श्रीगर्ग संहिता - विश्वजित्खण्डः - पंचविंशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - पंचविंशोऽध्यायः

यक्षविजयम् -


प्रद्युम्न उवाच -
श्रीकृष्णस्य कला साक्षाद्‌गणेशोऽयं महाबलः ॥
जेतुं न शक्यो दिविजैर्मनुष्यैस्तु कुतो भुवि ॥१॥
वर्तते यस्य निकटे तस्य नास्ति पराजयः ॥
श्रीकृष्णेन वरो दत्तः पुरास्मै शंकरालये ॥२॥
यद्ययं वर्तते चात्र तदा न स्याज्जयश्च नः ॥
शत्रुपक्षगतोऽ‍यं वै श्रीकृष्णस्य वरोर्जितः ॥३॥
तस्मात्त्वं चंडमार्जरो भूत्वा तं युद्धतो बलात् ॥
विद्रावय महाबुद्धे फूत्कारैश्च दिशौ दश ॥४॥
यावद्‌बलं विजेष्यामि तावदद्विद्रावय त्वरम् ॥
श्रीनारद उवाच -
अथानिरुद्धो भगवांश्चंडमार्जाररूपधृक् ॥५॥
अलक्षितो गणेशेन न ज्ञातो विष्णुमायया ॥
फूत्कारमुत्कटं कुर्वन् संपपाताखुसंमुखे ॥६॥
विदारयन्मुखं राजन्सततं नखरैः खरैः ॥
वीशेषण सहैवाखुर्दृष्ट्वाऽऽशु भयविह्वलः ॥ ७॥
दुद्राव त्वरितं राजन् कंपितो रणमंडलात् ॥
तमन्वगच्छत्कुपितो मार्जारः स्थूलरूपधृक् ॥८॥
मूषकं स्वमपोवाह गणेशोऽपि मुहुर्मुहुः ॥
नाययौ स्वं रणं चाखुश्चंडमार्जारपीडितः ॥९॥
सप्तद्वीपान्सप्तसिंधून् दिशासु विदिशासु च ॥
धावन् वै सप्तलोकेषु न लेभे शर्म मैथिल ॥१०॥
यत्र यत्र गतश्चाखुर्गणेशेन समन्वितः ॥
तत्र तत्र गतो राजन् मार्जारश्चंडविक्रमः ॥११॥
एवं समूषके याते गणेशे विदिशोत्तरम् ॥
विस्मितेषु सपक्षेषु गणेषु प्रमथेषु च ॥१२॥
पुष्पकस्थः कुबेरोऽसौ मायां चक्रेऽथ गौह्यकीम् ॥
गृहीत्वा स्वधनुर्दिव्यं नमस्कृत्य महेश्वरम् ॥१३॥
समंत्रं कवचं धृत्वा बाणसंघं समादधे ॥
तदैव छादितं व्योम मेघैः सांवर्तकैरिव ॥१४॥
तडित्स्वनैर्महाभीमैस्तमोऽभूत्स्तनयित्‍नुभिः ॥
बिंदवो हस्तिसदृशा निपेतुः सोपला मृधे ॥१५॥
धाराभिरतिघोराभिर्ववृषुर्वारिदास्ततः ॥
क्षणेन सिंधवः सर्वे प्लावयंतो धरातलम् ॥१६॥
पर्वतैर्जीवसहितैर्दृश्यन्ते रणमंडले ॥
प्राकृताः प्रलयं मत्वा यादवा भयविह्वलाः ॥१७॥
त्यक्त्त्वा शस्त्राणि तेऽथोचुः श्रीकृष्णेति मुहुर्मुहुः ॥
ज्ञात्वा तां गौह्यकीं मायां प्रद्युम्नो भगवान्हरिः ॥१८॥
सत्वात्मिकां च स्वां विद्यां सर्वमायोपमर्दिनीम् ॥
जप्त्वा कृत्वा कामबीजं बाणमध्ये निधाय तत् ॥१९॥
मुखे च प्रणवं धृत्वा पुंखे श्रीबीजमेव च ॥
आकृष्य कर्णपर्यन्तं कृष्णं स्मृत्वा चतुर्भुजम् ॥२०॥
चिक्षेप विशिखं चापाद्दोर्दंडाभ्यां तडित्स्वनात् ॥
