श्रीगर्ग संहिता - विश्वजित्खण्डः - षड्‌विंशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - षड्‌विंशोऽध्यायः

किंपुरुषखण्ड विजयम् -


श्रीनारद उवाव -
अथ कार्ष्णिं परान्देशान्दिव्यद्रुमलताकुलान् ॥
सहस्रपत्रवद्‌भिश्च सरोभिः शोभितान् ययौ ॥१॥
अक्षौहीणीशतयुतः प्रद्युम्नश्चण्डविक्रमः ॥
यक्षैर्दिष्टेन मार्गेण खण्डं किंपुरुषं ययौ ॥२॥
रंगवल्लीपुरं यत्र हेमकूटगिरेरधः ॥
तस्य किंपुरुषा उचुः शंबरारेश्च शृण्वतः ॥३॥
किंपुरुषा ऊचुः -
अहोऽतिधन्या मथुरापुरी वरा
     बभूव यस्यां परमेश्वरो हरिः ॥
अहोऽतिधन्यं सततं यदोः कुलं
     जातो हि यस्मिन्नखिलांडपालकः ॥४॥
धन्यं च तच्छूरसुतस्य मन्दिरं
     गोलोकनाथेन मनोहरं कृतम् ॥
धन्यं परं माथुरमंडलं सुरैः
     सुदुर्लभं यत्र चचार माधवः ॥५॥
महावनं धन्यतमं मनोहरं
     पितुर्गृहाद्यत्र गतो हरिः शिशुः ॥
चचार कृष्णः शिशुना बलेन हि
     यशोदया दुग्धमुखः सुलालितः ॥६॥
वृंदावनं पुण्यतमं परात्पर-
     श्रीकृष्णपादांबुजरेणुराजितम् ॥
गाः पालयन् यत्र चचार बलो
     गोपालबालैः सबलः स्वयं हरिः ॥७॥
यो दानलीलां किल मानलीलां
     श्रीरासलीलां व्रजसुन्दरीभिः ॥
वृन्दावने यत्र चचार कृष्णो
     यस्यापि गायन्ति यशस्त्रिलोकाः ॥८॥
अहोऽतिधन्या वृषभानुनंदिनी
     लीलावती सा निजलोकशालिनी ॥
चचार कृष्णेन कलिन्दनन्दिनी-
     तटे मिलिन्दध्वनिसंकुले वने ॥९॥
अहोऽतिधन्याऽस्ति कलिन्दनंदिनी
     श्रीकृष्णवामांससमुद्‌भवा या ॥
तटे मिलिन्दध्वनिसंकुले वटे
     तत्स्पर्शनाद्याति नरः कृतार्थताम् ॥१०॥
समुद्‌भवो यो हरिवक्षसो गिरि-
     र्गोवर्द्धनो नाम गिरींद्रराजराट् ॥
विराजते स व्रजमंडले परो
     यद्दर्शनाञ्जन्म पुनर्न विद्यते ॥११॥
अहोऽतिधन्या यदुमण्डलीभि-
     र्विराजते भूमितले मनोहरा ॥
वैकुण्ठलीलाधिकृता कुशस्थली
     यथा तडिद्‌भिर्जलदावलिर्दिवि ॥१२॥
यत्रैव साक्षात्पुरुषः परेश्वरो
     धृत्वा चतुर्व्यूहमलं विराजते ॥
यस्तूग्रसेनाय ददौ नृपेशतां
     कृष्णाय तस्मै हरये नमो नमः ॥१३॥
प्रणोदितस्तेन नृपेण धीमता
     जगद्विजेतुं मकरध्वजो महान् ॥
कृत्वाथ तद्दर्शनमद्य दुर्लभं
     वयं कृतार्था हि भवेम सर्वतः ॥१४॥
श्रीनारद उवाच -
इत्थं हरिर्नृपयशो विशदैश्चरित्रै-
     रुद्यत्त्रिलोकमलं विशदीचकार ॥
पूर्णेंदुरश्मिमिलितैस्तरलैः स्फुरद्‌भिः
     प्रोद्यद्‌भिरुद्‌गज इवामलसिंधुदुग्धम् ॥१५॥
इत्थं यशः स्वममलं नृप शंबरारिः
     श्रुत्वातिहर्षिततनुः प्रददौ धनानि ॥
