श्रीगर्ग संहिता - विश्वजित्खण्डः - चतुर्विंशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - चतुर्विंशोऽध्यायः

यक्ष-युद्धम् -


श्रीनारद उवाच -
शस्त्रांधकारे संजाते मणिग्रीवो महाबलः ॥
बिभेदारिबलं बाणैः कुवाक्यैर्मित्रतामिव ॥१॥
मणिग्रीवस्य बाणौघैर्गजाश्वरथपत्तयः ॥
निपेतुः सक्षता भूमौ वृक्षा वातहता इव ॥२॥
चंद्रभानुर्हरेः पुत्रो सत्यभामाऽऽत्मजो बली ॥
मणिग्रीवस्य कोदंडं पंचबाणैस्तदाच्छिनत् ॥३॥
दशभीस्तद्‌रथं भित्वा जगर्ज घनवद्‌बली ॥
मणिग्रीवोऽपि चिक्षेप शक्तिं स्वां चन्द्रभानवे ॥४॥
भासयंती दिशः शश्वन्महोल्कामिव मैथिल ॥
अग्रहीच्चंद्रभानुस्तां वामहस्तेन लीलया ॥५॥
तया जघान समरे मणिग्रीवं महाबलम् ॥
पुनर्जगर्ज समरे चंद्रभानुर्महाबलः ॥ ६॥
तत्प्रहारेण पतिते मणिग्रीवे प्रमूर्छिते ॥
चन्द्रभानुं बाणजालैर्नलकूबरनोदिताः ॥७॥
छादयामासुरसुरा वर्षादित्यं यथांबुदाः ॥
दीप्तिमान्कृष्णपुत्रस्तु खड्गमुद्यम्य वेगवान् ॥८॥
विवेश यक्षसेनासु नीहारेषु यथा रविः ॥
तस्य खड्गप्रहारेण केचिद्यक्षा द्विधाभवन् ॥९॥
केचिद्वै छिन्नशिरसश्छिन्नपादांसबाहवः ॥
भिन्नहस्ताश्छिन्नकर्णाश्छिन्नोष्ठाः पेतुराहवे ॥१०॥
तेषां शिरोभिर्बीभत्सैः सकिरीटैः सकुंडलैः ॥
सशिरस्त्रैः स्रवद्‌रक्तैर्महामारीव भूर्बभौ ॥११॥
शेषा विदुद्रुवुर्यक्षाः सक्षता भयविह्वलाः ॥
हाहाकारस्तदा जातो यक्षसेनासु मैथिल ॥१२॥
धनुष्टंकारयन्प्राप्तो दंशितो नलकूबरः ॥
रथेनातिपताकेन मा भैष्टेत्यभयं ददौ ॥१३॥
पंचभिः कृतवर्माणमर्जुनं दशभिः शरैः ॥
दीप्तिमंतं च विंशत्या तताड नलकूबरः ॥१४॥
कृतवर्मा महाबाहुर्जघान नलकूबरम् ॥
पंचभिर्विशिखै राजन्नादयन्मंडलं दिशाम् ॥१५॥
ते बाणाः कवचं भित्वा तनुं भित्वा धरातलम् ॥
विविशुः पश्यतां तेषां वल्मीके फणिनो यथा ॥१६॥
वीक्ष्य तद्‌बाणभिन्नांगं मूर्च्छितं नलकूबरं ॥
अपोवाह रणात्सूतो हेममालीति नामभाक् ॥१७॥
घंटानादः पार्श्वमौलिः कुबेरस्य च मंत्रिणौ ॥
जघ्नतुर्बाणपटलैर्यदूनामुद्‌भटं बलम् ॥१८॥
स्वर्णपुंखैस्तीक्ष्णमुखैर्गृध्रपक्षैर्मनोजवैः ॥
द्योतयद्‌भिर्दिशः सर्वा मार्तंडकिरणैरिव ॥१९॥
ततोऽर्जुनो महावीरः प्रतिबाणान्समादधे ॥
