श्रीगर्ग संहिता - विश्वजित्खण्डः - अष्टादशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - अष्टादशोऽध्यायः

माथुर-शूरसेनविजयम् -


श्रीनारद उवाच -
अथ कार्ष्णिर्गयामेत्य फल्गुं स्नात्वा ससैनिकः ॥
अन्यान्देशांस्ततो जेतुं प्रस्थानमकरोत्पुनः ॥१॥
श्रुत्वा जितं जरासंधं तदातंकान्नृपाः परे ॥
उपायनं ददुस्ते वै भयार्ताः शरणं गताः ॥२॥
गोमतीं सरयूं पुण्यामनुस्रोतं ततोऽगमत् ॥
ततो भागीरथीतीरे काशीमभिजगाम ह ॥३॥
पार्ष्णिग्राहः काशिराजो गृहीतो मृगयां गतः ॥
सोऽपि तस्मै बलिं प्रादाच्छ्रुत्वा तस्य बलं महत् ॥४॥
प्रद्युम्नः सैनिकैः सार्द्धं कोशलान्प्रगतो बली ॥
अयोध्यानिकटे राजन्नंदिग्रामे स्थितोऽभवत् ॥५॥
कोशलेन्द्रो नग्नजिच्च तुरंगैश्च गजै रथैः ॥
महाधनैः शंबरारिमर्हयामास तत्त्ववित् ॥६॥
उत्तरेशो दीपतमो नयपालाधिपो गजः ॥
विशालेशो बर्हिणश्च एते वै तं बलिं ददुः ॥७॥
नैमिषेशो हरेर्भक्तः श्रीकृष्णस्य प्रभाववित् ॥
कृतांजलिपुटो भूत्वा ददौ तस्मै बलिं नृपः ॥८॥
प्रयागं गतवान्कार्ष्णिस्त्रिवेणीं पापनाशिनीम् ॥
स्नात्वा ददौ महादानं तीर्थराजप्रभाववित् ॥९॥
गजा विंशतिसाहस्रमश्वानां दशलक्षकम् ॥
रथानां च चतुर्लक्षं गवां तत्र दशार्बुदम् ॥१०॥
हेममालासमायुक्तं हेमांबरसमन्वितम् ॥
दशभारं सुवर्णानां मुक्तानां लक्षमेव हि ॥११॥
द्विलक्षं नवरत्‍नानां वस्त्राणां दशलक्षकम् ॥
काश्मीरकंबलानां च द्विलक्षं नवकंबलम् ॥१२॥
ब्राह्मणेभ्यो ददौ कार्ष्णिस्तीर्थराजे हरिप्रिये ॥
कारूषाधिपतिस्तत्र पौंड्रको नाम मैथिल ॥१३॥
कृष्णशत्रुः सोऽपि कार्ष्णिं पूजयामास शंकितः ॥
प्रद्युम्नं चागतं वीक्ष्य पांचाले कान्यकुब्जके ॥१४॥
भयं प्रापुर्नृपाः सर्वे दुर्गे दुर्गे कृतार्गलाः ॥
विचेलुर्यादवात्सर्वे भयार्ता दुर्गमाश्रिताः ॥१५॥
बिंदुदेशाधिपो राजा दीर्घबाहुर्महाबलः ॥
शंबरारेः परं सन्धिं कर्तुं सैन्ये समाययौ ॥१६॥
दीर्घबाहुरुवाच -
यूयं सर्वे यादवेन्द्रा आगता जयिनो दिशाम् ॥
मनोरथं मे कुरुतां भवेयं तुष्टमानसः ॥१७॥
सजलस्यापि काचस्य पात्रस्य शरवेधतः ॥
न क्षरेद्‌बिंदुरेकोऽपि बाणस्तदधितिष्ठति ॥१८॥
न पात्रं शकलीभूतं तन्मध्ये हस्तलाघवम् ॥
ये कुर्वंति प्रतिज्ञां मे तेभ्यो दास्यामि कन्यकाः ॥१९॥
यूयं सर्वे यादवेन्द्रा धनुर्वेदविशारदाः ॥
मयापि नारदमुखाच्छ्रुता पूर्वं महाबलाः ॥२०॥
सर्वेषां विस्मितानां च प्रद्युम्नो धन्विनां वरः ॥
तथेत्युवाच सदसि बिंदुदेशाधिपं नृप ॥२१॥
दीर्घवंशौ सुविस्थाप्य गुणं बद्ध्वा तदन्तरे ॥
गुणे बद्ध्वा काचकुम्भं सजलं पश्यतां सताम् ॥२२॥
धनुर्गृहीत्वा तद्वीक्ष्य बाणं कार्ष्णिः समादधे ॥
काचपात्रं शरो भित्वा तस्थौ मध्येऽर्द्धनिःसृतः ॥२३॥
एकतो मुखपुङ्खाभ्यां रविरश्मिरिवांबुदे ॥
काचपात्रे बभौ बाणस्तदद्‌भुतमिवाभवत् ॥२४॥
न पात्रं शकलीभूतं त्रिकुशस्य फलं यथा ॥
