्ती गुणाकरः ॥२॥
महासंभृतसंभारो देवर्षिगणसंवृतः ॥
अश्वमेधं समारेभे दशमं स गुणाकरः ॥३॥
तेनोत्सृष्टं हयं श्वेतं श्यामकर्णं मनोहरम् ॥
तस्य पुत्रो वीरधन्वा रक्षितुं निर्गतोऽभवत् ॥४॥
अक्षौहिणीभिर्दशभिर्मंडितश्चंडविक्रमः ॥
विचचार महावीरो वीक्ष्यमाणस्तुरंगमम् ॥५॥
वीरश्चंद्रश्च सेनश्च चित्रगुर्वेगवान्नृपः ॥
आमः शंकुर्वसुः श्रीमान्कुन्तो नाग्नजितेः सुताः ॥६॥
सर्वतस्तं हयं शुभ्रं गृहीत्वा हर्षपूरिताः ॥
कस्योत्सृष्टं वदंतस्ते कार्ष्णिसैन्यं समाययुः ॥७॥
प्रद्युम्नस्तद्‌भालपत्रं पठित्वा विस्मितोऽभवत् ॥
सर्वे विसिस्मुर्यदवो गृहीतपरमायुधाः ॥८॥
तदैव सेना संप्राप्ता विचिन्वंती हयं नृप ॥
दृष्ट्वा रजो यदुबलाद्‍दूरे तस्थौ सुविस्मिता ॥९॥
गुणाकरे राजनि चंडविक्रमे
     न दस्यवः स्युः कुरुखंडमंडले ॥
गवां न कलो न हि चक्रवातकः
     कुतो रजः प्राप्तमहोऽर्कमंडलम् ॥१०॥
एवं वदंती परवाहिनी स्वतः
     कोदंडघोषं दरदस्वनं परम् ॥
करीन्द्रचीत्कारतुरंगहेषणं
     वादित्रमिश्रं समुपाश्रृणोत्ततः ॥११॥
तदोद्धवः कृष्णसुतप्रणोदितो
     बलं समेत्याशु स वीरधन्वनः ॥
प्रणम्य तं प्राह रथस्थितं नृप
     गुणाकरस्यौरसमर्कतेजसम् ॥१२॥
उग्रसेनः क्षितिशेंद्रो द्वारकेशो यदूत्तमः ॥
जम्बूद्वीपनृपाञ्जित्वा राजसूयं करिष्यति ॥१३॥
तेन प्रणोदितो वीरः प्रद्युम्नो धन्विनां वरः ॥
जित्वा तं भारतं खण्डं तथा किंपुरुषं नृपः ॥१४॥
हरिवर्षं ततो जित्वा कुरुखण्डं समागतः ॥
प्रदास्यति बलिं सोऽपि प्रद्युम्नाय महात्मने ॥१५॥
अक्षौहिणीदशयुतो धनदेनापि पूजितः ॥
उपायनं त्वया देयं प्रद्युम्नाय महात्मने ॥॥१६॥
तेन नीतं यज्ञपशुमाहर्तुं कः क्षमः क्षितौ ॥
श्रीकृष्णचन्द्रो भगवान्सहायस्तस्य विद्यते ॥१७॥
शुभं स्याद्दानमानाभ्यां न चेद्‌युद्धं भविष्यति ॥
वीरधन्वोवाच -
गुणाकरो नृपेशो यः शक्रेणापि प्रपूजितः ॥१८॥
न दास्यति बलिं सोऽपि प्रद्युम्नाय महात्मने ॥
शृङ्गवत्पर्वते रम्ये वाराहो विद्यते हरिः ॥१९॥
यस्य सेवां सदा भूमिः करोति परमादरात् ॥
तस्य क्षेत्रे तपस्तेपे ध्यात्वा देवं गुणाकरः ॥२०॥
वर्षाणामयुते पूर्णे हरिर्वाराहरूपधृक् ॥
संतुष्टो नृपतिं भक्तं वरं ब्रूहीत्युवाच ह ॥२१॥
राजोवाच हरिं नत्वा रोमांची प्रेमविह्वलः ॥
भगवंस्त्वामृते देवोऽसुरोऽन्योऽपि नरोऽथवा ॥२२॥
मां जेता न भवेद्‌भूमावीप्सितोऽयं वरो मम ॥
तथास्तु चोक्त्वा भगवांस्तत्रैवांतरधीयत ॥२३॥
तस्मात्तस्य यशः शीघ्रं कर्तव्यं मोचनं स्वतः ॥
नचेद्‌भवद्‌भिश्च कलिं करिष्यामि न संशयः ॥२४॥
श्रीनारद उवाच -
इत्युक्त उद्धवस्तस्मात्स्वां सेनामेत्य भूपते ॥
शशंस सर्वं यद्‍भूतं यदूनां सदसि त्वरम् ॥२५॥
श्रुतकर्मा वृषो वीरः सुबाहुर्भद्र एकलः ॥
शांतिर्दर्शः पूर्णमासः सोमको वर एव च ॥२६॥
कालिन्दीनन्दना ह्येते प्रद्युम्नस्य प्रपश्यतः ॥
अक्षौहिणीभिर्दशभिर्वृता योद्धुं समागताः ॥२७॥
उत्तरैः कुरुभिः सार्द्धं यदूनां चण्डविक्रमैः ॥
बभूव तुमुलं युद्धमब्धीनामब्धिभिर्यथा ॥२८॥
स्फुरद्‌भिर्निशितैः शस्त्रै रेजिरे वीरपुंगवाः ॥
क्षणमात्रेण रुधिरप्रभवा रौद्ररूपिणी ॥२९॥
नदी बभूव राजेन्द्र शतयोजनविस्तृता ॥