केयुरहारनवरत्‍नमनोहराणि
     तेभ्यः किरीटमणिकुण्डलकंकणानि ॥१६॥
रङ्गवल्लीपुराधीशः सुबाहुश्चन्द्रवंशजः ॥
नत्वा बलिं ददौ सोऽपि प्रद्युम्नाय महात्मने ॥१७॥
तस्मै प्रसन्नो भगवान् प्रद्युम्नो मीनकेतनः ॥
दत्वा चूडामणिं दिव्यं पप्रच्छेदं महामनाः ॥१८॥
श्रीप्रद्युम्न उवाच -
रङ्गवल्लीपुरस्यापि नाम केन प्रकाशितम् ॥
एतद्‍ब्रूहि सुबाहो मे श्रुतं पूर्वं त्वया किल ॥१९॥
सुबाहुरुवाच -
देवासुरैः पुरा राजन्मथितः क्षीरसागरः ॥
विनिर्गतानि मथनाद्‌रत्‍नानि च चतुर्दश ॥२०॥
निःसृतं कलशं तस्मात्सुधापूर्णं मनोहरम् ॥
तं ददर्श हरिः साक्षान्नेत्राभ्यां पुष्करेक्षणः ॥२१॥
तन्नेत्रहर्षबिन्दुश्च कलशे निपपात ह ॥
तस्माद्‍वृक्षः समुद्‍भुतस्तुलसीति प्रकथ्यते ॥२२॥
रङ्गवल्लीति तन्नाम चकार मधुसूदनः ॥
अत्र किंपुरुषे खंडे हेमकूटगिरेरधः ॥२३॥
तस्याश्च रङ्गवल्याः कौ स्थापनां स चकार ह ॥
रङ्गवल्लीमहावृक्षः सदात्रैव विराजते ॥२४॥
तन्नाम्ना प्रसिद्धमभूद्‌रंगवल्लीपुरं त्विदम् ॥
अत्र नित्यं हि हनुमानार्ष्टिषेणेन रागिणा ॥२५॥
दर्शनार्थं समायाति महात्मा रामपूजकः ॥
श्रीनारद उवाच -
इति श्रुत्वा शम्बरारी रङ्गवल्लीं मनोहरम् ॥२६॥
दृष्ट्वा प्रदक्षिणीकृत्य देशानन्याञ्जगाम ह ॥
हेमकूटतटीभूतं वनं प्राप्तं भयङ्करम् ॥२७॥
झिल्लीझंकारसंयुक्तं सिंहचित्रकनादितम् ॥
वन्यैः करींद्रैः संयुक्तं शिवोलूकरुतावृतम् ॥२८॥
कीचकाश्वत्थमन्दार-वटभूर्जसमाकुलम् ॥
कृष्णाहरीतकीवल्ली-बदरैः सघनं वनम् ॥२९॥
तस्माद्विनिर्गतः सर्पो दशयोजनलंबितः ॥
अग्रसद्‌गजवृंदानि फूत्कारं कारयन्मुहुः ॥३०॥
हाहाकारे तदा जाते सेनायां मैथिलेश्वर ॥
प्रचंडगरलैर्वातैर्भस्मीभूते दिशांतरे ॥३१॥
भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा ॥
चंद्रभानुर्बृहद्‌भानुरतिभानुस्तथाऽष्टमः ॥३२॥
श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ॥
एते जघ्नुः शरैस्तीक्ष्णैः सर्पं रौद्रं मदोत्कटम् ॥३३॥
बाणैः संभिन्नसर्वांगः पतितो धरणीतले ॥
सर्परूपं विहायाशु गंधर्वोऽभूत्स्फुरद्द्युति ॥३४॥
नत्वा श्रीकृष्णपुत्रांस्तान् द्योतयन् मंडलं दिशाम् ॥
पुष्पैर्वर्षत्सु देवेषु विमानेन दिवं ययौ ॥३५॥
बहुलाश्व उवाच -
गंधर्वोऽयं तु कः पूर्वं केन पापेन सर्पताम् ॥
प्राप्तः कथं वद मुने त्वं परावरवित्तमः ॥३६॥
श्रीनारद उवाच -
आर्ष्टिषेणस्य यो भ्राता सुमतिर्नाम सुन्दरः ॥
रामायणं हनुमता पठितुं स समागतः ॥३७॥
हेमकूटे हनुमतः कुर्वतो रामसेवनम् ॥
प्रातःकालात्समारभ्य घटिकाश्च चतुर्दश ॥३८॥