कोदंडमुक्तो विशिखो द्योतयन्मंडलं दिशाम् ॥२१॥
जघान गौह्यकीं मायामंधकारं यथा रविः ॥
भयभितो राजराजो पुष्पकस्थो रणांगणात् ॥२२॥
पलायमानो यक्षैश्च कंपितः स्वपुरीं ययौ ॥
प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥२३॥
जहसुर्यादवाः सर्वे जयारावसमाकुलाः ॥
तदातिहर्षितो राजन् राजराजः कृतांजलिः ॥२४॥
बलिं नीत्वा ययौ शीघ्रं प्रद्युम्नस्यापि संमुखे ॥
गजेंद्राणां द्विलक्षं च द्विशुंडादंडशालिनाम् ॥२५॥
दद्‌भिश्चतुर्भिर्युक्तानामद्रीन्स्पर्धयतां मदैः ॥
दशलक्षं रथानां च मुक्तातोरणशालिनाम् ॥२६॥
शताश्वयोजितानां च रौक्माणां सूर्यवर्चसाम् ॥
दशार्बुदं तथा राजन्हयानां चन्द्रवर्चसाम् ॥२७॥
शिबिकानां चतुर्लक्षं माणिक्यैरग्रवर्चसाम् ॥
पंजरस्थायिनां राजञ्छार्दूलानां द्विलक्षकम् ॥२८॥
चित्रकाणां मृगाणां च गवयानां तथैव च ॥
मृगयासारमेयानां कोटिकोटिर्विदेहराट् ॥२९॥
शुकानां सारिकाणां च कलकंठप्रवादिनाम् ॥
हंसानां स्वर्णवर्णानामन्येषां चित्रपक्षिणाम् ॥३०॥
पंजरस्थायिनां राजँल्लक्षं लक्षं नृपेश्वर ॥
विमानं विष्णुदत्ताख्यं मुक्तादामविलंबितम् ॥३१॥
अष्टयोजनमुच्चांगं नवयोजनविस्तृतम् ॥
लक्षकुंभध्वजोपेतं निर्मितं विश्वकर्माणा ॥३२॥
कामगं स्वर्णशिखरं सहस्रादित्यसुप्रभम् ॥
सहस्रं कुलवृक्षाणां कामधेनुशतं तथा ॥३३॥
चिंतामणीनां च शतं शतं दिव्याश्मनां तथा ॥
यत्स्पर्शेनापि लोहस्तु हेमत्वं याति मैथिल ॥३४॥
छत्राणां चामराणां च हेमसिंहासनं शतम् ॥
तथाहि दिव्यपद्मानां मालांकिंजल्किनीं शुभाम् ॥३५॥
पीयूषस्य शतं द्रोणं फलानि विविधानि च ॥
खचिद्‌रत्‍नसुवर्णानां भूषणानां तु वाससाम् ॥३६॥
दिव्यानां कंबलानां च कोटीशः पात्रसंचयम् ॥
अमोघानां च शस्त्राणां कोटिसौवर्णशालिनाम् ॥३७॥
गजैर्नरैर्भारवाहैः प्रेरिता निधयो नव ॥
दत्त्वा बलिं राजराजः प्रद्युम्नाय महात्मने ॥३८॥
दक्षिणीकृत्य तं नत्वा प्राहेदं हर्षपूरितः ॥
कुबेर उवाच -
नमस्तुभ्यं भगवते पुरुषाय महात्मने ॥३९॥
अनादये सर्वविदे निर्गुणाय महात्मने ॥
प्रधानपुरुषेशाय प्रत्यग्धाम्ने नमो नमः ॥४०॥
स्वयंज्योतिःस्वरूपाय श्यामलांगाय ते नमः ॥
नमस्ते वासुदेवाय नमः संकर्षणाय च ॥४१॥
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥
मदनाय च माराय कंदर्पाय नमो नमः ॥४२॥
दर्पकाय च कामाय पंचबाणाय ते नमः ॥
अनंगाय नमस्तुभ्यं नमस्ते शम्बरारये ॥४३॥