विदुद्रुवुस्तदा शेषा उत्तराः कुरवो जनाः ॥३०॥
शरत्काले यथा प्राप्ते मेघसंघा इतस्ततः ॥
पूर्णमासो महावीरः कालिंदीनन्दनो बली ॥३१॥
चूर्णयामास बाणौघैः स्यन्दनं वीरधन्वनः ॥
वीरधन्वापि विरथो धनुष्टङ्कारयन्मुहुः ॥३२॥
जघान बाणविंशत्या पूर्णमासं महाबलम् ॥
पूर्णमासः स्वबाणेन मध्यतस्तान्द्विधाकरोत् ॥३३॥
वीरधन्वाथ चिच्छेद धनुर्ज्यां तस्य नादिनीम् ॥
बाणेनैकेन राजेन्द्र कुवाक्येनेव मित्रताम् ॥३४॥
लक्षभारमयीं गुर्वीं गदामादाय सत्वरम् ॥
जघान वीरधन्वानं पूर्णमासो महाबलः ॥३५॥
गदाप्रहारव्यथितो वीरधन्वा मदोत्कटः ॥
परिघेण जघानाशु पूर्णमासं हरेः सुतम् ॥३६॥
पूर्णमासः समुत्थाय पवनं नाम पर्वतम् ॥
समुत्पाट्य स्थितो भूत्वा हस्ताभ्यां श्रीहरेः सुतः ॥३७॥
भ्रामयित्वाथ चिक्षेप वाराह्यां पुरि वेगतः ॥३८॥
वीरधन्वा प्रपतितो गुणाकरक्रतुस्थले ॥
मूर्च्छितो भग्नवेगोऽभूदुद्वमन् रुधिरं मुखात् ॥३९॥
हाहाकारो महानासीद्‌वाराह्यां पुरि दुःखतः ॥
देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा ॥४०॥
पूर्णमासोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥
यज्ञादुत्थाय नृपतिः पुत्रं दृष्ट्वा च मूर्च्छितम् ॥४१॥
गृहीत्वा दिव्यकोदण्डं युद्धं कर्तुं मनो दधे ॥
होता धर्मविदां श्रेष्ठो मुनीन्द्रः सर्ववित्कविः ॥
गंतुमभ्युत्थितं वीक्ष्य वामदेवस्तमब्रवीत् ॥४२॥
वामदेव उवाच -
राजंस्त्वं हि न जानासि परिपूर्णतमं हरिम् ॥
सुराणां महदर्थाय जातं यदुकुले स्वयम् ॥
भुवो भारावताराय भक्तानां रक्षणाय च ॥४३॥
भूत्वा यदुकुले साक्षाद्‍द्वारकायां विराजते ॥
तेन कृष्णेन पुत्रोऽयं प्रद्युम्नो यादवेश्वरः ॥
उग्रसेनमखार्थाय जगज्जेतुं प्रणोदितः ॥४४॥
गुणाकर उवाच -
परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ॥
लक्षणं वद मे ब्रह्मंस्त्वं परावरवित्तमः ॥४५॥
वामदेव उवाच -
यस्मिन्सर्वाणि तेजांसि विलीयन्ते स्वतेजसि ॥
तं वदंति परं साक्षात्परिपूर्णतमं हरिम् ॥४६॥
अंशाशोंऽशस्तथावेशः कलापूर्णः प्रकथ्यते ॥
व्यासाद्यैश्च स्मृतः षष्ठः परिपूर्णतमः स्वयम् ॥४७॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो नान्य एव हि ॥
एककार्यार्थमागत्य कोटिकार्यं चकार ह ॥४८॥
श्रीनारद उवाच -
श्रुत्वा कृष्णस्य माहात्म्यं बलिं नीत्वा गुणाकरः ॥
वैरं विसृज्य प्रद्युम्नदर्शनार्थं समाययौ ॥४९॥
कार्ष्णिं प्रदक्षिणीकृत्य नत्वा दत्वा बलिं ततः ॥
अश्रुपूर्णमुखो भूत्वा प्राह गद्‌गदया गिरा ॥५०॥
गुणाकर उवाच -
अद्य मे सफलं जन्म कुलं मेऽद्य दिने शुभम् ॥
अद्य क्रतुक्रिया सर्वाः सफलास्तव दर्शनात् ॥५१॥
त्वदंघ्रिभक्तिः परमार्थलक्षणा
     सदा भवेत्सज्जनसंगमात्परा ॥
त्वमेव साक्षान्निजभक्तवत्सलः
     परेश भूमन् परिपाहि पाहि ॥५२॥
प्रद्युम्न उवाच -
ज्ञानवैराग्यसंयुक्ता भक्तिस्ते प्रेमलक्षणा ॥
मद्‌भक्तसङ्गमो भूयाच्छ्री स्याद्‌भागवतां त्विह ॥५३॥
श्रीनारद उवाच -
इत्युक्त्वा भगवान् कार्ष्णिः प्रसन्नो भक्तवत्सलः ॥
ददौ तस्मै नृपतये हयमेधतुरंगमम् ॥५४॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
उत्तरकुरुखंडविजयो नामाष्टाविंशोऽध्यायः ॥२८॥


GO TOP