न चालनं कंपनं च बिंदुस्रावोऽपि नाभवत् ॥२५॥
प्रद्युम्नो भगवान्बाणं द्वितीयं संदधे पुनः ॥
सोऽपि पूर्वं समुत्सृज्य तत्र तस्थौ विदेहराट् ॥२६॥
सांबोऽपि धनुरादाय बाणान्पंच समाददे ॥
काचपात्रं च ते भित्वा तस्थुस्तत्रार्धनिःसृताः ॥२७॥
युयुधानो धनुर्नीत्वा बाणमेकं समाक्षिपत् ॥
सर्वेषां पश्यतां तेषां पात्रं चूर्णीबभूव ह ॥२८॥
उच्चकैर्जहसुः सर्वे यादवाः परसैनिकाः ॥
त्वं महान्बाणधारीह कार्तवीर्यार्जुनो यथा ॥२९॥
अर्जुनो भरतो रामस्त्रिपुरघ्नो हि वा भवान् ॥
द्रोणो भीष्मोऽथवा कर्णो जामदग्न्य इवाभवत् ॥३०॥
अन्यत्पात्रं समाधायानिरुद्धो धन्विनां वरः ॥
अधो गत्वाऽथ तद्‍दृष्ट्वा बाणं चिक्षेप लाघवात् ॥३१॥
सोऽपि पात्रतलं भित्वा तस्थौ तत्रापि निःसृतः ॥
तत्पात्राद्धस्तपञ्चोर्ध्वं बद्ध्वा पाषाणमंबरे ॥३२॥
दीप्तिमान् धनुरादाय बाणमेकं समादधे ॥
सोऽपि पात्रतलं भित्वा बाणमुत्सृज्य चाग्रतः ॥३३॥
ताडयित्वा च पाषाणं पुनस्तत्र समाश्रितः ॥
बाणवेगेन तदपि बिंदुस्रावोऽपि नाभवत् ॥३४॥
गतागतेन यावद्वै बिंदुस्रावोऽपि नाभवत् ॥
तदा वीराश्च ते सर्वे साधु साध्विति वादिनः ॥३५॥
भानुर्धनुः संगृहीत्वा वीक्ष्य मीलितलोचनः ॥
आराच्चिक्षेप नाराचं सर्वेषां पश्यतां सताम् ॥३६॥
सोऽपि पात्रं तदा भीत्त्वा पात्रं कृत्वा ह्यधोमुखम् ॥
पुनरूर्ध्वमुखं कृत्वा तस्थौ तत्रार्द्धनिःसृतः ॥३७॥
बाणवेगेन तदपि बिंदुस्रावोऽपि नाभवत् ॥
न पात्रं शकलीभूतं तदद्‌भुतमिवाभवत् ॥३८॥
एवं श्रीकृष्णपुत्रा ये अष्टादश महारथाः ॥
सर्वे ते बिभिदुः पात्रं जलस्रावोऽपि नाभवत् ॥३९॥
बिंदुदेशाधिपो राजा दीर्घबाहुः सुविस्मितः ॥
तेभ्योऽदात्कन्यकाः सृष्टा अष्टादश सुलोचनाः ॥४०॥
तेषां विवाहसमये शंखभेर्यानकादयः ॥
नेदुर्जगुश्च गंधर्वा ननृतुश्चाप्सरोगणाः ॥४१॥
तेषामुपरि देवास्ते जयध्वनिसमाकुलाः ॥
ववृषुः पुष्पवर्षाणि चक्रुः श्लाघां दिवी स्थिताः ॥४२॥
गजान्षष्टिसहस्राणि हयानामर्बुदं तथा ॥
दशलक्षं रथानां च दासीनां लक्षमेव च ॥४३॥
शिबिकानां चतुर्लक्षं पारिबर्हे ददौ नृपः ॥
ताः प्राहिणोद्‍द्वारावतीं बभौ कर्ष्णिर्यदूत्तमः ॥४४॥
दीर्घबाहुमनुप्राप्य निषधान्प्रययौ ततः ॥
निषधाधिपतिर्वीरसेनजिन्नाम मैथिल ॥४५॥
उपायनं ददौ सोऽपि प्रद्युम्नाय महात्मने ॥
तथाहि मद्राधिपतिः श्रीकृष्णेष्टो हरिप्रियः ॥४६॥
पूजयामास सबलं बृहत्सेनो हरेः सुतम् ॥
माथुरान्शूरसेनांश्च मधून्प्राप्तः ससैनिकः ॥४७॥
स्वागतैः पूजितः कार्ष्णिर्मथुरायां ययौ पुनः ॥
ततः प्रदक्षिणिकृत्य मथुरां सवनां किल ॥४८॥
गोपान्गोपीं यशोदां च नन्दराजं व्रजेश्वरम् ॥
वृषभानूपनंदांश्च नत्वा कार्ष्णिर्बभौ नृप ॥४९॥
बलिं च नंदराजाय दत्वा दत्वा पुनः पुनः ॥
तै पूजितः कतिदिनैः स्थितोऽभून्नंदगोकुले ॥५०॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
माथुरशूरसेनदेशविजयो नामाष्टादशोऽध्यायः ॥१८॥


GO TOP