बाणसंघर्षजा युद्धे विस्फुलिंगा सहस्रशः ॥२०॥
विरेजुर्नृप खद्योतचंचलालातचक्रवत् ॥
सर्वं तद्‌बाणपटलं क्षणमात्रेण चाच्छिनत् ॥२१॥
गांडीवमुक्तविशिखैर्गांडीवी रणदुर्मदः ॥
योजनद्वयमात्रेण तद्‌रथो सध्वजो बलात् ॥२२॥
अर्जुनो बाणपटलैश्चकार शरपंजरे ॥
हताविमाविति ज्ञात्वा सर्वे पुण्यजनास्त्वरम् ॥२३॥
दुद्रुवुः स्वं रणं त्यक्त्वा परं हाहेति वादिनः ॥
तदा तु भूतावलयः कोटिशश्चाययुर्मृधे ॥२४॥
डाकिन्यः कोटिशो राजंश्चिक्षिपुर्वारणान्मृधे ॥
भक्षयंत्यो नरानश्वाँश्चर्वयंत्यो रथान्पृथक् ॥२५॥
नरे नरे पृथग्भूता धावंतो दशभिर्दश ॥
प्रमथाः पातयामासुः खट्वांगेन जनान्मुहुः ॥२६॥
यातुधानाश्चर्वयन्तः शिरांसि रणमंडले ॥
वेतालाश्च कपालेन पिबंतो रुधिरं बहु ॥२७॥
विनायकाश्च नृत्यंतः प्रेता गायंत एव हि ॥
कूष्मांडाश्च तथोन्मादाः शिरांसि जगृहुर्मृधे ॥२८॥
शिवस्य मुंडमालार्थं वीराणां स्वर्गगामिनाम् ॥
तथा मातृगणा ब्रह्मराक्षसा भैरवा मृधे ॥२९॥
शिरांसि कंदुकानीव क्षेपयंतो मुहुर्मुहुः ॥
हसंतः प्रहसंतश्च साट्टहासं समाकुलाः ॥३०॥
पिशाचा विकलास्याश्च कूर्दन्तः केऽपि कुत्सितम् ॥
पिशाच्यः क्षतजं तूष्णं पाययंत्यः शिशून्मृधे ॥३१॥
मा रोदीरिति वादिन्यो नेत्राण्यपि ददाम उत् ॥
इत्थं गणबलं दृष्ट्वा बलदेवानुजो बली ॥३२॥
गदो गदां समादाय जगर्ज घनवद्‌बली ॥
लक्षभारभृता मौर्व्या गदया तद्‌बलं महत् ॥३३॥
पोथयामास हि गदो वज्रेणेंद्रो यथा गिरीन् ॥
कूष्मांडोन्मादवेतालाः पिशाचा ब्रह्मराक्षसाः ॥३४॥
निपेतुर्मूर्छिता भूमौ तद्‌गदाभिन्नमस्तकाः ॥
डाकिनीभिन्नदंताश्च प्रमथाभिन्नकंधराः ॥३५॥
यातुधानांश्छिन्नमुखांश्चकार समरे गदः ॥
गदया मर्दिताः प्रेता दुद्रुवुस्ते दिशो दश ॥३६॥
वाराहदंष्ट्रया भग्ना लये दैत्या यथा नृप ॥
पलायिते भूतगणे वीरभद्रः समागतः ॥३७॥
गदं तताड गदया बलदेवानुजं बली ॥
गदोपरि गदां नीत्वा गदः स्वां प्राहीणोद्‌गदाम् ॥३८॥
तयोर्युद्धमभूद्‌घोरं गदाभ्यां मैथिलेश्वर ॥
विस्फुलिंगान् क्षरंत्यो द्वे गदे चूर्णिबभूवतुः ॥३९॥
मल्लयुद्धं तयोरासीन्नोदयंतं परस्परम् ॥
भुजैश्च जानुभिः पादैः पातयंतो गिरीन् बहून् ॥४०॥
करवीरं समुत्पाट्य वीरभद्रो गिरिं बलात् ॥