सलक्ष्मणं रामचंद्रं ध्यायतो जानकीपतिम् ॥
फूत्कारैः सर्पवत्तस्य ध्यानभंगं चकार ह ॥३९॥
तदा क्रुद्धो महावीरो हनुमान् वानरेश्वरः ॥
शापं ददौ सुमतये त्वं सर्पो भव दुर्मते ॥ ४०॥
तदैव तस्य चरणौ नत्वा प्राह कृतांजलिः ॥
हे देव पाहि पाहीति दीनं मां शरणं गतम् ॥४१॥
अथ प्रसन्नो भगवान्सुमतिं प्राह धर्मवित् ॥
द्वापारांते शरैस्तीक्ष्णैर्हरिपुत्रधनुश्च्युतैः ॥
भिन्नदेहः स्वां प्रकृतिं यास्यसि त्वं न संशयः ॥४२॥
गंधर्वः सुमतिर्नाम विमुक्तोऽभूद्‌विदेहराट् ॥
सतां शापोऽपि वरवद्‌वरो मोक्षार्थदः किमु ॥४३॥
अथ कार्ष्णिर्महाबाहुश्चैत्रदेशान्मनोहरान् ॥
वसन्तमाधवीवृंदैः शोभीतान्स जगाम ह ॥४४॥
सहस्रदलपद्मानां षट्‍पदध्वनिशालिनाम् ॥
पतन्ति रेणवो यत्र सरःस्वाबीरचूर्णवत् ॥४५॥
एलालवंगलतिका क्षुण्णाः सैन्याङ्‌घ्रिभिः पथि ॥
तेन भृङ्गावली रेजे करिकर्णप्रताडिता ॥४६॥
यत्र वै पुरुषा राजन्नागायुतसमा बले ॥
वलीपलितदौर्गंध्यस्वेदक्लमविवर्जिताः ॥४७॥
त्रेतायुगसमाः कालो वर्तते यत्र नित्यशः ॥
आयुश्चायुतवर्षाणां दिव्यौषधिनदीगुणैः ॥४८॥
पीयूषतुल्यं तोयं च हेमभूमिर्विराजते ॥
मुक्ताविद्रुमवैडूर्य-रत्‍नोत्पत्तिश्च यत्र वै ॥४९॥
सुंदर्यः प्रमदा रामा नित्ययौवनभूषिताः ॥
स्फुरंत्युपवनेष्वारात्सौदामिन्यो घनेष्विव ॥५०॥
यत्र वै नगरी रम्या वसंततिलका शुभा ॥
शृङ्‌गारतिलको नाम राजा यत्र महाबलः ॥५१॥
जैत्रान् वीरान् समाहूय गजमारुह्य दंशितः ॥
योद्धुं विनिर्ययौ यश्च प्रद्युम्नस्यापि संमुखे ॥५२॥
सांबः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥
विजयश्चित्रकेतुश्च वसुमान्द्रविडः क्रतुः ॥५३॥
जांबवत्याः सुता ह्येते चक्रुर्नाराचदुर्दिनम् ॥
पलायितेषु चैतेषु बाणैर्भिन्नेषु मैथिल ॥५४॥
बाणांधकारे संजाते महान्कोलाहलो ह्यभूत् ॥
तदा शृङ्गारतिलको गजारूढो महाबलः ॥५५॥
त्रिशूलेन तद साम्बं हृदि विव्याध रोषतः ।
अन्यान्संपातयामास शरैः कोदंडनिर्गतैः ॥५६॥
एकाकी विचरन् युद्धे वने वैश्वानरो यथा ॥
तदा गदः समागत्य तद्‌गजं सुमदोत्कटम् ॥५७॥
शुंडादंडे संगृहीत्वा पातयामास भूतले ॥
दूरे प्रपतितः शीघ्रं शृङ्गारतिलको नृपः ॥५८॥
सद्यो भयातुरो भूत्वा युद्धे बद्धांजलिः स्वतः ॥
तुरंगाणामर्बुदं च रथानां लक्षमेव च ॥५९॥
गजानामयुतं राजा प्रद्युम्नाय बलिं ददौ ॥
इत्थं किंपुरुषं खंडं जित्वा कार्ष्णिर्महाबलः ॥६०॥
निषाददर्शितैर्मार्गैर्हरिवर्षं ततो ययौ ॥६१॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
किंपुरुषखण्डविजयो नाम षड्‌विंशोऽध्यायः ॥२६॥


GO TOP