श्रीगर्ग संहिता - विश्वजित्खण्डः - अथैकत्रिंशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - अथैकत्रिंशोऽध्यायः

मन्मथदेशविजयम् -


श्रीनारद ऊचुः -
इत्थं तु रम्यकं खंडं जित्वा कार्ष्णिर्महाबलः ॥
सुमेरोः पूर्वदिग्भागे केतुमालं जगाम ह ॥१॥
तस्य सीमागिरिः साक्षान्माल्यवान्नाम मैथिल ॥
चतुर्नाम्नी यत्र गंगा महापातकनाशिनी ॥२॥
गिरेर्माल्यावतः पार्श्वे पुरी मन्मथशालिनी ॥
रत्‍नप्राकारसौधेश्च देवधानीव शोभिता ॥३॥
यत्र वै पुरुषा राजन्कामदेवसमप्रभाः ॥
शारदेन्दीवरश्यामाः पद्मपत्रनिभेक्षणाः ॥४॥
पीतांबरधरा नार्यः पुष्पहारमनोहराः ॥
क्रीडंति कंदुकैर्यत्र कामिन्यो नवयौवनाः ॥५॥
यद्देहामोदपवनो मत्तालिकुलनादितः ॥
गंधीकरोति भूभागं समन्ताच्छतयोजनाम् ॥६॥
तत्पुरीवासिनो लोका निर्गतास्ते बहुश्रुतः ॥
जगुर्यशः श्रीमुरारेः प्रद्युम्नस्यापि शृण्वताः ॥७॥
केतुमालवासिन ऊचुः -
आसीत्तु शेषशयनो जगदार्त्तिहारी
     साक्षात्प्रधानपुरुषेश्वर आदिदेवः ॥
यः प्रार्थितः सुरवरैर्भुवनावनाय
     तस्मै नमो भगवते पुरुषोत्तमाय ॥८॥
जातो गतः पितृगृहात्पितरौ विमोक्ष्य
     नंदालयं शिशुतनुः स तु नंदपत्‍न्या ॥
संलालितः सघृणया बहुमंगलश्रीः
     प्राणप्रहारमकरोत्किल पूतनायाः ॥९॥
बालो बभञ्ज शकटं शयनं प्रकुर्व-
     न्दैत्यं निपात्य महदद्‌भुतकं च पृष्ठे ॥
मात्रे प्रदर्श्य निजरूपमलंकृतोऽभू-
     द्‌गर्गेण संकथितसुंदरभाग्यलक्ष्मीः ॥१०॥
संलालितो व्रजजनैर्नवनीतचौरः
     श्यामो मनोहरवपुर्मृदुलः स बालः ॥
भित्वा जघास दधिपात्रमतीव दध्नो
     वृक्षौ बभंज जननीलघुदामबद्धः ॥११॥
वृंदावने स विचरन् सह वत्सगोपै-
     र्वत्सासुरं च विनिपात्य कपित्थवृक्षैः ॥
सद्यो विगृह्य खरतुण्डपुटे च दोर्भ्यां
     दैत्यं ददार स बकं तृणवत्तटिन्याम् ॥१२॥
संधारयंश्च शिशुभिर्बहुवत्ससंघान्
     वेणुं क्वणन्मदनमोहनवेषभृद्यः ॥
गोपानघासुरमुखे प्रहिताञ्जुगोप
     गोगोपवत्सपवपुः स चकार सद्यः ॥१३॥
क्षेत्रज्ञ आत्मपुरुषो भगवाननंतः
     पूर्णः प्रधानपुरुषेश्वर आदिदेवः ॥
धृत्वा वपुः स विहरन्व्रजबालकेषु
     सम्मोहयन्विधिमजो विचचार कृष्णः ॥१४॥
चिक्षेप धेनुकमसौ बलिनं बलेन
     ताले प्रगृह्य सहसा फणिकालियाख्यम् ॥
बभ्राम वह्निमपिबद्दनुजं प्रलंबं
     सद्यो जघान स बली दृढमुष्टिना च ॥१५॥
संचारयन्व्रजवधूर्मधुरं क्वणन् यो
     वेणुं वने व्रजवधूनिजगीतकीर्तिः ॥
दिव्यांबराणि स जहार वरांगनानां
     विप्रांगनाभिरभितः कृतभक्तभोजः ॥१६॥
देवे च वर्षति पशून्कृपया रिरक्षु-
     र्गोवर्धनं प्रकृतबाल इवोच्छिलींध्रम् ॥
बिभ्रद्‌गिरिं स गजराडिव कंजमेक-
     हस्ते शचीपतिवचोभिरतः स्तुतोऽभूत् ॥१७॥
नन्दं जुगोप वरुणात्स्वजनाय लोकं
     दिव्यं परं च तमसो दिवि दर्शयित्वा ॥
श्रीरासमण्डलगतो व्रजसुन्दरीणां
     रेमे पुलिन्दतटिनीपुलिनेऽङ्‌गनाभिः ॥१८॥
मानं हरन्मदनयौवनमानिनीना-
     मंतर्दधे व्रजवधूनिजगीतकीर्तिः ॥
स्रग्वी मनोहरवपुर्विरहातुराणां
     साक्षाद्धरिर्मदनमोहन आविरासीत् ॥१९॥
वृन्दावने शबरराजवरांगनाभि-
     र्विष्णुर्विभूतिभिरिव द्युभिरादिदेवः ॥
रेमे स्तुतः सुरवरैः स च रासरंगे
     केयूरकुण्डलकिरीटविटंकवेषः ॥२०॥
नंदं विमोक्ष्य फणिने प्रददौ च मोक्षं
     दिव्यं मणिं स च जहार ह शंखचूडात् ॥