अट्टहासं तदा कुर्वन् गदोपरि समक्षिपत् ॥४१॥
गदो गिरिं संगृहीत्वा तस्योपरि समाक्षिपत् ॥
गृहीत्वाथ गदं वीरं वीरभद्रो बलाद्‌बली ॥४२॥
चिक्षेप चौजसा राजन्नाकाशे लक्षयोजनम् ॥
गदोऽपि पतितो भूमौ किंचिद्व्याकुलमानसः ॥४३॥
गृहीत्वा वीरभद्राख्यं भ्रामयित्वा महाबलः ॥
ओजसा प्राक्षिपच्छीघ्रमाकाशे लक्षयोजनम् ॥४४॥
वीरभद्रस्तु पतितः कैलासशिखरोपरि ॥
गदाप्रहारव्यथितो मूर्छितो घटिकाद्वयम् ॥४५॥
कार्तिकेयस्तदा प्राप्तः शक्तिमुद्यम्य वेगवान् ॥
अनिरुद्धाय सांबाय शक्तिं चिक्षेप सत्वरम् ॥४६॥
अनिरुद्धरथं भित्वा सांबं सांबरथं पुनः ॥
गजान् रथान्सहस्रं च वीरलक्षं मृधांगणे ॥४७॥
भित्वा नदंती स्फूर्जंती चपलेव दीशो दश ॥
विवेश भूमौ फूत्कारं कुर्वती पन्नगीव सा ॥४८॥
तदा क्रुद्धो महाबाहुः सांबो जाम्बवतीसुतः ॥
कृत्वाथ सिंजिनीघोषं निषंगाद्‌बाणमाददे ॥४९॥
एकोऽपि सद्‍बहिस्तूणाद्दशरूपी बभूव ह ॥
चापे शतं कर्षणे च सहस्रं रूपमादधे ॥५०॥
मोक्षणे लक्षरूपाणि कोटिरूपाणि कोटिषु ॥
अनेकरूपी विशिखः शिखिनं शिखिवाहनम् ॥५१॥
भित्वा बिभेद वीराणां कोटिशः कोटिशो रणे ॥
कार्तिकेये च भिन्नांगे किंचिद्व्याकुलमानसे ॥
गणेश्वरस्तदा प्राप्तो मूषकस्थो गजाननः ॥५२॥
गोमूत्रपत्रमृगनाभिविचित्रकुंभं
     श्रीकुंकुमाकलितसुंदरवक्रतुंडम् ॥
सिंदूरपूरितकपोलमनोहराभं
     कर्पूरधूलिधवलीकृतकर्णवर्णम् ॥५३॥
व्यालोलकर्णहतमत्तमधुव्रतैस्तैः
     श्रीगंडजातमदिरामदविह्वलांगै ॥
संगीततालकुसुमाकरगीतरागैः
     संसेवितं गणपतिं कृतभालचंद्रम् ॥५४॥
बालार्कवर्णममलांगदहेमहार-
     ग्रैवेयमौलिकिरणैः परितः स्फुरंतम् ॥
आखुस्थमेकदशनं गजभव्यमूर्तिं
     पाशांकुशांबुजकुठारचयं दधानम् ॥५५॥
प्रांशुं चतुर्भुजमतीव मृधे प्रवृत्तं
     कांश्चित्प्रगृह्य च करेण धृतांकुशेन ॥
संमर्दयंतमुरुधारपरश्वधेन
     श्रीभार्गवेन्द्रमिव शस्त्रभृतः समस्तान् ॥५६॥
वीरेभवाजिरथसंघबलं निपात्य
     सांबं प्रगृह्य सरथं प्रधनात्क्षिपंतम् ॥
तं वीक्ष्य विस्मितमनाः सगणोऽथ कार्ष्णिः
     पुत्रं सुबुद्धिमनिरुद्धमुवाच सम्यक् ॥५७॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
यक्षयुद्धवर्णनं नाम चतुर्विंशोऽध्यायः ॥२४॥


GO TOP