हे मन्मथ नमस्तुभ्यं नमस्ते मीनकेतन ॥
मनोभवाय देवाय नमस्ते कुसुमेषवे ॥४४॥
अनन्यज नमस्तेऽस्तु रतिभर्त्रे नमो नमः ॥
नमस्ते पुष्पधनुषे मकरध्वज ते नमः ॥४५॥
स्मराय प्रभवे नित्यं जगद्विजयकारिणे ॥
नमो रुक्मवतीभर्त्रे सुंदरीपतये नमः ॥४६॥
इदं करिष्यामि करोमि भूम-
     न्ममेदमस्तीति तवेदमाब्रुवन् ॥
अहं सुखी दुःखयुतः सुहृज्जनो
     लोको ह्यहंकारविमोहितोऽखिलः ॥४७॥
प्रधानकालाशयदेहजैर्गुणैः
     कुर्वन् विकर्माणि जनो निबद्ध्यते ॥
काचेऽर्भकं सैकत एव जीवनं
     गुणे च सर्पं प्रतनोति सोऽक्षिभिः ॥४८॥
कृतं मया हेलनमद्य मौढ्य-
     तस्त्वन्मायया मोहितचेतसा प्रभो ॥
न मन्यसे बालकृतं पितेव हि
     माभूत्पुनर्मे मतिरीदृशी मनाक् ॥४९॥
सदा भवेत्त्वच्चरणारविंदयो-
     र्भक्तिं परां यां च विदुर्गरीयसीम् ॥
ज्ञानं च वैराग्ययुतं शिवास्पदं
     देहि प्रशस्तं निजसाधुसंगमम् ॥५०॥
श्रीनारद उवाच -
प्रद्युम्नस्य शुभं स्तोत्रं प्रातरुत्थाय यः पठेत् ॥
संकटे तस्य सततं सहायः स्याद्धरिः स्वयम् ॥५१॥
इत्युक्तवंतं यक्षेशं प्रद्युम्नो भगवान्हरिः ॥
तथास्तूक्त्वा ददौ राजन्पद्मरागशिरोमणिम् ॥५२॥
मा भैष्टेत्यभयं दत्वा लीलाछत्रं सचामरम् ॥
सिंहासनं मणिमयं प्रादाच्छ्रीयादवेश्वरः ॥५३॥
कार्ष्णिं प्रदक्षिणीकृत्य राजराजो धनेश्वरः ॥
जितं श्रुत्वा राजराजं प्रद्युम्नेन महात्मना ॥५४॥
न केऽपि युयुधुस्तेन राजानश्च बलिं ददुः ॥
अथ कार्ष्णिर्महाबाहु-र्नादयन्दुन्दुभीन्बहून् ॥५५॥
समस्तवाहिनीयुक्तः प्राग्ज्योतिषपुरं ययौ ॥
भौमासुरसुतो नीलो धर्षितस्तस्य तेजसा ॥५६॥
सद्यस्तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने ॥
प्राग्ज्योतिषपुरद्वारि द्विविदो नाम वानरः ॥५७॥
पुरा प्रद्युम्नबाणेन ताडितो यो महाबलः ॥
समुत्थाय रुषाविष्टो दशनैर्नखरैः खरैः ॥५८॥
विदार्य वीरानश्वांश्च भ्रूभंगैः प्रजगर्ज ह ॥
लांगूलेन रथान्बद्ध्वा प्राक्षिपल्लवणांभसि ॥ ५९॥
गृहीत्वा स गजान्दोर्भ्यां विचिक्षेपांबरे बलात् ॥
शत्रुं ज्ञात्वा कपिं कार्ष्णिः प्रतिशार्ङ्‌गे शरं दधे ॥६०॥
नीत्वा शरस्तं सहसा भ्रामयित्वांबरे बलात् ॥
पूर्ववत्पातयामास किष्किंधायां महाकपिम् ॥६१॥
पुनरागतवान्बाणः प्रद्युम्नस्येषुधौ स्फुरन् ॥६२॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
यक्षदेशविजयो नाम पंचविंशोऽध्यायः ॥२५॥


GO TOP