गोपस्तुतो वृषभरूपधरं ह्यरिष्टं
     भूमौ निपात्य निजघान करेण शृङ्गे ॥२१॥
कंसः परं भयमवाप च तेन केशी
     संप्रेषितः सघनमेघवपुः प्रचंडः ॥
उत्सृज्य तं च तरसा पुनरापतंतं
     श्रीबाहुना मुखगतेन जघान कृष्णः ॥२२॥
यो नारदेन बहुवर्णितभाग्यलक्ष्मी-
     र्व्योमसुरो व्यसुरकारि परेण येन ॥
अक्रूरवर्णितमहोदय आदिदेवो
     गोपीजनातिविरहातुरचित्तचौरः ॥२३॥
श्वाफल्कये हितकराय निजं स्वरुप-
     मंतर्दधे जलचये स च दर्शयित्वा ॥
स प्राप तत्र मथुरोपवनं परेशो
     गोपालकैश्च सबलो मथुरां ददर्श ॥२४॥
स्वैरं चरन्मधुपुरे रजकं निकृत्य
     कृष्णः प्रदाय च वरानथ वायकाय ॥
मालाकृतं समनुकंप्य चकार कुब्जा-
     मृज्वीं धनुश्च सहसा नमयन्बभंज ॥२५॥
द्वारि द्विपञ्च विनिहत्य नरेन्द्र मल्लौ
     हत्वा प्रगृह्य विनिपात्य स रंगभूमौ ॥
कंसं हरिस्तु पितरावथ मोचयित्वा
     बंधान्नृपं पुरि चकार महोग्रसेनम् ॥२६॥
नंदं प्रसाद्य बहुदानकरो यदूस्ता-
     नाहूय तर्प्य सुधनैश्च निवेदयित्वा ॥
विद्यामधीत्य स ददौ प्रमृतं ह्यपत्यं
     कृत्वा वधं दनुजपञ्चजनस्य कृष्णः ॥२७॥
गोपीजनान्समनुगृह्य स चोद्धवेना-
     क्रूरेण हास्तिनपुरे त्वथ पांडुपुत्रान् ॥
कृष्णो विजित्य बलिनं च जरासुतं च
     भस्मीचकार मुचकुन्ददृशाऽऽत्मकालम् ॥२८॥
निर्माय चाद्‍भुतपुरं स्थितयेऽत्र कृष्णो
     निन्ये च कुण्डिनपुरात्किल भीष्मकन्याम् ॥
पुत्रेण शंबरमरिं निजघान चादाद्‌-
     राज्ञे मणीं युधि विजित्य स ऋक्षराजम् ॥२९॥
भामापतिः स च शिरः शतधन्वनस्तु
     हृत्वा ह्युवाह सवितुश्च सुतां परेशः ॥
आवंत्यराजतनुजां स जहार कृष्णः
     सत्यां स्वयंवरगृहे वृषभान्दमित्वा ॥३०॥
कैकेयराजतनुजां स जहार भद्रां
     श्रीलक्ष्मणामखिलभद्रपते सुतां च ॥
भौमं विजित्य सबलं युधि शस्त्रसंघै-
     र्निन्ये च षोडश-सहस्रवरांगनाश्च ॥३१॥
भामेच्छया सुरतरुं च सभां सुधर्मां
     शक्रं विजित्य स जहार कलत्रमित्रः ॥
यो रुक्मिणं च निजघान बलेन गोष्ठ्यां
     बाणस्य बाहुनिचयं शतधाच्छिनत्सः ॥३२॥
तेनोग्रसेनक्रतवेऽथ जगद्विजेतुं
     संप्रेषितो निजसुतः किल शंबरारिः ॥
योऽत्रागतो भुवि विजित्य नृपान्समस्तान्
     श्रीकेतुमालपतये च नमोऽस्तु तस्मै ॥३३॥
श्रीनारद उवाच -
प्रसन्नः श्रीहरिः कार्ष्णिः कुंडले कटकानि च ॥
हीरान् मणीन् गजानश्वान् ददौ तेभ्यो महामनाः ॥३४॥
पुर्यां मन्मथशालिन्यां व्यतिसंवत्सरो महान् ॥
प्रद्युम्नाय बलिं प्रादान्नमस्कृत्य प्रजापतिः ॥३५॥
अथ कार्ष्णिर्महाबाहुर्दिव्यं कामवनं ययौ ॥
जनैरगम्यं गम्यं च प्रजापतिदुहितृभिः ॥३६॥
सुंदरं मन्मथाक्रीडं वृतं कामास्त्रतेजसा ॥
नारीणां यत्र पतति व्यसुर्गर्भो न वत्सरम् ॥३७॥
तदा परात्कामवनाद्विनिर्गतः
     श्रीपुष्पधन्वा नृप पंचसायकः ॥
पीताम्बरश्यामतनुर्मनोहर-
     स्ततान कोदंडगुणध्वनिं स्मरः ॥३८॥
यद्‌बाणतो यादवपुंगवाः स्वतः
     ससैनिकाः साश्वगजाः पदातिभिः ॥
निपेतुरारात्किल कामविह्वला-
     स्तद्‌बाणवेगस्य न वर्णनं भवेत् ॥३९॥
अथाशु कार्ष्णिर्जगदीश्वरेश्वरः
     प्रलीनतां प्राप जले जलं यथा ॥
सद्यो विसिस्मुर्यदवः ससैनिका
     विज्ञाय पूर्णं नृप रुक्मिणीसुतम् ॥४०॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
मन्मथदेश विजयो नामैकत्रिंशोऽध्यायः ॥३१॥


GO TOP